सामग्री पर जाएँ

शशः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

शशः सस्तनिजन्तुः भवति। लेपोरिड कुटुम्बस्य ल्यागोमोर्फा वर्गीयः भवति। शशस्य ८ प्रभेदाः सन्ति। युरोपियन् शशः, कार्पासपुच्छशशः इत्यादयाः भवन्ति।

शशाः शाद्वले, अरण्ये एवमेव नैकेषु प्रदेशेषु वसन्ति। अधिकतया समूहे एव वासः शशाणाम्। विशेषतः युरोपियन् शशाः भूबिलेषु वसन्ति। प्रपञ्चे विद्यमानशशाणाम् अर्धस्यापेक्षया अधिकाः शशाः उत्तरामेरिकायां वसन्ति। युरोप्, आग्नेय एशीया, सुमात्रा,आप्रिका, दक्षिणामेरिका, जपान् देशस्य केचन द्वीपेषुच शशाः वसन्ति।

स्वभावस्वरूपौ

[सम्पादयतु]

साधारणतया १० से.मी. अपेक्षया दीर्घे श्रवणे भवतः। अनयोः कर्णयोः सहायेन शत्रूणां शब्दादि ज्ञानं तीक्षणतया ज्ञातुं शक्ताः भवन्ति। पृष्टे विद्यमानयोः पादयोः ४ अङ्गुल्यः भवन्ति। पुरतः विद्यमानयोः पादयोः ५ अङ्गुल्यः भवन्ति। मन्दगमनं यदा भवति तदा सम्पूर्णपादौ भूमिं स्पृशतः। धावनसमये अङ्गुलीणां सहायेन धावति शशः। शशाणां भारः ०.४ तः २ कि.ग्रां. भवति। देहस्य ग्रत्रं २० तः ५० से.मी.भवति। लाङ्गूलसहितश्च भवति। मांसाहारस्य पट्टिकायां अयमपि अन्तर्भवति। अतः शशाः भयेन सर्वदा जीवन्ति।

निद्रा

[सम्पादयतु]

शशाः प्रायशः अधिकाधिकाः ८ घण्टाः निद्रां कुर्वन्ति।

सन्तानोऽत्पत्तिः

[सम्पादयतु]

शशाणां सन्तानाभिवृद्धिः वेगेन भवति। तेषां सन्तानाभिवृद्धेः कालः प्रायशः ९ मासाः भवन्ति। फेबरवरीतः अक्टोबर पर्यन्तं भवति। आश्ट्रेलिया, न्यूजिल्याण्ड देशयोः जुलैतः जनेवरि पर्यन्तं भवति। गर्भधारणावधिः ३० दिनानि भवन्ति। एकस्मिन् काले ४ तः १२ शिशुभ्यः जन्म ददाति। शिशवः ४ उत ५ दिनेषु प्रबुद्धाः भवन्ति। स्त्रीशशः स्वजीवितावधौ ८०० शिशुभ्यः जन्मदातुं समर्थः भवति।

शशाः तृणान् आहारत्वेन स्वीकुर्वन्ति। एवं अन्यान् सस्यान् अपि खादन्ति।

वीथिका

[सम्पादयतु]

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=शशः&oldid=481009" इत्यस्माद् प्रतिप्राप्तम्