शिखरिणीछन्दः
दिखावट
शिखरिणी।
लक्षणम्
[सम्पादयतु]रसै रुद्रैश्छिन्ना यमनसभला ग: शिखरिणी।केदारभट्टकृत- त्तरत्नाकर:३. ९०
।ऽऽ ऽऽऽ ।।। ।।ऽ ऽ।। । ऽ
य म न स भ ल ग।
यति: षड्भि: एकादशभि:च।
अस्मिन् छन्दसि सप्तदशाक्षराणि भवन्ति तथा च यत्र प्रत्येकम् अपि पादे क्रमेण एकः यगणः¸
एकः मगणः, एकः नगणः, एकः सगणः एकः भगणः एकः लघुः एकः गुरुश्च भवति तदेव शिखरिणीति वृत्तं कथ्यते ।
यतिस्तु षष्ठे द्वादशे च भविष्यति ।
उदाहरणम्
[सम्पादयतु]- यदा किञ्चिज्ज्ञोऽहं द्विप इव मदान्धः समभवम्
- तदा सर्वज्ञोऽस्मीत्यभवदलिप्तं मम मनः।
- यदा किञ्चित् किञ्चित् बुधजनसकाशाद् अवगतम्
"तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः।।
अर्थः
[सम्पादयतु]यदा अहम् अत्यल्पज्ञः आसम्, तदा मदेन उन्मत्तः गजः इव अहङ्कारेण अहमेव सर्वज्ञः इत्यविचारयम् ।
किन्तु विद्वत्सङ्गमात् यदा किञ्चित् किञ्चित् अवगतम्, तदा ज्ञातं यद् अहं तु मूर्खः अस्मीति ।
तथा च मम अहङ्कारः ज्वरः इव विनष्टः ।