सामग्री पर जाएँ

शिम्बी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
शिम्बी
A variety of the common bean with flat pods
A variety of the common bean with flat pods
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Fabales
कुलम् Fabaceae
उपकुलम् Faboideae
ट्राइबस् Phaseoleae
सब्-ट्रैबस् Phaseolinae
वंशः Phaseolus
जातिः P. vulgaris
द्विपदनाम
Phaseolus vulgaris
L.
पर्यायपदानि
  • Phaseolus aborigineus Burkart
  • Phaseolus communis Pritzel
  • Phaseolus compessus DC.
  • Phaseolus esculentus Salisb.
  • Phaseolus nanus L. & Jusl.
रक्तवर्णीयं राजमाषधान्यम्
त्वक्-रहितं राजमाषधान्यम्

अयं राजमाषः अपि भारते वर्धमानः कश्चन धान्यविशेषः । अयम् अपि सस्यजन्यः आहारपदार्थः । आङ्ग्लभाषायाम् अस्य नाम Kidney bean इति अस्ति । अस्य सस्यशास्त्रीयं नाम अस्ति Phaseolus vulgaris इति । माषस्य अपेक्षया महागात्रम् अस्य इति कारणात् अस्य नाम “राजमाषः” इति स्यात् ।रुचौ अपि अयं “राजा” एव । किन्तु अयं राजमाषः धान्याधमः । “शिम्बी धान्याधमः” इत्येव उक्तम् अस्ति । द्विदलधान्येषु सर्वाधमः राजमाषः । तथापि राजमाषेण निर्मिता रोटिका, पर्पटः, पौलिः वा मुखे जलम् उत्पादयति एव । शिम्बी, महामाषः, चपलः, चबलः, नृपमाषः इत्यादीनि नामानि सन्ति राजमाषस्य । अयं राजमाषः वर्णभेदानुसारं त्रिधा विभज्यते । श्वेतराजमाषः, रक्तराजमाषः, कृष्णराजमाषः च इति ।

कृष्णवर्णीयं राजमाषधान्यम्
राजमाषसस्यस्य कश्चन प्रभेदः
Phaseolus vulgaris”

आयुर्वेदस्य अनुसारम् अस्य राजमाषस्य स्वभावः

[सम्पादयतु]
विक्रयणार्थं शाकापणे संस्थापितः राजमाषः
राजमाषपुष्पम्

अयं राजमाषः पचनार्थं जडः । रुचिः अस्य किञ्चित् प्रमाणेन मधुरा, किञ्चित् प्रमाणेन कषाया च । शरीरं शुष्कीकरोति अयम् । बलप्रदः चेदपि वातकारकः । बीजस्य गात्रं यावत् बृहत् भवति तावत् एते स्वभावाः अधिकाः भवन्ति । अयं राजमाषः मलस्य प्रमाणम् अधिकं करोति च ।

“राजमाषो गुरुः स्वादुस्तुवरस्तर्पणः सरः ।
रूक्षो वातकरो रूच्यः स्तन्यो भूरिबलप्रदः ॥
रूक्षो गुरुर्बहुशकृच्चलकृच्चशिम्बी ।
धान्याधमस्त्वमसि नागम एष मिथ्या ॥
हे राजमाष तव राजपदं प्रदत्तम् ।
माषं विहाय विधिना तददृष्टमेव ॥“
श्वेतवर्णीयं राजमाषधान्यम्
राजमाषेण निर्मितं व्यञ्जनम्
राजमाषशाकम्
१. राजमाषेण निर्मितः पौलिः, सारः वा वातकरः, पचनार्थं जडः, शरीरं शुष्कीकरोति । अतः वातप्रकृतियुक्ताः, न्यूनजीर्णशक्तियुक्ताः वा मितप्रमाणेन सेवेरन् ।
२. राजमाषः आम्लपित्तकरः । अतः आम्लपित्तरोगिभिः न उपयोक्तव्यः ।
३. यद्यपि राजमाषः पौष्टिकः आहारः तथापि “धान्याधमः” । अतः मितप्रमाणेन एव उपयोक्तव्यः ।
४. मलक्षयबाधा अस्ति चेदपि राजमाषः न उपयोक्तव्यः । यतः सः मलक्षयकारकः ।
५. राजमाषेण आहारपदार्थानां निर्माणावसरे तत्र जीरिकां, हिङ्गु वा योजयन्ति चेत् दोषः परिहृतः भवति ।

आयुर्वेदे देहस्य बलवर्धकाः “धातुः” इति उच्यन्ते । (रसः, रक्तं, मांसम्, मेदः, अस्थि, मज्ज, शुक्रः चेति सप्त धातवः) उत्तमेषु आहारेषु एतेषां सप्तानां धातूनां पोषणस्य गुणः भवेत् । तथैव सः आराहः त्रीन् दोषान् (वातः, पित्तं, कफः, च इति त्रयः दोषाः) न दूषयेत् । सः च उत्तमः आहारः मलवर्धकः अपि न स्यात् । तादृशाः आहाराः सार्वत्रिकरूपेण उत्तमाः आहाराः इति उच्यन्ते । अन्ये केचन केषाञ्चन जनानां, केषुचित् सन्दर्भेषु, कुत्रचित् रुग्णावस्थायां, केषुचित् ऋतुषु वा उपयोक्तुं योग्याः भवन्ति । एतत् लक्षणद्वयम् अपि राजमाषस्य नास्ति इति कारणात् प्रायः सः “धान्याधमः” इति उक्तं स्यात् ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]


"https://sa.wikipedia.org/w/index.php?title=शिम्बी&oldid=485767" इत्यस्माद् प्रतिप्राप्तम्