शुकसप्ततिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


ग्रन्थोऽयं शाखाद्वयविभक्तः प्राप्यते –एका शाखा चिन्तामणिनामकेन केनचिद् ब्राह्मणेन प्रणीता, अपरा केनचन श्वेतम्बर जैनविदुषा कृता ।

अयं कथाग्रन्थोऽतीव मनोरञ्जकः । मध्ये मध्ये उपदेशप्रचैर्वर्णनपरैश्च पद्यैर्गथितमस्य गद्यं सरलम् । क्वचिन्मध्ये प्राकृतपद्यमपि विद्यते । देशान्तरं प्रस्थितः कश्चन मदनसेनो नाम वणिक् स्वस्त्रियो रक्षणार्थं गन्धर्वावतारभूतौ शुककाकौ न्ययुङ्क्त । अनन्तरमधर्मपथप्रस्थितां स्वामिनीमुपदेषुमिच्छन् काकःस्पष्टार्थमुपदिदेश । तेन कुपिता सा तं प्राणदण्डभीत्या न्यवारयत् । तथा दृष्ट्वा शुको बुध्दिमत्तया तामनुवर्त्तमानः अमुकवत् त्वम् अस्मिन् मार्ग सम्भविनीं बाधां निवारयितुमुपायान् जानासि न वेति पृष्टवान् । नेत्युक्ते तया तां कथामेकां श्रावयति । न कथया प्रथमया तन्मनोरथः सिद्ध्यति । ततोऽन्यां श्रावयति । ततोऽपि परतोऽन्यम् । एवं कालं नयन्नसौ शुकस्तां रक्षितवानधर्माचरणादयावन्मदनसेनो गृहानागच्छत् । इदमेवात्र वर्ण्य वस्तु । आसु कथासु असतीनां स्त्रीणां छलव्यवहारा एव मुख्यतया वर्णिताः ।

इमे वर्णिता ग्रन्था कस्यापि धर्मविशेषस्य प्रचाराय न कृताः । धर्मविशेषप्रचारमुद्दीश्यापि जैन-बौध्दमतानुसारिभिः कतिपये ग्रन्था निर्मीयन्त । मतविशेषस्य कथाग्रन्थेषु साऽऽकर्षकता न दृश्यते या साधारणकथाग्रन्थेषु । बौध्दैर्विरचिताः कथाग्रन्था अवदाननाम्ना प्रयन्ते ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=शुकसप्ततिः&oldid=409771" इत्यस्माद् पुनः प्राप्तिः