सामग्री पर जाएँ

शून्यमुद्रा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
शून्यमुद्रा
शून्यमुद्रा, योगस्य एकः उत्तम मुद्र।
शून्यमुद्रा, योगस्य एकः उत्तम मुद्र।
योगासनः
योगासने एकः भिन्नः
योगासने एकः भिन्नः
योगः
एकः मुद्रा
एकः मुद्रा

फलकम्:Infobox settlemnt

योगासन्ः
योगासने एकः भिन्नः
योगासने एकः भिन्नः

करणविधानम्

[सम्पादयतु]

शून्यमुद्रा सपदि एव परिणामं ददाति । मध्यमायाः अग्रभागम् अङ्गुष्ठस्य मूले नीत्वा अङ्गुष्ठं मध्यमायाः पृ‌ष्टभागे स्थापनीयम् । अन्याः अङ्गुल्यः सरलाः स्थापनीयाः ।

परिणामः

[सम्पादयतु]

मध्यमा आकाशतत्वं निर्दिशति । यदा आकाशतत्वं अधिकं भवति तदा कर्णसम्बन्धिसमस्यापि उद्भवति । शिरसि ठक् ठक् इति मुद्गरेण प्रहारः भवति इति भासते । तदा शून्यमुद्रया आकाशतत्वं न्यूनीकृत्वा शिरसम्बन्धिदोषाः दूरीकर्तुं शक्यन्ते ।

उपयोगः

[सम्पादयतु]

कर्णवेदना, बधिरतायाः च समस्यायै दिने ५० निमेषपर्यतं शून्यमुद्रां कृत्वा अनन्तरं १५ निमेषपर्यतं प्राणमुद्रा करणीया । कर्णवेदना, कर्णे शब्दः अपि शमितो भवति । यदा कर्णप्रवहणं भवति तदा कर्णस्य शस्त्रचिकित्सा असाध्या इति वैद्याः वदन्ति । तदा शून्यमुद्रया कर्णसमस्यां दूरीकृता भवति । शिर्रोभ्रमणसमस्यायां अपि शून्यमुद्रा रामबाणः इव परिणामं करोति । कदाचित् शिशोः वाक्दोषः भवति । तदा शून्यमुद्रा, प्राणमुद्रायाश्च करणेन ते वाक्पटवः भवितुं अर्हन्ति । अश्रवणेन एव शिशोः वाणी न आगता । किन्तु शून्यमुद्रायाः करणेन कर्णः समीचीनो भूत्वा भाषाश्रवणात् शिशुः वाक्पटुः अभवत् इति अभिप्रायः । शिरसि ठक्-ठक् इति मुद्गरेण प्रहारः भवति इति यदा भासते तदा शून्यमुद्रायाः साकं वायुमुद्रापि ५० निमेषपर्यतं, अनन्तरं १५ निमेषपर्यतं प्राणमुद्रा क्रियते चेत् शिरः पूर्ववत् शान्तः भवति । भयंकरशिरोवेदना, कर्णवेदना, चलनसमये अस्थिरता, कम्पनं, दन्तवेदना, कण्ठवेदना, पृष्टभागवेदना, पार्ष्णिवेदना, सन्धिवेदनाश्च शून्यमुद्रा तथा वायुमुद्रा करणेन वेदनाः शमिताः भवन्ति । तदनन्तरं प्राणमुद्रा अपि करणीया ।

"https://sa.wikipedia.org/w/index.php?title=शून्यमुद्रा&oldid=395927" इत्यस्माद् प्रतिप्राप्तम्