शृङ्गारशतकम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

शृङ्गारशतकं भर्तृहरेः कृतित्वेन प्रसिद्धं प्रस्तुतिकाव्यम् । शतकत्रय्यां शृङ्गारशतकमाद्यं हि शतकम् । अत्र रतिर्मानवजीवनस्योपादानविशेषत्वेन वर्णिता । अस्मिन् शतके स्त्रीसौन्दर्यम्, प्रणयलीला, पुरुषहृदयवशीकरणम्, अनुभवदिविषये लिखितवान् अस्ति । शतकस्यास्य सन्ति बह्वष्टीकाः । शतकेऽस्मिन् सन्ति एकाधिकशतपद्यानि । कवेः शैली प्रसादमाधुर्यप्रोता। अस्य प्रत्येकं पद्यं स्वस्मिन्नेव पूर्णम् । अत्र भाषाभावयोर्मञ्जुलः समन्वयः । अत्र कवित्वं पाण्डित्यञ्च एकीभूय स्थिते दृश्येते । यथा हि -

स्मितेन भावेन च लज्जया भिया पराङ्मुखैरर्धकटाक्षवीक्षणैः।

वचोभिरीर्ष्याकलहेन लीलया समस्तभावैः खलु बन्धनं स्त्रियः।।[१]

नामृतं न विषं किञ्चिदेकां मुक्त्वा नितम्बिनीम्।

मैवामृतलता रक्ता विरक्ता विषबल्लरी ॥[२] इत्यादि ।

कविपरिचयः[सम्पादयतु]

अनिश्चितैतिह्येष्वयमप्येकः कविः । बववः ग्रन्थाः भर्तृहरिप्रणीतत्वेन गृहीताः सन्ति । वाक्यपदीयं, वाक्यपदीयस्य ब्रह्मकाण्डस्य टीका, पातञ्जलमहाभाष्यस्य व्याख्या, अष्टाध्याय्या भागवृत्तिः, रावणवधकाव्यं, नीतिशतकं, शृङ्गारशतकं वैराग्यशतकमन्यान्यग्रन्थाश्च भर्तृहरिप्रणीता इत्युच्यन्ते । तेषु वाक्यपदीयं तु प्रसिद्धं तत्कृतित्वेन एवमेव तस्य टीका च। तेन महाभाष्यस्य व्याख्या दीपिकाख्याऽऽसीदिति कैयटस्य 'तथापि हरिबद्धेन सारेण ग्रन्थसेतुना' इति प्रदीपवचनाज्ज्ञायते । तस्याः पूर्वतनो भागस्तु प्रकाशितोऽपि वर्तते । अष्टाघ्याय्या वृत्तिरपि भागवृत्तिसङ्कलननाम्ना प्रकाशिता दृश्यते । रावणवधकाव्यस्य प्रणेता भट्टिः भर्तृहरिरेव नान्य इति ‘इति भर्तृकाव्यटीकायां जयमङ्गलायाम्' इति मुग्धबोधिनीकारवचनात्, ‘महान्तः कवयः सन्तु महान्तः पण्डितास्तथा । महाकविर्महाविद्वानेको भर्तृहरिर्मतः' ।। इति परम्पराश्लोकात् चानुमीयते । शतकत्रयी तु तत्कृतित्वेन सर्वत्र सुभाषितावल्यादिषु गृहीतैव । अथ कोऽसावित्यपेक्षायां केचित्तं विक्रमादित्यस्य भ्रातरं मन्यन्ते । यथोक्तं -

ब्राह्मण्यामभवद्वराहमिहिरो ज्योतिर्विदामग्रणी ।

राजा भर्तृहरिश्च विक्रमनृपः क्षेत्रात्मजायामभूत् ।

वैश्यायां हरिचन्द्रवैद्यतिलकौ जातश्च शङ्कुः कृती

शूद्रायामपरः षडेव शवरस्वामिद्विजस्यात्मजाः॥ इति ।

कथानकान्तरानुसारेण चन्द्रगुप्ताख्यब्राह्मणस्य चतस्रो भार्या आसन् । तासु ब्राह्मण्यां वररुचिः, क्षत्रियायां विक्रमार्कः, वैश्यायां भट्टिः, शूद्रायां भर्तृहरिश्च सञ्जाताः इति । एवमेव 'श्रीमद्गोविन्ददीक्षितसूनुविक्रमावरजभट्टिमहाकविविरचिते महाकाव्ये' इत्येकत्र 'वलभीवास्तव्यस्य श्रीस्वामिसुनोर्भट्टिमहाब्राह्मणस्य महावैयाकरणस्य कृतौ' इत्यप्यन्यत्र लिखितमपि दृश्यते । केचिदमुं काश्मीरं मन्यन्ते, अपरे उज्जयिनीवासिनं, अन्ये तु वलभीवासिनमपि कथयन्ति । विन्ध्याचलपार्श्वे चुनारप्रदेशे भर्तृहरेः दूर्गत्वेन प्रसिद्धमेकं जीर्णदुर्गमपि नयनपथमायाति । तत् भागीरथ्याः दक्षिणतटे विद्यते । तेन भर्तृहरेः परिचयः सम्प्रत्यपि चित्रविचित्रकथाविहारभूमिरेव । केचित्कथयन्ति असौ ब्राह्मण आसीदपरे तं क्षत्रियं कस्यापि देशस्य शासकमपि मन्यन्ते । केचित्तं शूद्राजातमपि । भर्तृहरिप्रणीतत्वेन ख्यातानां ग्रन्थानां प्रणेता किमेकम् एवं उताहो एकाधिका, भर्तृहरय आसन्नित्यपि पक्षो निर्णेतव्य एव । न किमपि ज्ञायतेऽस्य विषये । केचिदिमं नृपविक्रमार्कस्य भ्रातरं मन्यन्ते विक्रमादित्यपूर्वकालभवम् । परे तु इयं वैक्रमसप्तमशतकभवमपि मन्यन्ते । केचिदिमं बौद्धं मन्यन्ते, केचित्तु शैवमपि । इत्सिङ्गकथनानुसारेण कश्चिद्भर्तृहरिनामा कश्चिद्वैयाकरणः ६५१ (७०८ वै०) पञ्चत्वं गत इति ज्ञायते । केचित्तु तं भामहपूर्ववर्तिनमपि मन्यन्ते । यद्यपि विषयोऽत्र नैव निर्णेतुं शक्यः स्पष्टप्रमाणाभावात्| महाभाष्यव्याख्याता भर्तृहरिविक्रमभ्राता भर्तृहरिः पतञ्जलिशिष्यो वा तच्छिष्यशिष्यः । वाक्यपदीयस्य प्रणेता तस्य ब्रह्मकाण्डस्य व्याख्याता भर्तृहरिविक्रमानन्तरतृतीयशतकभवो वसुरातशिष्यः । भागवृत्तिकृद्भर्तृहरिक्रमानन्तरं ७०० मितवर्ष मभितः स्थितिमान् । भट्टिकाव्यस्य प्रणेताऽपर एव भट्टिनामा न तु भर्तृहरिः। शतकत्रय्याः प्रणेता पूर्वोक्तेभ्यो विलक्षणः सम्भवतः ६३२-७०७ मितवैक्रमाब्दान्तरालवर्ती।

विषयनिरूपणम्[सम्पादयतु]

  1. स्त्रीप्रशंसा
  2. स्म्भोगवर्णनम्
  3. कामिनीगर्हणम्
  4. सुविरक्त-दुर्विरक्तपद्धतिः
  5. ऋतुवर्णनम्

केचन श्लोकाः[सम्पादयतु]

किङ्कुमपङ्ककलङ्कितनेत्रा
गौरपयोधरकम्पितहारा ।
नूपुरहंसरणत्पदपद्मा
कं न वशीकुरुते भुवि रामा ॥
मात्सर्यमुत्सार्य विचार्य कार्यम्
आर्याः समर्यादमिदं वदन्तु ।
सेव्या नितम्बाः किमु भूधराणाम्
उत स्मरस्मेर विलासिनीनाम् ॥
सदा शुभ्रं धाम स्फुरदमलरश्मिः शशधरः
प्रियावक्त्राम्भोजं मलयजरजश्चातिसुरभिः ।
स्रजो हृद्यामोदास्तदिदमखिलं रागिणि जने

करोत्यन्तःक्षोभं न तु विषयसंसर्गविमुखे ॥

सम्बद्धाः लेखाः[सम्पादयतु]

  • २४
  • "https://sa.wikipedia.org/w/index.php?title=शृङ्गारशतकम्&oldid=444121" इत्यस्माद् पुनः प्राप्तिः