सामग्री पर जाएँ

श्रीगन्धवृक्षः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


अयं श्रीगन्धवृक्षः भारते वर्धमानः कश्चन विशिष्टः वृक्षः । अयं सर्वेषु प्रदेशेषु न वर्धते । भारतदेशस्य कर्णाटकराज्यस्य दक्षिणभागेषु तथा च केरलराज्ये च अधिकतया वर्धते श्रीगन्धवृक्षः । अयं न महान् वृक्षः । सामान्यम् औन्नत्यं भवति अस्य । अस्य वृक्षस्य काष्ठम् औषधत्वेन उपयुज्यते । फेनकानां सुगन्धद्रव्याणां च निर्माणे अपि अयं वृक्षः उपयुज्यते । अनेन एव निर्मितं “मैसूरु स्याण्डल्” नामकं फेनकं सुगन्धद्रव्यादिकं च विश्वे एव प्रसिद्धम् अस्ति । अस्य काष्ठम् अन्येन द्रव्येण सह उद्घर्ष्य तथा च कषायं निर्माय औषधं सज्जीकर्तुं शक्यते । संस्कृते अस्य श्रीगन्धस्य “चन्दनम्” इति अपरं नाम अपि अस्ति । अस्मिन् “साण्टिलाल्” नामकः तैलांशः भवति । तस्मात् एव कारणात् अस्य वृक्षस्य विशिष्टः कश्चन गन्धः भवति । अयं श्रीगन्धः देवमूर्तिनां निर्माणे, देवपूजायाः वस्तूनां, पीठानां च निर्माणे अपि उपयुज्यते ।

इतरभाषासु अस्य श्रीगन्धस्य नामानि

[सम्पादयतु]

अयं श्रीगन्धवृक्षः आङ्ग्लभाषयाWhite Sandal wood इति उच्यते । अस्य श्रीगन्धवृक्षस्य सस्यशास्त्रीयं नाम अस्ति Santalum Album इति । हिन्दीभाषया“सफेद् साण्डल्” इति, तेलुगुभाषया“गन्धवु चक्क” इति, तमिळभाषया“चन्दन कट्टै” इति, मलयाळभाषया“चन्देन मरम्” इति, मराठीभाषया“सफेद् चन्दन्” इति, कन्नडभाषया“चन्दन मर” अथवा “गन्धद मर” इति च उच्यते ।

आयुर्वेदस्य अनुसारम् अस्य श्रीगन्धस्य प्रयोजनानि

[सम्पादयतु]

अस्य श्रीगन्धस्य रसः तिक्तः । अयं शीतवीर्यः अपि । अस्य मूलं लघु, रूक्षं चापि । १. अस्य श्रीगन्धस्य मूलं पित्तशामकम् । २. ज्वरबाधायाम् अस्य श्रीगन्धस्य उद्घर्षणं कृत्वा ललाटस्य उपरि लेपनेन शरीरस्य औष्ण्यम् अपगच्छति । ३. पित्तविकारान्, पित्तजन्यं ज्वरं चापि निवारयति श्रीगन्धस्य कषायम् । ४. चर्मरोगेषु अपि श्रीगन्धस्य उपयोगः हितकरः । ५. चर्मणि पिटकानां वा व्रणानां वा कालकाः सन्ति चेत् श्रीगन्धम् उद्घर्ष्य लेपयन्ति । ६. महती पिपासा बाधते चेत् नारिकेलजलेन सह अस्य चूर्णं सेवनीयम् । ७. अस्य श्रीगन्धस्य तैलं पिटकान्, ज्वलनं चापि निवारयति । ८. मूत्रस्य विसर्जनस्य अवसरे ज्वलनं जायते चेत् अस्य श्रीगन्धस्य कषायं पातव्यम् । ९. अतीव स्वेदः जायते चेत्, स्वेदः दुर्गन्धयुक्तः चेत् च अस्य चूर्णं शरीरे लेपनीयम् । १०. अतिसारेण पीडिताः अस्य श्रीगन्धस्य उपयोगेन शमनं प्राप्नुवन्ति । ११. शरीरे यत्र कुत्रापि शोथः जातः अस्य श्रीगन्धस्य लेपः करणीयः । १२. श्रीगन्धस्य चूर्णं, तेनैव प्रमाणेन तण्डुलानां क्षालनजलं, खण्डशर्करां, मधु च योजयित्वा कषायं निर्मातुं शक्यते । १३. अनेन श्रीगन्धेन निर्मितं चन्दनतैलं, चन्दनासवः च आपणेषु उपलभ्यते । तत्र चन्दनतैलं चर्मरोगान्, चर्मणः ज्वलनं च शमयति । चन्दनासवः पित्तं, औष्ण्यं चापि निवारयति ।

सम्बद्धाः लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=श्रीगन्धवृक्षः&oldid=409778" इत्यस्माद् प्रतिप्राप्तम्