श्री (रागः-हिन्दुस्थानिशास्त्रीयसङ्गीतम्)
दिखावट
(श्री (रागः-हिनदुस्थानिशास्त्रियसङ्गीतम्) इत्यस्मात् पुनर्निर्दिष्टम्)
श्रीरागः (Shree Raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन प्रसिद्धः रागः भवति । पूर्वीथाट् गणस्य रागः भवति । केचन काफी थाट् गणस्य इत्यभिप्रयन्ति । प्राचीनः स्वतन्त्रश्च रागः भवति । गम्भीरप्रकृतिकः रागः भवति । आरोहे गान्धारधैवतौ स्वरौ वर्ज्यौ भवतः । वादिस्वरः ॠषभः (रे) भवति । संवादिस्वरः पञ्चमः (प) भवति । ओडव जात्यासहितः रागः भवति । सन्ध्याकालस्य रागः भवति । प-रे स्वरसङ्गतिः रसाभिव्यक्तेः स्थानं भवति । मिश्रशृङ्गाररसयुक्तः रागः भवति । अस्य रागस्य गायने चतुराः गायकाः एव समर्थाः भवन्ति । सन्धिप्रकाशकः रागः भवति ।
श्लोकः
[सम्पादयतु]- अष्टादशाब्द स्मरचारुमूर्तिः धीरोल्लसत् पल्लवकर्णपूरः।
- षड्जादि सेव्योऽरुणवस्त्रधारी श्रीरागराजः क्षितिपालमूर्तिः॥
- आरोहः- स रे म प नि स
- अवरोहः – स नि ध प म ग रे स
- पक्कड – म प नि स रे- नि ध प म ग रे स
समयः
[सम्पादयतु]मध्याह्ने ४ तः सायं ६ वादनपर्यन्तं प्रशस्तकालः भवति ।