श्री (रागः-हिन्दुस्थानिशास्त्रीयसङ्गीतम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्रीरागः (Shree Raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन प्रसिद्धः रागः भवति । पूर्वीथाट् गणस्य रागः भवति । केचन काफी थाट् गणस्य इत्यभिप्रयन्ति । प्राचीनः स्वतन्त्रश्च रागः भवति । गम्भीरप्रकृतिकः रागः भवति । आरोहे गान्धारधैवतौ स्वरौ वर्ज्यौ भवतः । वादिस्वरः ॠषभः (रे) भवति । संवादिस्वरः पञ्चमः (प) भवति । ओडव जात्यासहितः रागः भवति । सन्ध्याकालस्य रागः भवति । प-रे स्वरसङ्गतिः रसाभिव्यक्तेः स्थानं भवति । मिश्रशृङ्गाररसयुक्तः रागः भवति । अस्य रागस्य गायने चतुराः गायकाः एव समर्थाः भवन्ति । सन्धिप्रकाशकः रागः भवति ।

श्लोकः[सम्पादयतु]

अष्टादशाब्द स्मरचारुमूर्तिः धीरोल्लसत् पल्लवकर्णपूरः।
षड्जादि सेव्योऽरुणवस्त्रधारी श्रीरागराजः क्षितिपालमूर्तिः॥
  • आरोहः- स रे म प नि स
  • अवरोहः – स नि ध प म ग रे स
  • पक्कड – म प नि स रे- नि ध प म ग रे स

समयः[सम्पादयतु]

मध्याह्ने ४ तः सायं ६ वादनपर्यन्तं प्रशस्तकालः भवति ।

थाट्[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]