श्वासरोगः
Wheezing
स्टेतोस्कोप् उपकरणेन श्रूयमाणः श्वासध्वनिः सञ्चिकायाः श्रवणे समस्या भवति वा? ? पश्यतु माध्यम-साहाय्यम्। |
रोगोऽयं ‘श्वासः’ इति कथ्यते । रोगेऽस्मिन् रोगी श्वासप्रश्वासयोः कष्टमनुभवति । यतोहि श्वासनले कफस्य घनीभूतत्वात् श्वासक्रियायां कष्टम् अनुभूयते । कदाचित् रोगी अकर्मण्योऽपि भवितुमर्हति । श्वासनलं परितः कफानां घनीभूतत्वात् रक्तकोषसमूहस्य सङ्कोचः भवति, येन श्वासस्य विसर्जने ग्रहणे च कष्टं भवति । आबालवृध्दाः सर्वेऽपि रोगेऽस्मिन् आक्रान्ताः भवन्ति । किन्तु उपलभ्यमानेन औषधेन रोगस्यास्य पूर्णनिराकरणं न भवति । रोगस्य कारणं तु दैनन्दिनसमयसारण्या असमता ।
आयुर्वेदे चिकित्सा
[सम्पादयतु]श्वासरोगी प्रातः काले उत्थाय मुखप्रक्षालनादिकं समाप्य सुखोष्णं जलं चषकद्वयं अवश्यं पिबेत् । ततः मलविसर्जनस्य अनन्तरं, भस्रिकाप्राणायामं दशवारं, कपालभातिं निमेषाभ्यन्तरे षष्टिवारम् च अवश्यं कुर्यात् । नाडीशोधनप्राणायामः रोगिणा विंशतिवारं यावदवश्यं कर्तव्यः । सः च रोगी सप्ताहे एकवारम् अवश्यं जलनेतिं कुर्यात् , येन श्वासनलस्य परिष्कारः भवेत् । ततः निर्दिष्टानि आसनानि कर्तव्यानि । ततः सार्धघटिकायाः अनन्तरं स्नानादिकं समाप्य प्रातरासः कर्तव्यः ।
पथ्यम्
[सम्पादयतु]- प्रातराशे – मुष्टिपरिमितम् अङ्कुरितं चणकं, मुदगकं वा स्वीकुर्यात् । अथवा गोधूमनिर्मितरोटिका हरितशाकनिर्मितव्यञ्जनं च स्वीकर्तुं शक्यते ।
- मध्याह्न भोजने – तिक्तशाकस्य व्यञ्जनम्, हरितशाकनिर्मितव्यञ्जनम्, रोटिका, स्वल्पमन्नं सूपश्च भवेयुः ।
- अपराह्णे –व्यञ्जनं, यवसक्तुना निर्मितमन्नं स्वल्पप्रमाणेन स्वीकर्तव्यम् ।
- रात्रिभोजने – शयनात् द्विघटिकायाः पूर्वमेव लघुभोजनं कर्तव्यम्, यतोहि एतद्रोगाक्रान्ताः रात्रौ एव श्वासकष्टम् अनुभवन्ति ।
- श्वासरोगी कदापि धूमपानं न कुर्यात् ।
- भोजने तैलम् , उपस्करं च निषिध्येते ।
- शाकैः निर्मितव्यञ्जनम् अतीव उपकारकम् ।
- तामसिकं , राजसिकं च खाद्यं स्वासरोगिणां कृते अहितकरम् । श्वासरोगी शाकाहारी भवेत् ।
- श्वासरोगिणः , रात्रौ षटतः अष्ट घण्टाः यावत् शयनं कुर्यात् ।
- धूलिपूर्णं स्थानं सर्वदा वर्ज्यम् ।