श्वेतपत्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

श्वेतपत्रम् इत्यस्य शब्दस्य ब्रिटिश्-संसदि उपयोगः भवति स्म । सर्वकारसम्बद्धानां प्रकल्पानां, कार्यसमितीनाम्, आयव्यययोः च वर्तमानस्थितिं जनसामान्यानां सम्मुखम् उपस्थापयितुं सर्वकारः श्वेतपत्रस्य उपयोगं करोति । एतत् पत्रम् अधिकृतपरिपत्रत्वेन परिगण्यते । यतो हि एतस्मिन् पत्रे संशोधनसमित्याः, आयोगस्य, सांविधानिकसंस्थानां च मतानि भवन्ति । ताः संस्थाः एतस्य पत्रस्य रचनां प्रमाणानुगुणं, वास्तविकस्थित्यनुसारं च कुर्वन्ति । पत्रेऽस्मिन् सर्वकारस्य मतानि अपि भवन्ति ।

श्वेतपत्रम् ( /ˈʃvɛtəpətrəm/) (हिन्दी: श्वेतपत्र, आङ्ग्ल: White Paper) इत्येनं शब्दं वयं राजनैतिकानां मुखात् पौनःपुन्येन शृण्मः । ब्रिटिश्-संविधानानुसारं भारतीयसंविधानस्य रचना अभवत् इति एतादृशैः शब्दैः ज्ञायते । भारते एतस्य शब्दस्योपयोगः स्वतन्त्रतायाः पुरा अपि भवति स्म । भारतीयनेतारः संसदि श्वेतपत्रस्य याचनं कुर्वन्ति स्म । तेषां गमनानन्तरम् अपि भारतीयाः आङ्ग्लानाम् अनुसरणं कुर्वन्तः सन्ति । अतः अद्यापि बाहुल्येन एतस्य शब्दस्य प्रयोगः भवति ।

श्वेतपत्रम् इत्युक्ते किम् ?[सम्पादयतु]

श्वेतपत्रम् इत्यस्य शब्दस्य ब्रिटिश्-संसदि उपयोगः भवति स्म । सर्वकारसम्बद्धानां प्रकल्पानां, कार्यसमितीनाम्, आयव्यययोः च वर्तमानस्थितिं जनसामान्यानां सम्मुखम् उपस्थापयितुं सर्वकारः श्वेतपत्रस्य उपयोगं करोति । एतत् पत्रम् अधिकृतपरिपत्रत्वेन परिगण्यते । यतो हि एतस्मिन् पत्रे संशोधनसमित्याः, आयोगस्य, सांविधानिकसंस्थानां च मतानि भवन्ति । ताः संस्थाः एतस्य पत्रस्य रचनां प्रमाणानुगुणं, वास्तविकस्थित्यनुसारं च कुर्वन्ति । पत्रेऽस्मिन् सर्वकारस्य मतानि अपि भवन्ति ।

श्वेतपत्रे सारगर्भितानां सूचनानाम् एव समावेशो भवति । विस्तृतलेखनम्, अवाञ्च्छितसूचनादानं, प्रौढभाषाप्रयोगः श्वेतपत्रे वर्ज्यः । श्वेतपत्रं सामान्यशब्दैः गुम्फितं, स्पष्टं, लघु च भवेत् इति नियमः । श्वेतपत्रं सामान्यतः एकस्मिन् श्वेतकर्गदछादने (white cover) आविष्टः भवति । अतः श्वेतपत्रतम् इति नाम ।

श्वेतपत्रस्य उद्देशः[सम्पादयतु]

लोकतन्त्रम् इत्युक्ते प्रजायाः शासनम् । अतः लोकतन्त्रे प्रजा सर्वोपरि भवति । लोकतन्त्रे शासकः, रक्षकः, न्यायप्रणालिः च प्रजायाः मतानुगुणं कार्यं करोति । अतः प्रजा अधिकारेण प्रष्टुं शक्नोति यत्, “अमुकस्याः योजनानायाः, समस्याः, समित्याः विषये सर्वकारेण किं कृतम्, अधुना कीदृशी स्थितिः अस्ति ?” इति । प्रजानां प्रश्नानां लिखितरूपेण उत्तरदानम् एव श्वेतपत्रस्य उद्देशः । विषयाणां स्पष्टीकरणं, प्रजाभ्यः वृत्तान्तदानं (information), वर्तमानस्थितेः अवबोधनम् इत्यादयः अपि श्वेतपत्रस्य उद्देशाः ।

श्वेतपत्रस्य आवश्यकता[सम्पादयतु]

सर्वकारस्य विभिन्नेषु विभागेषु यदि काचित् भ्रष्टाचारसम्बद्धा सूचना प्राप्यते, तर्हि सर्वकारपक्षात् भ्रष्टाचारसम्बद्धं विवरणं प्रजा याचते । तस्य फलरूपं सर्वकारपक्षः श्वेतपत्रमाध्यमेन प्रजायाः प्रश्नानाम् उत्तराणि यच्छति । अनेन प्रजायाः ज्ञानं भवति यत्, “यः भ्रष्टाचारः अभवत्, तेन देशस्य कियन्ती हानिः अभवत् ? के के जनाः भ्रष्टाचारे सल्लग्नाः आसन् ? दोषिभ्यः दण्डं दातुं सर्वकारेण किं कृतम् ?” इति ।

एतत् श्वेतपत्रं न केवलं भ्रष्टाचारसम्बद्धेभ्यः विषयेभ्यः भवति, अपि तु देशस्य स्थितिविषये अपि भवति । यथा – बहुमूल्यता (महँगाई, inflation), सैन्यक्रिया, आपत्कालघोषणा, योजनारम्भः, साम्प्रदायिकहिंसायाः कारणम् इत्यादीनां विषयाणां कृते अपि श्वेतपत्रस्य आवश्यकता भवति ।

श्वेतपत्रस्य स्थितिः[सम्पादयतु]

संसदि संसद्सभ्याः यदि कस्मिंश्चित् विषये श्वेतपत्रस्य याचनां कुर्वन्ति, तर्हि सर्वकारः श्वेतपत्रं प्रस्तुतं करोति । बहुत्र राज्यसर्वकाराः, पत्रकारिताक्षेत्रीयाः, स्वयं सेविकाः संस्थाः अपि सर्वकारात् श्वेतपत्रस्य याचनां कुर्वन्ति । केन्द्रसर्वकारः प्रतिवर्षं यां साङ्ख्यिकीम् उपस्थापयति, सा साङ्ख्यिकी अपि श्वेतपत्रत्वेन परिगण्यते । तस्यां साङ्ख्यिक्यां भारतगणराज्यस्य पूर्वस्थितेः, वर्तमानस्थितेः च विस्तृतम्, अधिकृतं, वास्तविकं विवरणं भवति । तत् विवरणं भविष्यस्य योजनायाः आधारः अपि भवति ।

व्यापारेषु श्वेतपत्रम्[सम्पादयतु]

व्यापारक्षेत्रे अपि श्वेतपत्रस्य परिपाटिः दरीदृश्यते । व्यापरक्षेत्रे आयव्ययाभ्यां, क्रयविक्रयाभ्यां, वर्तमानभविष्ययोः निर्णयेभ्यः च श्वेतपत्रस्य उपयोगः भवति ।

सम्बद्धाः लेखाः[सम्पादयतु]

भारतीयसंविधानम्

लोकतन्त्रम्

संसद्

भारतसर्वकारः

बाह्यसम्पर्कतन्तु[सम्पादयतु]

श्वेतपत्रम्

"https://sa.wikipedia.org/w/index.php?title=श्वेतपत्रम्&oldid=372108" इत्यस्माद् पुनः प्राप्तिः