सामग्री पर जाएँ

सन्तराममहाराजः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(संतराम महाराज इत्यस्मात् पुनर्निर्दिष्टम्)


सन्तराम महाराजः(गुजराती: સન્તરામ મહારોજ, आङ्ग्ल: santram maharaj )  अवधूतकक्षायाः एकः सिद्धः सन्तः आसीत् । जनाः अवधूतं श्रीसन्तरामं दत्तात्रेयावतारं मन्यन्ते । सः भ्रमणशीलः महापुरुषः आसीत् । सः दक्षिणगुर्जरप्रदेशात् नडियाद-नगरं गतः । सः ज्ञानमार्गस्य उपासकः आसीत् । तस्य हृदये भावप्रेमश्रद्धासहितं भक्तिज्ञाने च आस्ताम् । सः अस्माकं गुर्जरप्रदेशस्य ज्ञानिकवेः अखो इव आसीत्

नडियाद-नगरे आगमनं पिपलद-ग्रामे वासः, अन्यानि नामानि

[सम्पादयतु]

वि.सं १८१६ तमे वर्षे दक्षिणगुर्जरप्रदेशात् भ्रममाणः सन्तराममहाराजः यदा नडियाद-नगरं गतः, तदा नडियाद-नगरस्य समीपस्थं पिपलद-ग्रामं प्रसिद्धं नासीत् । अयं ग्रामः भारतस्य अन्यग्रामवत् एकः लघु-ग्रामः आसीत् । यदा सन्तरामः पीपलद-ग्रामं गतः, तदा पूञ्जाभाई पटेल इत्यस्य कृषिस्थले रायण इति वृक्षस्य अधः एकं गर्तम् आसीत् तत्र निवासम् अकरोत् । कालान्तरे तस्य स्थानस्य चमत्काराः अवर्धन्त । तैः ग्राम्यजनाः अपि आश्चर्ययुताः अभूवन् । चमत्कारैः पिपलद-ग्रामः विश्वस्य दृष्ट्याम् आगतम्, प्रसिद्धः च अभवत् । तस्य कारणभूतः सन्तराममहाराजः आसीत् । केचन अयं साधुः गिरनार प्रदेशात् आगतः इति च मन्यन्ते अतः तं गिरनारी इत्यपि कथयन्ति स्म । केचन विदेही, सुखसागर इत्यपि कथयन्ति स्म ।

प्रथमः चमत्कारः

[सम्पादयतु]

एकदा स्नानस्य समयः आसीत् अतः महाराजः रज्जुं, द्रोणीं च मां दत्त्वा गच्छतु इति कृषिकम् अवदत् । किन्तु कृषिकः तद्सर्वं स्वेन सह अनेष्यत् । सायं काले यदा सः प्रत्यागतः, तदा जलम् उन्नतम् आगतम् आसीत् । महाराजः सानन्दं स्वेन तुम्बिपात्रेण स्नानं कुर्वन् आसीत् । महाराजस्य योगशक्तिं दृष्ट्वा कृषिकः तस्य भक्तः अभवत् ।

सन्तरामः दत्तात्रेयावतारः

[सम्पादयतु]

यथा नदीनाम् उत्पत्तिविषये कपोलकल्पिता वार्ता अनुमानरूपा भवति, साधूनां कुलविषयेऽपि तथैव भवति । अतः सन्तरामः कुतः आगतः किञ्च तस्य वास्तविकं नाम इत्येतस्य किमपि उत्तरं नासीत् । किन्तु सः वस्त्रे कौपिनं, स्कन्धे भिक्षापात्रं, हस्ते कमणडलुः, त्रिशूलं च दधाति स्म, अतः तस्य जीवनपद्धतिम् अवलोकयन्तः जनाः तं दत्तात्रेयावतारः अमन्यत ।

सन्तराममहाराजस्य उपदेशः

[सम्पादयतु]

संन्तराममहाराजेन समानता द्वारा धर्मस्य, सत्यस्य च निरुपणं कृतम् । प्रतिदिनं भगवतः प्रार्थनाकरणेन अन्तः करणं शुद्धं भवति इति सः कथयति स्म । स्वभावे परिवर्तनम् आयाति, निराशा दूरीभवति, मनसा शान्तिः प्राप्यते । यदा हृदये हर्षः उद्भवति, तदा जीवनम् आनन्दमयं भवति । सः महापुरुषः सर्वान् जनान् सततं मनः सत्कर्मणि नियोजयेत् इति कथयति स्म । अन्यथा तद् मनः पापम् एव आचरति इति ।

सन्तरामस्य कालनिर्धारणम्

[सम्पादयतु]

एकदा स्वामी सहजानन्दः नडियाद-नगरं गतः । हरिभक्ताः तान् तत्र मन्दिरं स्थापयितुम् अवदन् । सः हसन् अकथयत् इयं सिद्धभूमिः अस्ति । अत्र सिद्धयोगी उपविष्टः अस्ति । तस्य स्थानम् अत्र विकसितं भविष्यति । अनेन ज्ञायते यत्, सन्तरामः सहजानन्दस्य समकालिकः आसीत् इति ।

सन्तरामस्य चमत्कारस्य कथाः

[सम्पादयतु]

१) एकदा ग्रामस्य कृषिकः शकटेन गोधूमं नीत्वा गृहं गच्छन् आसीत् । सन्तरामः तम् अत्र पञ्चनिमिषं तिष्ठतु इति अवदत्, सः अतिष्ठत् च । पञ्चनिमिषान्ते तत्र अतिवृष्टिः अभवत् । कृषिकः अयं सामान्यजनः नास्ति इति अजानात्, तस्य चरणेषु अपतत् च ।

२) वडोदरा-नगरस्य वाङ्कानेर-ग्रामे यदा नद्यां पूरः आगतः, तदा सन्तरामः अपरे तटे गन्तुम् ऐच्छत् । सः पादुकां हस्ते निधाय जलोपरि चलन् नदीम् अतरत् । तत् दृष्ट्वा जनाः आश्चर्यचखिताः अभूवन् ।

३) एकः पटेल जनः तस्य दर्शनार्थं प्रतिदिनं गच्छति स्म । एकदा सः अद्य रात्रिभोजदनम् मम गृहे करोतु इति सन्तरामम् अवदत् । महाराजः स्वल्पं हास्यं कृत्वा अद्य मम उपवासः अस्ति अतः दुग्धम् एव पिबामी इति अवदत् । सः खिन्नः सन् तस्य महिषी दुग्धं न ददाति इति महाराजम् अवदत् । महाराजः तस्मै स्वस्य कमण्डलुः दत्त्वा तस्मिन् दुग्धम् आनेतुम् अवदत् । महिषी दुग्धम् अददात् च । एतद् चमत्कारं दृष्ट्वा नडियाद-नगरस्य अनेकाः जनाः तस्य दर्शनार्थम् आगतवन्तः ।

नडियाद-नगरे आगमनम्

[सम्पादयतु]

ततः परं सः नडियाद-नगरे साम्प्रतं यत्र मन्दिरम् अस्ति तत्र गतवान् । पूंजाभाई पटेल आदयः भक्ताः अपि निवासार्थं तत्र गताः । महाराजः ततः अपि निर्गन्तुम् अविचारयत् किन्तु पूंजाभाई पटेल अवदत् – महाराजः यदि त्वं गमिष्यसि तर्हि भाग्यम् अपि नडियादं त्यक्त्वा गमिष्यति इति । तत् श्रुत्वा महाराजः पूंजाभाई पटेल इत्यस्मात् तेनापि आजीवम् स्वेन सह निवासः कर्तव्यः इति पणः स्वीकृतवान् । पूंजाभाई पटेल इत्ययं प्रसन्नः सन् सेवायाः अवसरम् स्वीकृतवान् । तदनन्तरं सन्तरामः तत्र निवासं कृत्वा कुम्भकार, मजूर आदीन् शूद्रान् सदाचारयुक्तं जीवितुम् अप्रेरयत् ।

लक्ष्मणदासस्य शिष्यत्वेन स्वीकारः

[सम्पादयतु]

एकदा महाराजः विहारं कृत्वा वराड-ग्रामे स्थितः अभवत् । तत्र लक्ष्मणदासम् अमिलत् । सन्तरामः तस्मिन् सत्त्वम् अपश्यत्, अतः तं स्वस्य शिष्यः उद्घोषयत् । कालान्ते स्वस्य योगशक्तेः लक्ष्मणदासस्य शरीरे सङ्क्रमणम् च अकरोत् । लक्ष्मणदासः अपि गुरोः नाम्नः प्रकाशं सर्वत्र प्रासारयत् ।

समाधिः

[सम्पादयतु]

लक्ष्मणदासस्य कौशलं दृष्ट्वा, स्वस्य शरिरस्य कार्यं समाप्तम् इति मत्वा च १८३१ तमस्य वर्षस्य माघपूर्णिमायां जीवितः समाधिस्थः भविष्यति इति उद्घोषयत् । तस्मिन् दिवसे भक्ताः समागताः, सर्वैः भगवतः नामसङ्कीर्तनं कृतम् । तदन्नतरं सन्तरामः जीवितः समाधिस्थः अभवत् । सन्तरामः समाधिस्थः अभवत् ततः परं ब्रह्मरन्ध्रात् तस्य प्राणः निर्गतः । प्राणे निर्गते सति बहिः स्वयमेव दीपज्योतिः उत्पन्ना अभवत् । सन्तरामस्य प्रतिकत्वेन तस्याः ज्योतिषः पूजनं जनैः साम्प्रतम् अपि क्रियते । तस्मिन् दिवसे सहस्राधिकानां जनानाम् उपस्थितौ नडियाद-नगरस्य सन्तराम मन्दिरे आकाशमार्गेण शर्करायाः वर्षा अभवत् । तद् प्रसङ्गम् अनुलक्ष्य माघपूर्णिमायाम् अद्यापि शर्करायाः वर्षा भवति । जनाः वर्षायाः प्रसादं ग्रहीतुम् अद्यापि आगच्छन्ति भक्तिभावपूर्वकं प्रसादं खादन्ति च ।

विविधेषु स्थलेषु सन्तराममन्दिराणि

[सम्पादयतु]

सन्तरामेन स्वस्य स्मृतित्वेन यत्र यत्र पदार्पणं कृतं तत्र तत्र स्मृतिमन्दिराणि सन्ति । यथा -

१) श्रीसन्तरामसमाधि स्थान - नडीआद

२) श्रीसन्तराममन्दिरम् - नडोदरा

३) श्रीसन्तराममन्दिरम् - उमरेठ

४) श्रीसन्तराममन्दिरम् - पादरा

५) श्रीसन्तराममन्दिरम् - करमसद

६) श्रीसन्तराममन्दिरम् - कोयली

७) श्रीसन्तराममन्दिरम् - रढु

८) श्रीसन्तराममन्दिरम् - पच्छेगाम

९) श्रीसन्तराममन्दिरम् - कालासर।

विविधेषु स्थलेषु सन्तराम देहली (डेरी) स्थानानि

[सम्पादयतु]

स्वस्य कार्यं समाप्य स्वयम् उद्घोषिते समये १८३१ तमस्य वर्षस्य माघपूर्णिमायां यत्र महाराजः पादुकां स्थापितवान् तत्र सन्तराम देहली (डेरी) इत्यपि अस्ति । सन्तराममहाराजेन भक्तानां सुखार्थं, दर्शनार्थं च देहलीस्थानानि निर्मितानि सन्ति ।

१) श्रीसन्तरामदेरी - नडियाद २) श्रीसन्तरामदेरी - वाङ्कानेर ३) श्रीसन्तरामदेरी - सोजित्रा ४) श्रीसन्तरामदेरी - नरसण्डा ५) श्रीसन्तरामदेरी - सलुण

सन्तरामस्य शिष्यपरम्परा

[सम्पादयतु]

१)श्रीसन्तराममहाराज

२)श्रीलक्ष्मणदासमहाराज

३)श्रीचतुरदासमहाराज

४)श्रीजयरामदासमहाराज

५)श्रीमुगटरामदासमहाराज

६)श्रीमाणेकदासमहाराज

७)श्रीजानकीदासमहाराज

८)श्रीनारायणदासमहाराज

९)श्रीरामदासमहाराज

मन्दिरस्य नियमाः

[सम्पादयतु]

अस्यां परम्परायां समाधिस्थाने प्रवर्तमानेन महाराजेन जीवनपर्यन्तं मन्दिरात् बहिर्गमनं न कर्तव्यम् । किन्तु शाखामन्दिराणां महाराजाः परिभ्रमणं कर्तुं शक्नुवन्ति । १९९३ तमे वर्षे सामाजिककार्यविषये तत्कालीनप्रधानमन्त्रिणा श्री.पी.वी नरसिंहराव इत्यनेन अस्य मन्दिरस्य परम्परायाम् अष्टमाय प.पू.नारायणदासस्वामी महाराजाय कबीर सन्मानं प्रदत्तम् । तस्मिन् समये नारायणदासेन सन्मानपत्रं स्वयं न स्वीकृतं किन्तु प.पू रामदासमहाराजद्वारा स्वीकृतम् ।

मुख्यः महोत्सवः

[सम्पादयतु]

स्तरामस्य जीवनम् समभावनायुक्तम् औदार्यमयं च आसीत् । अयं महाराजः श्रद्धाभक्तितपोबलैः समाजस्य रक्षणं, सुसंस्कारमयं वातावरणञ्च भवेत् इति विचारैः आशीर्वादात्मकं जीवनपुष्पं प्रयच्छन् नडियाद-नगरे विराजते । अस्य धर्मज्योतिर्धरस्य मुख्यः महोत्सवः प्रत्येकस्मिन् वर्षे माघ-मासस्य पूर्णिमायां शर्करावर्षाद्वारा सम्पन्नः भवति । माघ-मासस्य पूर्णिमायां तत्रत्यः पदारूढः महाराजः वर्षे एकवारम् एव आरार्तिक्यं करोति इति ।

मन्दिरस्य सेवाकार्यम्

[सम्पादयतु]

यदा सम्पूर्णे जगति कुत्रापि अतिवृष्टिः, दुर्भिक्षं, भुकम्पादयः बाधाः भवन्ति, तदा सर्वप्रथमम् अस्य मन्दिरस्य साहाय्यं भवति । श्रीसन्तरामस्य परम्परायां हिन्दु-मुस्लिमजनानां मध्ये किमपि जातिभेदं नास्ति । मौनस्वरूपेण केवलं जनानां, सर्वप्राणिनां च सेवाकार्यम् एव मन्दिरस्य लक्ष्यम् इति । वर्तमाने श्रीसन्तरामस्य पदे प.पू रामदासमहाराजः विराजते ।

"https://sa.wikipedia.org/w/index.php?title=सन्तराममहाराजः&oldid=389120" इत्यस्माद् प्रतिप्राप्तम्