संभेपूस्वसाट्यूप

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सङ्गणकमनुष्ययोः भेदबोधकं पूर्णतया स्वचालितं सार्वजनिकं ट्यूरिङ्ग्-परीक्षणम् (संभेपूस्वसाट्यूप॰) (आङ्ग्ल: Completely Automated Public Turing test to tell Computers and Humans Apart) (CAPTCHA) एक‌ः अभिप्रयोगः (Software) अस्ति । एषः अभिप्रयोगः परीक्षायाः, स्तरस्य च निर्माणं करोति । तयोः परीक्षा-स्तरयोः बोधः यन्त्रं कर्तुं न पारयति । तथा च मनुष्यः एव तयोः परीक्षा-स्तरयोः बोधं कर्तुं शक्नोति । उदा. निम्नचित्रस्य अव्यवस्थितः पाठः केलवं मनुष्ये एव पठितुं शक्नोति, वर्तमानप्रौद्योगिक्यां सङ्गणकयन्त्रं तं पाठं पठितुं न शक्नोति ।

This CAPTCHA of "smwm" obscures its message from computer interpretation by twisting the letters and adding a slight background color gradient.

सरलशब्देषु संभेपूस्वसाट्यूप॰ इत्यस्य विषये वक्तुं शक्यते यत्, एषः अनुप्रयोगः शब्दानां सत्यापनस्य परीक्षणं करोति । एवं कृते सति तेषां शब्दानां पठनं येन कृतं सः मनुष्यः एव इति निश्चयः भवति । कोऽपि सङ्गणकनिर्मितः अनुप्रयोगः अत्र कार्यं न कुर्वन् अस्ति इत्यस्य पुष्टिं भवति ।

"https://sa.wikipedia.org/w/index.php?title=संभेपूस्वसाट्यूप&oldid=473353" इत्यस्माद् प्रतिप्राप्तम्