संस्कृतभाषामहत्त्वम्
संस्कृतभाषायाः वैशिष्ट्यम्
[सम्पादयतु]"संस्कृतं नाम दैवीवाक् अन्वाख्याता महर्षिभिः" इति कवेः दण्डिनः बहुप्रसिद्धा उक्तिः । कदाचित् संस्कृतस्य विकासाय प्रतिरोधः यथा भवेत् तथा एतस्याः प्रसिद्धिः व्याप्ता खलु इति मे संशयः । न केवलं दैवीवाणी, मानुषी अपि वाणी एषा इति प्रत्यभिज्ञानम् आवश्यकम् अस्माकम् । अत एव अस्याः महत्त्वविषये विशेषचिन्तना कार्या जाता । सम् उपसर्गपूर्वक-कृ-धातुतः क्तप्रत्ययं विधाय संस्कृतम् इति निष्पादितम् । दैवीवागेव प्रकृतिप्रत्ययविभागाख्यसंस्काररूपेण संस्कृतम् इति उच्यते ।
इयं सर्वश्रेष्ठा भाषा इति भाषाकोविदाः वदन्ति । सर्वभाषाजननी इति अस्या अन्वर्थसंज्ञा । सर्वाः अपि भाषाः अस्याः जाताः अनया एव पोषिताश्च वर्तन्ते । आदिमकाले लोके सर्वत्र जनविभागे धर्मविषये संस्कृतिविषये च एकत्वम् आसीत् । अत एव प्रत्येकनामकरणेन विना सनातनधर्मः सनातनसंस्कृतिः इत्यादि सनातनश्ब्देन व्यवहृतश्चाभवत् । तस्मिन् काले भाषा अपि एका एव । सा एव सनातनभाषानामकं संस्कृतम् । कदाचित् एतत् श्रुत्वा भवताम् आश्चर्यं स्यात् । कारणम् अधुना इन्दोयूरोप्यन्भाषागोत्रे एका एव खलु एषा इति । तत्र किञ्चित् चिन्तनीयम् । सकलभाषागोत्राणामपि मातृरूपेण एका भाषा आसीत् इति पण्डिताः अङ्गीकुर्वन्ति एव । सा संस्कृतभिन्ना इति ते वदन्ति च । किन्तु तेषां कृते तस्याः भाषायाः एकः अपि शब्दः एतावत्पर्यन्तं न प्राप्तः इति तु रसकरः विषयः । विद्यमानासु सर्वासु भाषासु प्राचीना भाषा संस्कृतम् एव इत्यपि ते अङ्गीकुर्वन्ति । एतत्सर्वं मनसि निधाय विचारं करोति चेत् अवगन्तुं शक्यते यत् ते पण्डिताः पूर्वाग्रहपीडिताः आसन् इति । अतिप्राचीनलिखितग्रन्थः संस्कृतभाषायामेव अस्ति । सिन्धुसंस्कारस्य लिपिं पठित्वा केचन पण्डिताः वदन्ति तत्रत्यः भाषापि संस्कृतभाषा आसीत् इति । एवं चिरपुरातनी चेदपि नित्यनूतना अस्ति इयम्भाषा ।
संस्कृतं सुस्पष्टा भाषा
[सम्पादयतु]संस्कृतस्य घटनाविषये शब्दसम्पतौ च इतरभिन्नं वैशिष्ट्यं वर्तते । समग्रम् आशयमपि गतिभ्रंशं विना प्रकटीकर्तुं योग्या अस्ति एषा । अपि च अस्याः शब्दनिर्माणसामर्थ्यम् अपरिमिता श्रेष्ठा च विद्यते । संस्कृते विद्यमानानां धातूनाम् उपसर्गाणां प्रत्ययानां च बलेन असंख्यकोटिशब्दाः निर्मातुं शक्यन्ते । प्रायः द्विसहस्रं धातवः, द्वाविंशतिः उपसर्गाः, कृत्तद्धितसमासादयः पञ्चवृत्तयः तत्र विद्यमानाः असंख्यप्रत्ययाः च शब्दनिर्माणसामग्र्यः । अस्याः कर्तृकर्मक्रियारूपवाक्यघटना शाब्दबोधप्रक्रिया च अतिविशिष्टा गणकयन्त्रेऽपि (कम्प्यूटर्-यन्त्रेपि) उपयोगयोग्या इति तज्ज्ञाः वदन्ति । प्रयोगसामर्थ्यं, शब्दमाधुर्यं सुत्रीकरण्सौकर्यम् इत्यादौ अनेकस्मिन् विषये संस्कृतभाषा अत्युन्नतस्तरीया भवति ।
संस्कृतं शास्त्रभाषा
[सम्पादयतु]विज्ञानक्षेत्रम् इत्युक्ते अनुनिमिषं विकसनस्वभावकं भवति । अत एव तत्रत्यं नूतनम् आशयं प्रकटयितुं नामकरणं विधातुं च संस्कृतं साहाय्यं करोति । पुर्वस्मिन् काले सकलशास्त्रविषया अपि संस्कृतमाध्यमेन पाठिताः आसन् । स्मरणासौकर्यार्थं श्लोकरूपेण शास्त्रविषयान् पूर्वं प्रतिपादयति स्म । गणितम्, विज्ञानम्, तन्त्रज्ञानम्, वास्तु, ज्योतिषम्, आयुर्वेदः इत्यादयः शास्त्रविषयाः संस्कृतभाषया एव विद्यन्ते । अलङ्कारशास्त्रस्य आध्यात्मिकदार्शनिकशास्त्रस्य च विहाररङ्गः अपि एषा एव आसीत् । कामशास्त्रतः वैमानिकशास्त्रपर्यन्तं चतुष्षष्टिकलानां माध्यमरूपेण इयम् एव भाषा आसीत् । सङ्गीतविद्यादयः किमधिकं चोरविद्या अपि अनया प्रतिपदिताः इति भावः ।
संस्कृतं संस्कृतये
[सम्पादयतु]एकस्याः चिरपुरातनायाः संस्कृतेः अविच्छिन्नप्रवाहे कारणीभूता एषा भाषा । सर्वाः भाषाः स्वस्य स्वस्य संस्कारं प्रसरन्तीषु सत्सु ताभ्यः अपि एकसूत्रीकरणेन समग्रतां ददाति एषा सुरकन्यका । ये एतां भाषां यथायोग्यं पठन्ति ते सर्वे अपि संस्कृतिमन्तः भविष्यन्ति । एकेन आरक्षकाधिकारिमहाशयेन एकदा उक्तमासीत् यत् अपराधिनां गणनामध्ये संस्कृतज्ञानां सङ्ख्या अङ्गुलीपरिमिता एव सन्ति । ते अपि स्वस्य कारणेन एव कारागारं प्रविष्टाः इति न सन्ति इति । एतत् पर्याप्तं भवति अस्याः सांस्कृतिकमहत्त्वं प्रकाशयितुम् इति चिन्तयामि ।
व्यक्तित्वविकासाय संस्कृतम्
[सम्पादयतु]लण्डन्मध्ये सेण्ट् जेयिंस् विद्यालये प्राथमिककक्ष्यातः निर्बन्धविषयत्वेन संस्कृतं पठनीयम् इति श्रुत्वा एकदा कश्चित् कार्यकर्ता विद्यालयाधिकारिणं पृष्टवान् "किमर्थम् अत्र संस्कृतं पाठयति ?" इति । तदा सः उक्तवान् -"मनुष्यमस्तिष्कस्य विकासाय संस्कृतभाषा बहूपयोगिनी इति शास्त्रज्ञानां निर्देशानुसारम् एषः प्रयोगः" इति । तस्य परिणतफलं किम् इति जिज्ञासायां सत्यां सः पुनः उक्तवान् - "अत्यद्भुतमयः अस्ति अस्य परिणामः । अधुना छात्राणां स्मरणशक्तिरपि बहुवर्धिता दृश्यते" इत्यादि । "अभयं वै ब्रह्म", "तत्त्वमसि", "अमृतस्य पुत्राः" इत्यादयः उपनिषत्प्रयोगाः मनश्शक्तिवर्धनाय कियता प्रमाणेन उपकुर्वन्तीति वक्तव्यं नास्ति खलु । संस्कृतगद्यपद्यादीनाम् उच्चारण्द्वारा प्राणायामतः प्राप्यमानं फलमेव प्राप्तुं शक्नुमः । तेन अरोगदृढगात्रता लभ्यते खलु । एतस्याः भाषायाः शब्दकुलीनतास्वामिविवेकानन्दपादैः प्रतिपादिता च । एवं कायेन वाचा मनसा इन्द्रियैः बुदध्या आत्मना च विकारं कृत्वा परिपूर्णव्यक्तित्वप्रदायकं भवति संस्कृतम् ॥
संस्कृतं राष्ट्रस्य् पुनरुद्धरणाय
[सम्पादयतु]राष्ट्रस्य परमोन्नतस्थानस्य प्राप्त्यर्थम् उत्तमं साधनं भवति संस्कृतम् । यदा यदा राष्ट्रस्य पुनरुद्धरणप्रक्रिया आसीत् तदा तदा यस्य कस्यापि संस्कृतज्ञस्य दायः तत्र लीनः स्यात् यथा चन्द्रगुप्तकाले चाणक्यस्य । राष्ट्रं सहजम् इति कारणेन राष्ट्रनिर्माणम् इति प्रयोगः असाधुः भवति । राष्ट्रं स्वसंस्कृतिद्वारा, संस्कृतिः स्वाभाषाद्वारा एव जीवति इत्यतः राष्ट्रोज्जीवनाय संस्कृतोज्जीवनं प्रथमं प्रधानं सोपानम् । पूर्वं भारतं जगद्गुरुः आसीत् । तथा समग्रर्पृथ्वीतः जनाः अत्र आगत्य शिक्षणं प्राप्य स्वचरित्रं निर्मितवन्तः आसन् । तद्यथा मनोः वचने "एतद्देशप्रसूतस्य सकाशादग्रजन्मनः स्वं स्वं चरित्रं शिक्षेरन् प्रूथिव्यां सर्वमानवाः" इति । नलन्दा -तक्षशिलादयाः विश्वविद्यालयाः तेषाम् अध्ययनकेन्द्राणि आसन् यत्र संस्कृतेन एव सर्वविषयान् पाठयन्ति स्म । तदेव जगद्गुरुभारतम् अद्य जगद्मिक्षुकः जातः यतः राष्ट्रापेक्षया राष्त्रियस्य महत्त्वदानात् संस्कृताभिमानाभावात् संस्कृतस्य अवगणनमनोभावात् च । यदि संस्कृतस्य उचितं प्राधान्यं कल्पयति तर्हि संस्कृतेः तद्वारा राष्ट्रस्य परमवैभवप्राप्तिः भवेदेव । एवं भाषाशास्रदृष्टया संस्कारवाहिनीरुपेण वैज्ञानिकसाङ्केतिकतन्त्रज्ञानादि शास्त्र्व्यवहारयोग्यतया व्यक्तित्वविकासमाध्यमत्वेन राष्ट्रपुनर्निर्माणसाधनत्वेन च संस्कृतभाषायाः महत्त्वम् अस्त्येव ।