संहतिः (भौतविज्ञानम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


संहतिः (Mass)[सम्पादयतु]

कस्यचिद् वस्तुनः संहतिः पदार्थस्य तत्परिमाणं भवति येन तद्वस्तु विनिमितं स्यात् । उदाहरणार्थं कस्मिञ्चिद् पुस्तके यावत् कर्गदस्यूलपत्रादिपदार्थाः प्रयुक्ताः तन्मयैव तस्य संहतिः भवति । यदि चेत् किञ्चिद् आगारपलं काष्ठनिर्मितं भवेत् तर्हि यावन्मात्रं काष्ठं तत्र प्रयुक्तं स्यात् तन्मैव आगारपटलस्य संहतिरिति । पुस्तके आघारपतलस्ये वा कुत्रचिदपि नीयमाने तयोः संहत्योः तावत्पर्यन्तं किञ्चिदूनत्वम् न संभवति यावत् पुस्तकाद् कतिचिद् पत्राणि न पृथक् क्रियन्ते आघारपटलाद् वायावत् किञ्चि काष्ठं न छिद्यते ।

संहत्याः मात्रकम्[सम्पादयतु]

आङ्ग्लपद्धत्यां ’ पाउण्डैडू पोइजम् ’ (Pound Avoirdupois ) इति संहत्याः प्रामाणिकं मात्रकं भवति । लन्दननगरे एक्स्चेकरस्य कार्यालये निहितं मात्रकमिदं प्लेटिनमनामकस्य धातुखण्दस्य संहतिरस्ति । तस्य आपवर्त्याणि अपवर्तकाणि च (Multiples and submultiples ) निम्नप्रकारिकाणि सन्ति ।

१६ औन्सानि = १ पाउण्डम्
१८ पाउण्डानि = १ क्वार्टरम्
४ क्वार्टराणि = १ ह्ण्डरवेटम्
२० हण्डरवेटानि = १ टनम्

मीटरपद्धत्यां तु एकः किलोग्रामः (kilogramme) संहत्याः प्रमाणिकं मात्रकं भवति । मात्रकमिदं पेरिस्नगरे विनिहैतस्य प्लेटिनमाधातुखण्डस्य संहितरस्ति । किन्तु, मापतौल्यकर्मणि प्रायशः ग्रम् एव सहत्याः मात्रकमिति मन्यते । अयञ्च प्रामणिकस्य किलोग्रामस्य सहस्रतमांशो भवति । ४ ० शतिके (४० C) तापे १ घनसेन्टीमेटरपरिमितस्य उदकस्य या संहतिर्भवति सापि १ ग्रामतुल्या भवति । एकग्रामस्य अपवर्त्याणि अपवर्त्तकाणि चैतत्प्रकारकाणि भवन्ति --

१० मिलोग्रामाः ( मि० ग्रामः) = १ सेण्टीग्रामः (से० ग्राम)
१० डैसीग्रामाः (दौ० ग्रा० ) = १ ग्रामः
१० ग्रामाः (ग्रा०) = १ डैकाग्रामः
१० डैकाग्रामाः = १ हेक्टोग्रामः (है०ग्रा०)
१० हेक्टोग्रामाः (है० ग्रा०) = १ किलोग्रामः (कि० ग्रा०)
१०० किलोग्रामाः = १ क्विष्टलम् ।

वैज्ञानिके मापतौलकर्मणि आङ्ग्लमात्रकं न प्रयुज्यते । अपितु मीटर्मात्रकं प्रयुज्यते । कारणञ्चास्येदं यत् आङ्ग्लपदध्यां मात्रमेकम् अपरस्मिन् मात्रके परिवर्त्तयितुं क्रियमाणे गुणभागकर्मणि दशमलवस्य प्रयोगः कर्तुं न शक्यते । मीटरपद्ध्त्यां तु दशमलवस्य बिन्दुं दक्षिणे वामे वा पार्श्वेऽपसायैव किमप्येकम् अपरस्मिन् मात्रके परिवत्यति । आङ्ग्लरीत्याः मात्रकाणां मिटरीत्याश्च मात्रकैः सह निम्नप्रकारक सम्बन्धो भवन्ति -

१ ग्रामः = १५. ४३२ ग्रेनाः
१ औन्सम् = २८.३५ ग्रामाः
१ पाउण्डम् = ४५३.६ ग्रामाः

भारसंहत्योरन्तरम्[सम्पादयतु]

(१) किञ्चिद्वस्तु येन पदार्थेन निर्मितं भवति तस्य परिमाणं वस्तुनः संहतिरित्यभिधीयते । पृथिव्याम् यत्र कुत्रापि ध्रुवयोः, भूमध्यरेखोपरि, पर्वते अथवा भूगर्भस्थिते कस्मिंश्चिद् आकरे वा वस्तुनि नीयमाने तस्य संहतिः सदैव एकसदृशी तिष्ठति यावत् स्तद्वस्तुभङ्गो न जायतेऽथवा तस्मिन् कश्चिद् पदार्थे न युज्यते । संहितिर् एका अदिग्रशिरिति । अर्थात् तत्र निश्चितैकादिग् न भवति ।

(२) पृथ्वी स्वकेन्द्रं प्रति येन बलेन किञ्चिद्वस्तु समाकर्षति तद्बलमेव तद्वस्तुनो भार इत्यमिधीयते। भूमध्यरेखोपरि भारः ह्रसति ध्रुवयोरुपरि अधिकायते भूतलापेक्षया पर्वतेषु भूगह्वरेषु च न्यूनो भवति । भूकेन्द्रे प्रत्येकस्य भारः शून्यो भवति किन्तु तस्य संहत्यां किञ्चिदन्तरम् न जायते । भार एका सदिग्राशिरस्ति । अर्थात् तस्य एका निश्चिता दिग् भवति ।

(३) यदा कश्चिल्लघुपदार्थः जले प्लवनं करोति तर्हि तस्य भारः शून्यो भवति । किन्तु तस्य संहत्यां किञ्चिदन्तरं न भवति ।

(४) यदि चेद् कश्चिद् लोहखण्डः कूडलनीतुलायां प्रलम्ब्यते तदनु तस्याधः चम्बकैकः स्थाप्यते तर्हि कुण्डलिनीतुलाया आकर्षणं वर्द्धते । अर्थात् पदार्थस्य भारः वृद्धिं गच्छति तस्य संहत्याञ्च किञ्चिद् परिवर्तनं न जायते ।

एतावत्पर्यन्तं संहरेव भारः इत्यभिहितः । यथा कस्यचिद् पदार्थस्य भारः ५० ग्रामपरिमित इति । किन्तु, वैज्ञानिकदृष्ट्या ईदृशं कथनं त्रुटिपूणं भवति । यतः संहितः भारश्च द्वौ पृथक् राशी स्तः । भार एक प्रकारकं बलं । अतः तस्य मापः बलस्य मात्रकैः कर्तुं श्क्यः नतु संहत्याः मात्रकैः । सहत्यां कोऽपि दिग्विषयको विचारः न भवति । अर्थात् संहितरेका अदिग्राशिः (scalor) इति । किन्तु भारस्य एका निश्चिता दिग् भवति । अर्थात् इयम् एका सदिग्राश्र (vector) इति । अतएव वैज्ञानिक शुद्धतायाः दृष्ट्या अस्माभिः वाच्यं यत् कस्यचित् वस्तुनः संहतिः ५० ग्रामपरिमिता तत्तुतस्य भारः तावत्परिमाणक इति । दृष्ट्या अनया भारमञ्जूषा ( Weight Box) अपि संहितामञ्जूषा इत्यभिधातव्या ।

"https://sa.wikipedia.org/w/index.php?title=संहतिः_(भौतविज्ञानम्)&oldid=370697" इत्यस्माद् पुनः प्राप्तिः