सतीश धवन

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
सतीश धवन
जननम् (१९२०-वाचनिकदोषः : < इत्येतत् अनपेक्षितं चिह्नम् ।-२५)२५ १९२०
श्रीनगरम्, जम्मूकाश्मीरराज्यम्, ब्रिटिश्-भारतम्
मरणम् ३ २००२(२००२-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-०३) (आयुः ८१)
भारतम्
कार्यक्षेत्राणि मेकेनिकल् इञ्जिनीरिङ्ग्, एरोस्पेस् इञ्जिनीरिङ्ग्
संस्थाः भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम्
भारतीयविज्ञानसंस्था
केलिफोर्निया इन्स्टिट्यूट् आफ् टेक्नालजि
नेषनल् एरोस्पेस् लेबोरेटोरीस्

भारतीयविज्ञानपरिषद् भारतीय-स्पेस्-कमीशन् च
मातृसंस्थाः पञ्जाबविश्वविद्यालयः (ब्रिटिश्-भारतम्)
मिन्नेसोट-विश्वविद्यालयः
केलिफोर्निया इन्स्टिट्यूट् आफ् टेक्नालजि
संशोधनमार्गदर्शी ह्यान्स् डब्ल्यू लीप्मन्
विषयेषु प्रसिद्धः भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम्
प्रमुखाः प्रशस्तयः पद्मविभूषण-पुरस्कारः

सतीश धवन (२५ सेप्टेम्बर, १९२० - ३ जनवरी, २००२) एकः भारतीयः अन्तरिक्षतन्त्रज्ञः। सः फ्लुयिड् डैनमिक्स् इत्यस्मिन् बहुसंशोधनं कृतवान्। सः श्रीनगरे जनिमलभत । भारतदेशे अमेरिकादेशे च अध्ययनं कृतवान्। सः प्रकृष्टसंशोधकेषु एकः ये टर्ब्युलेन्स् ( turbulence) बौण्डरिलेयर्स् (boundary layers) इत्येतेषु विषयेषु महत् संशोधनं कृतवान्। एतेषां संशोधनेन भारतीयान्तरिक्षसंशोधनं सफलतां वृद्धिं च प्राप्नोत्। विक्रम साराभाई इत्यस्य अनन्तरं सः इसरो संस्थायाः अध्यक्षः अभवत् १९७२ वर्षे।

अध्ययनम्[सम्पादयतु]

धवनः लाहोरनगरस्थात् (अद्यतन पाकिस्ताने) पञ्जाब विश्वविद्यालयात् स्नातकपदवीं प्राप्तवान्। तत्र सः भौतिकशास्त्रे स्नातकशिक्षां गणितशास्त्रे स्नातकोत्तरशिक्षां च अधीतवान्। पश्चात् सः १९४३ तमे वर्षे अमेर्रिकादेशमगच्छत्। मिनीयापोलिस् इत्यतः मिनेसोटा महाविद्यालयात् सः यान्त्रिकविद्यायां स्नातकपदवीं प्राप्नोत्। १९४८ तमे वर्षे सः अन्तरिक्षयन्त्रविद्यायां स्नातकोत्तरपदवीं प्राप्नोत् केलिफोर्निया इन्स्टिट्युट् आफ् टेक्नोलोजी इत्यतः। अपि च ततः एरोनाटिकल इञ्जिनीयर्स् डिग्री प्राप्नोत्। गणितशास्त्रे अन्तरिक्षयन्त्रशास्त्रे च आचार्यपदवीद्वयम् प्राप्तवान् १९५१ वर्षे। तस्य निर्देष्टा आचार्यः हॅन्स् लीप्मॉन्।

निर्देशकः, ऐ ऐ एस् सी (१९६२ - १९८१) अध्यक्षः, इसरो (१९७२ - १९८४)[सम्पादयतु]

धवनः १९५१ वर्षादारभ्य भारतीयविज्ञानसंस्थायाम् अध्यापनमकरोत्। तत् पश्चात् तत्रैव निर्देशकः अभवत् १९६२ तमे वर्षे। सः अन्तरिक्षायोगस्य इसरो इति संस्थायाः च द्वयोः अध्यक्षः अभवत्। सः भारतशासनस्य अन्तरिक्षविभागस्य सचिवः अपि अभवत्।

यद्यपि सः भारतीयान्तरिक्षायोगस्य अध्यक्षः, तथापि सः सीमाचितिसंशोधने सारभूतानि प्रयत्नानि कृतवान्। तस्य महत्वपूर्णानि योगदानानि प्रस्तुतानि 'बॉन्डरी लेयर् तीयरी' हरमॉन् श्लिक्टिङ्ग् इत्नेन विरचितग्रन्थे। सः भारतस्य प्रथमा सुपर्सॉनिक् वायुसुरङ्गां संस्थापितवान् ऐ ऐ एस् सी इति संस्थायाम्। पृथग्भूतबौण्डरिलेयर्प्रवाहस्य त्रिवैमबौण्डरिलेयर्सः ट्रैसॉनिकप्रवाहस्य च रिलॅमिनरैलेशन् विषये सः मार्गसंशोधनं कृतवान्।

अन्तरिक्षसंशोधनसाहायम्[सम्पादयतु]

धवनः ग्रामायशिक्षायां सुदूरसंवेदने उपग्रहसञ्चारे च संशोधनमकरोत्। तस्य प्रयत्नैः प्रभूताः भारतीय-राष्ट्रीय-उपग्रह-योजना (INSAT), भारतीय-सुदूर-संवेदन-योजना (IRS) ध्रुवीय-उपग्रह-प्रमोचनयानम् (PSLV) च। अनेन अन्तरिक्षानुसन्धानं क्रियमाणेषु देशेषु भारतस्य अपि उच्चतरं स्थानं अभवत्।

सम्मानाः[सम्पादयतु]

दक्षिणभारते चेन्नईनगरात् १०० कि.मि. उत्तरदिशि आन्ध्रप्रदेशराज्ये श्रीहरिकोटानगरे उपग्रह-प्रमोचन-केन्द्रमस्ति। आचार्ये धवने दिवं गये २००२ वर्षे तस्य केन्द्रस्य नाम ‘सतीश-धवन-अन्तरिक्ष-केन्द्रम्’ इति परिवर्तितं तस्य सम्मानार्थम्। ल्युधियानानगरे ‘सतीश-चन्द्र-धवन-राष्ट्रीयमहाविद्यालयः’ इति तस्य नाम्नि महाविद्यालयः अस्ति तस्य सम्मानार्थम्।

वृत्तिजीवनम्[सम्पादयतु]

  • ऐ ऐ एसे सी, बेङ्गलुरु
  • ज्येष्ठः वैज्ञानिकाधिकारी, १९५१
  • प्राध्यापकः विभागाध्यक्षः, एरोनॉटिकल् इञ्जिनीयरिङ् विभागः, १९५५
  • निर्देशकः, १९६२-१९८१[१]
  • कॅलिफोर्निया इन्स्टिट्युट् ऑफ् टेक्नोलॉजी, अमेरिका
  • विसिटिङ्ग् प्रोफेसर्, १९७१-१९७२
  • नॅशनल् एरोस्पेस् लॅबॉरेटोरीस्, बेङ्गलुरु
  • अध्यक्षः, संशोधनसमितिः, १९८४-१९९३
  • इन्डीयन् अकॅडमी ऑफ़ सैयन्सस्
  • अध्यक्षकः, १९७७-१९७९
  • भारतीय-अन्तरिक्ष-अनुसन्धान-संस्था
  • अध्यक्षः, १९७२-१९९५
  • भारतीय-अन्तरिक्ष-योजना
  • अध्यक्षः, १९७२-२००२

प्रशस्तयः[सम्पादयतु]

  • पद्मविभूषणपुरस्कारः, १९८१
  • इन्दिरा-गान्धी-राष्ट्रीय-एकीकरण-पुरस्कारः, १९९९
  • डिस्टिङ्ग्यिष्ड् अलुम्नस् अवार्ड, ऐ ऐ एस् सी
  • डिस्टिङ्ग्यिष्ड् अलुम्नस् अवार्ड, केलिफोर्निया इन्स्टिट्युट् आफ् टेक्नोलोजी, १९६१

परिवारः[सम्पादयतु]

तस्य पुत्री ज्योत्स्ना धवन एका विख्याता आण्विकजीववैज्ञानिका अस्ति।

शोधलेखनानि[सम्पादयतु]

  1. Dhawan S: Direct measurements of skin friction. Tech. Rep No.1121, National Advisory Committee for Aeronautics, Washington DC 1953.
  2. Schlichting H, Gersten K: Boundary Layer Theory (8th Revised & Enlarged Edition). Springer, 1999.
  3. Dhawan S: A glimpse of fluid mechanics research in Bangalore 25 years ago. India: Surveys in fluid mechanics Indian Academy of Sciences (Eds. R Narasimha, S M Deshpande) 1-15, 1982.
  4. Developments in Fluid Mechanics and Space Technology. (Eds. R Narasimha, APJ Abdul Kalam) Indian Academy of Sciences, 1988.
  5. Dhawan S: Bird flight. Indian Academy of Sciences, 1991.
  6. Dhawan S: Aeronautical Research in India. (22nd British Commonwealth Lecture). J. Royal Aero. Soc. 71, 149-184, 1967.
  7. Special Section on Instabilities, transitions and turbulence. (Ed. R Narasimha) Current Science, 79:725-883, 2000

सन्दर्भाः[सम्पादयतु]

  1. "About IISc Heritage". Indian Institute of Science. Retrieved 13 September 2013. 
"https://sa.wikipedia.org/w/index.php?title=सतीश_धवन&oldid=364754" इत्यस्माद् पुनः प्राप्तिः