सत्यजित् राय
सत्यजित राय সত্যজিত রায় | |
---|---|
विंशतितमाब्द्यस्य सर्वोत्तमः चलच्चित्रनिर्माता सत्यजिद्वर्यः | |
जन्म |
कोलकता | २ १९२१
मृत्युः |
२३ १९९२ कोलकता, पश्चिमबङ्गलराज्यम्, भारतम् | (आयुः ७०)
शिक्षणस्य स्थितिः | कोलकाता विश्वविद्यालय, विश्वभारती-विश्वविद्यालयः, Ballygunge Government High School, प्रेसिडेन्सि विश्वविद्यालयः |
वृत्तिः |
चलचित्रनिर्मापकः, चलचित्रनिदेशकः, लेखकः, सङ्गीतनिदेशकः, गीतरचनकारः |
सक्रियतायाः वर्षाणि | १९५--१९९२ |
भार्या(ः) | बिजोया राय (१९९-११९२) |
अपत्यानि | सन्दीप राय |
जालस्थानम् | अधिकृतजालस्थानम् |
सत्यजित् राय ( ( शृणु) /ˈstjədʒɪt rɑːj/) (वङ्ग: সত্যজিত রায়, आङ्ग्ल: Satyajit Ray)-महोदयः भारतीयचलचित्रक्षेत्रस्य बहुप्रतिभान्वितेषु निदेशकेषु अन्यतमः । भारतरत्नप्रशस्तिभाक् एषः सुप्रसिद्धः चलचित्रनिर्माता, पत्रिकोद्यमी, बालकविः, चित्रकलाविच्च । द्विवारम् अन्ताराष्ट्रियाम् 'आस्कर्'-प्रशस्तिं प्राप्तवान् सत्यजिद्वर्यः [१] ।
श्रीसत्यजित् स्वजीवनकाले ३७ चलच्चित्राणां निदेशनम् अकरोत् । तेषु चलच्चित्रेषु बॉलिवुट्-चलच्चित्राणि, वृत्तचित्राणि, लघुचलच्चित्राणि अन्तर्भवन्ति । तस्य प्रप्रथमं चलच्चित्रं पथेर पाञ्चाली (পথের পাঁচালী, पथ का गीत) 'कान'-चलच्चित्रोत्सवे 'सर्वोत्तम मानवीय प्रलेख'-पुरस्कारं प्रापत् । तेन चलच्चित्रेण आहात्य एकादश अन्ताराष्ट्रियपुरस्काराः प्राप्ताः । ततः 'अपराजितो' (অপরাজিত), 'अपुर संसार' (অপুর সংসার, अपु का संसार) इत्येतयोः चलच्चित्रयोः अतिप्रसिद्धिः अभवत् । श्रीसत्यजितः चलच्चित्रनिर्माणसम्बद्धानि अनेकानि कार्याणि स्वयमेव करोति स्म यथा — पटकथालेखनं, अभिनेतुः अन्वेषणं, नैपथ्यसङ्गीतलेखनं, चलच्चित्रणं, कलानिदेशनं, सम्पादनं, प्रचारसामग्र्याः रचना च । चलच्चित्रनिर्माणेन सह अतिरिक्तकार्येषु सः कथालेखकः, प्रकाशकः, चित्रकारः, चलच्चित्रालोचकः अपि आसीत् । श्रीसत्यजित् स्वजीवने अनेकान् पुरस्कारान् प्राप्तवान्, येषु 'अकादमी मानद'-पुरस्कारः, भारतरत्नपुरस्कारः च अन्तर्भवतः ।
जन्म, परिवारसश्च
[सम्पादयतु]१९२१ तमस्य वर्षस्य मई-मास्य द्वितीये (२/०५/१९२१) दिनाङ्के कोलकाता-महानगरे श्रीसत्यजितः जन्म अभवत् । श्रीसत्यजितः पितुः नाम सुकुमारः, मातुश्च नाम सुप्रभा आसीत् । ख्यातकवेः कलाविदः सुकुमारवर्यस्य गृहे समुद्भूतः श्रीसत्यजित् कलाप्रेमी, साहित्यप्रेमी च आसीत् । तस्य पितामहः उपेन्द्रकिशोरवर्यः अपि उत्तमलेखकः, चित्रकारश्च आसीत् । बाल्यादारभ्य गृहे शास्त्रीयसङ्गीतस्य वातावरणं श्रीसत्यजितः व्यक्तित्वनिर्माणे महत्त्वपूर्णं योगदानम् अकरोत् । एवं जन्मना कलाप्रपञ्चे सिद्धहस्तानां सम्पर्कवशात् श्रीसत्यजित् स्वयमपि कलाक्षेत्रस्य उत्तमः तारकः अभवत् ।
श्रीसत्यजितः पूर्वजानां सहस्रवर्षाणाम् इतिहासः उपलब्धः अस्ति [२] । तस्य पितामहः उपेन्द्रकिशोर चौधरी महान् लेखकः, चित्रकारः, दार्शनिकः, प्रकाशकः, खगोलशास्त्री च आसीत् । सः ब्रह्मसमाजस्य नेता अपि आसीत् । उपेन्द्रकिशोरस्य पुत्रः सुकुमार ठाकुर वङ्गभाषायां कविताः लिखति स्म । सः योग्यः चित्रकारः, आलोचकः अपि आसीत्
बाल्यं, शिक्षणञ्च
[सम्पादयतु]यदा श्रीसत्यजित् केवलं त्रिवर्षीयः आसीत्, तदैव तस्य पिता दिवङ्गतः । अतः तस्य परिवारे आर्थितसङ्कटम् आपतितम् । परिवारस्य पोषणं कर्तुं तस्य माता वृत्त्युपार्जनं करोति स्म । श्रीसत्यजितः शिक्षणं कोलकाता-महानगरे स्थिते 'प्रेसिडेन्सी कॉलेज' मध्ये तथा च विश्वभारतीविश्वविद्यालये अभवत् । तेन 'प्रेसिडेन्सी'-महाविद्यालये अर्थशास्त्रस्य अध्ययनं कृतम् । परन्तु तस्य रुचिः तु कलाक्षेत्रे आसीत् । १९४० तमे वर्षे तस्य मातुः आग्रहेण सः रवीन्द्रनाथद्वारा स्थापिते विश्वभारतीविश्वविद्यालये प्रवेशं प्राप्तवान् । श्रीसत्यजिते कोलकाता-महानगरस्य वातावरणं रोचते स्म । सः शान्तिनिकेतनस्य बुद्धिजीविमनुष्यैः अपि अधिकः प्रभावितः नासीत् [३] । मातुः आग्रहवशात् तथा च ठाकुरं प्रति आदरभावत्वात् अन्ततो गत्वा सः विश्वभारतीविश्वविद्यालयं गन्तुं निश्चयम् अकरोत् । शान्तिनिकेतने श्रीसत्यजित् पूर्वीयकलया अतिप्रभावितः अभवत् । एकस्मिन् साक्षात्कारे तेन अङ्गीकृतं यत्, प्रसिद्धः चित्रकारः नन्दलाल बोस[४], विनोद बिहारी मुखर्जि इत्येताभ्यां तेन बहुकिमपि अधीतम् इति । ततः तेन श्रीविनोदस्य जीवनाधारितम् एकं वृत्तचित्रम् अपि निर्मितम् । 'द इनर आई' इति तस्य वृत्तचित्रस्य नाम आसीत् । अजन्ता-एलोरा-एलिफेण्टा-गुहाः दृष्ट्वा सः भारतीयकलायाः प्रशंसकः अभवत् [५] ।
विवाहः
[सम्पादयतु]१९४९ तमे वर्षे श्रीसत्यजितः बहुदीर्घकालपरिचितया बिजोय-नामिकया प्रियतमया सह विवाहः अभवत् । तयोः एकः पुत्रः अभवत् । तस्य नाम सन्दीपः । सोऽपि चलच्चित्रेषु निर्देशकः अभवत् ।
व्यवसायः
[सम्पादयतु]चित्रकला
[सम्पादयतु]शान्तिनिकेतने सः यत् अध्येतुं गतः आसीत्, तस्य अभ्यासकालः पञ्चवर्षात्मकः आसीत् । परन्तु श्रीसत्यजित् १९४३ तमे वर्षे अध्ययनं मध्ये त्यक्त्वान् । ततः सः कोलकाता-महानगरं प्रत्यगच्छत् । तत्र तेन ब्रिटिश-विज्ञापनाभिकरणस्य (डी. जे.) वृत्तिः आरब्धा । तस्य पदस्य नाम 'लघुद्रष्टा' (junior visualize) आसीत् । तस्य मासिकवेतनं केवलम् अशीतिरूप्यकाणि आसीत् । यद्यपि दृष्टिरचना श्रीसत्यजिते बहु रोचते स्म, तथा च तेन सह योग्यव्यवहारः भवति स्म, तथापि संस्थायाः ब्रिटिश-कर्मचारिभिः, भारतीयकर्मचारिभिश्च मतभेदाः तु सर्वदा भवन्ति स्म । यतो हि ब्रिटिश-कर्मिणः अपेक्षया तस्य वतेनम् अधिकम् आसीत् । किञ्च श्रीसत्यजितः मतम् आसीत् यत्, “संस्थायाः अधिकतमाः ग्राहकाः प्रायः मूर्खाः एव सन्ति” इति [६] । १९४३ तमे वर्षे सः डी. के. गुप्ता-द्वारा स्थापिते 'सिग्नेट'-समाचारमुद्रणायलये कार्यं प्रारभत । मुद्रणालयस्य नवीनपुस्तकानां मुखपृष्ठस्य रचनायाः कार्यं गुप्ता श्रीसत्यजिते यच्छति स्म । यतो हि श्रीसत्यजित् स्वतन्त्रविचारैः मुखपृष्ठचित्राणां निर्माणं करोति स्म । श्रीसत्यजित् अनेकेषां पुस्तकानां मुखपृष्ठानि अरचयत् । तेषु 'जिम कार्बेट'-द्वारा लिखितं 'मैन-ईटर्स ऑफ् कुमाऊँ' (Man-eaters of Kumaon, कुमाऊँ के नरभक्षी), जवाहर लाल नेहरु-वर्यस्य 'डिस्कवरी ऑफ् इण्डिया' (Discovery of India, भारत की खोज) अपि अन्तर्भवतः । सः वङ्गभाषायाः पसिद्धोपन्यासस्य 'पथेर पाञ्चाली' (পথের পাঁচালী, पथ का गीत)-पुस्तकस्य बालसंस्करणाय अपि स्वयोगदानम् अयच्छत् । तस्य बालसंस्ककरणस्य नाम 'आम आँटिर भेँपु' (আম আঁটির ভেঁপু, आम की गुठली की सीटी) इति आसीत् । श्रीसत्यजितः सा रचना अतिप्रसिद्धा अभवत् । ततः तेन स्वस्य प्रप्रथमं चलच्चित्रम् अपि तस्य उपन्यासस्य सन्दर्भेण रचितम् । मुखपृष्ठस्य रचनया सह तस्य पुस्तकस्य आन्तरिकचित्राणाम् अपि निर्माणम् अकरोत् श्रीसत्यजित् । तेषु अनेकानि चित्राणि तस्य चलच्चित्रे अपि द्रष्टुं शक्यन्ते [७] ।
श्रीसत्यजित् फॉन्ट-निर्माणम् अपि अकरोत् । तेन निर्मितौ 'फॉन्ट्' 'श्रीसत्यजित् रोमन', 'श्रीसत्यजित् बिजार' इत्येतौ प्रसिद्धौ स्तः । 'श्रीसत्यजित् रोमन' इत्ययं 'फॉन्ट्' १९७० तमे वर्षे अन्ताराष्ट्रियपुरस्कारम् अपि प्रापत् । कोलकाता-महानगरे श्रीसत्यजितः गणना कुशलचित्रकारेषु भवति स्म । श्रीसत्यजित् स्वस्य पुस्तकानां चित्राणि, मुखपृष्ठानि च स्वयमेव निर्माति स्म । स्वस्य चलच्चित्राणां प्रचारसामग्र्याः रचनाम् अपि सः स्वयं करोति स्म ।
चलच्चित्रस्य निदेशनम्
[सम्पादयतु]सः स्वस्य चलच्चित्रस्य व्यवसायस्य आरम्भं व्यावसायिकचित्रकारत्वेन अकरोत् । फांसदेशस्य चलच्चित्रनिर्देशकेन, जो रन्वार इत्यनेन सह सम्पर्कं कृतवान् । ततः लन्दन-महानगरे 'लाद्री दी बिसिक्लेत' (Ladri di biciclette, बाइसिकल चोर)-नामकं चलच्चित्रं दृष्ट्वा तेन चलच्चित्रनिदेशनस्य सङ्कल्पः कृतः ।
१९४७ तमे वर्षे चिदानन्द दासगुप्ता इत्यनेन सह तथा च अन्यजनैः सह मिलित्वा श्रीसत्यजितः कोलकाताचलच्चित्रसभायां कार्यं प्रारभत । तत्र तेन अनेकानि वैदेशिकानि चलच्चित्राणि दृष्टानि । तेन द्वितीयविश्वयुद्धस्य कोलकाता-महानगरस्थैः वैदेशिकसैनिकैः सह मित्रता सेविता । ते श्रीसत्यजिते नगरस्थानां चलच्चित्राणां विवरणं यच्छन्ति स्म । १९४९ तमे वर्षे श्रीसत्यजितः विवाहः बिजोय-नामिकया कन्यया सह अभवत् । तस्मिन्नेव वर्षे फ्रान्स-देशीयः चलच्चित्रनिदेशकः 'जो रन्वार' कोलकाता-महानगरे स्वस्य चलच्चित्रस्य कार्यार्थं गतः आसीत् । श्रीसत्यजितः अभिनयोपेतं स्थानम् अन्वेष्टुं रन्वार इत्यस्य साहाय्यम् अकरोत् । श्रीसत्यजित् 'पथेर पाञ्चाली'-चलच्चित्रस्य स्वविचारान् तस्य सम्मुखम् उपास्थापयत् । श्रीसत्यजितः विचारान् श्रुत्वा रन्वार इत्ययं तं प्रोदसाहयत् [८] (तस्य प्रोत्साहनम् अकरोत् इति) । १९५० तमे वर्षे डी. जे. केमर इत्ययं श्रीसत्यजितं लण्डन-महानगरस्थं मुख्यालयं प्रैषयत् । लन्दन-महानगरे यापिताः त्रिमासाः श्रीसत्यजितः जीवने परिवर्तनम् आनीतवन्तः । सः तेषु त्रिषु मासेषु ९९ चलच्चित्राणि अपश्यत् । तेषु 'वित्तोरियो दे सीका'-द्वारा निर्मितं 'नवयथार्थवादी'-चलच्चित्रं, 'लाद्री दी बिसिक्लेत्ते' (Ladri di biciclette, बाइसिकल चोर) च अन्तर्भवतः । 'लाद्री दी बिसिक्लेत्ते'-चलच्चित्रं श्रीसत्यजितं प्रभावितम् अकरोत् । तत् चलच्चित्रं दृष्ट्वा एव तेन सङ्कल्पः कृतः यत्, "अहं निदेशकः भविष्यामि" इति [९] ।
चलच्चित्रक्षेत्रे प्राप्तया सफलतया श्रीसत्यजितः आर्थिकस्थितौ अधिकं परिवर्तनं नाभवत् । सः स्वपरिवारेण सह एकस्मिन् लघुगृहे भाटकं दत्त्वा एव निवसति स्म [१०] । १९६० तमस्य दशके श्रीसत्यजित् जापान-देशस्य यात्राम् अकरोत् । तत्रत्येन प्रख्यातेन चलच्चित्रनिदेशकेन 'अकीरा कुरोसावा' इत्यनेन सह तस्य सम्मर्कः अभवत् । ततः भारतदेशस्य दार्जीलिङ्ग सदृशेषु स्थलेषु एकान्तवासं कृत्वा सः कथानकं लिखति स्म ।
मृत्युः
[सम्पादयतु]१९८३ तमे वर्षे 'घरे बाइरे'-नामकस्य चलच्चित्रस्य निर्माणे सः व्यस्तः आसीत् । सहसा श्रीसत्यजित् हृदयाघातेन ग्रस्तः अभवत् । अतः तस्य जीवनस्य अन्तिमेषु नववर्षेषु सः अधिकं कार्यं कर्तुं नाशक्नोत् । 'घरे बाइरे'-चलच्चित्रस्य निर्माणं स्वपुत्रस्य साहाय्येन तेन १९८४ तमे वर्षे पूर्णं कृतम् । १९९२ तमे वर्षे हृदयस्य दुर्बलतायाः कारणेन श्रीसत्यजित् अधिकः अस्वस्थ्यः अभवत् । मृत्योः कतिचिद्भ्यः दिनेभ्यः प्रागेव सः 'अकादमी'-पुरस्कारेण सम्मानितः अभवत् । १९९२ तमे वर्षे अप्रैल-मासस्य द्वाविंशतितमे (२२/४/१९९२) दिनाङ्के तस्य मृत्युः अभवत् । तस्य मृत्योः कारणेन आभारतं शोकमयं वातावरणम् आसीत् । कोलकाता-महानगरस्य मार्गेषु तु सहस्रशः जनाः श्रीसत्यजिते श्रद्धाञ्जलिं दातुं प्रागच्छन् [११] ।
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडियाकोषे सत्यजित् राय अनेन सम्बद्धमाध्यमाः सन्ति। |
- http://www.satyajitray.org/
- http://www.imdb.com/name/nm0006249/
- http://timesofindia.indiatimes.com/topic/Satyajit-Ray
- http://satyajitray.ucsc.edu/biography.html Archived २०१४-१२-२८ at the Wayback Machine
- http://satyajitray.ucsc.edu/ Archived २००७-०३-१३ at the Wayback Machine
- http://www.satyajitrayworld.com/ Archived २०१५-०६-२० at the Wayback Machine
उद्धरणम्
[सम्पादयतु]- ↑ "श्रीसत्यजितः, सत्यजित". Encyclopædia Britannica. एंसाइक्लोपीडिया ब्रिटैनिका इंकॉर्पोरेशन. <http://www.britannica.com/eb/article-9062818>.
- ↑ सेटन 1971, पृष्ठम् 36
- ↑ रॉबिनसन २००३, पृष्ठम् ४६
- ↑ सेटन १९७१, पृष्ठम् ७०
- ↑ सेटन १९७१, पृष्ठम् ७१–७२
- ↑ रॉबिनसन २००३, पृष्ठम् ५६–५८
- ↑ रॉबिनसन २००५, पृष्ठम् ३८
- ↑ रॉबिनसन २००५, पृष्ठम् ४२–४४
- ↑ रॉबिनसन २००५, पृष्ठम् ४८
- ↑ रॉबिनसन २००३, पृष्ठम् ५
- ↑ अमिताव घोष (२००६). "Satyajit Ray". डूम ऑनलाइन. Archived from the original on 2005-04-04. आह्रियत 2015-01-28. Unknown parameter
|access=
ignored (help)