सत्य नाडेला

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सत्य नाडेला
Satya Nadella.jpg
जन्म १९ आगस्ट् १९६७ Edit this on Wikidata (आयुः ५५)
हैदराबाद, भारतम्
देशीयता भारतीयः
शिक्षणस्य स्थितिः मणिपाल प्रौद्योगिकी संस्थान, विस्कॉन्सिन–मिलवॉकी विश्वविद्यालय, बूथ स्कूल ऑफ बिजनेस, मंगलौर विश्वविद्यालय, मणिपाल विश्वविद्यालय Edit this on Wikidata
वृत्तिः मैक्रोसाफ्ट्संस्थायाः प्रमुखकार्याधिकारी
धर्मः हिन्दुः
जालस्थानम् http://www.microsoft.com/en-us/news/ceo/index.html Edit this on Wikidata

सत्य नाडेला (तेलुगु: సత్య నాదెళ్ల) विश्वविख्यातायाः मैक्रोसाफ्ट्संस्थायाः प्रमुखकार्याधिकारीरूपेण (CEO) नियुक्तः विद्यते।[१][२] अयं स्टीव् बामरस्य उत्तराधिकारिरूपेण २०१४ तमस्य वर्षस्य ४ दिनाङ्के नियुक्तः अस्ति । इतः पूर्वं सः मैक्रोसाफ्ट्संस्थायाः क्लौड् तथा एण्टेर्प्रैज़्-विभागस्य उपाध्यक्षः आसीत् ।[३]

बाल्यं शिक्षणञ्च[सम्पादयतु]

सत्यः भारतस्य हैदराबाद्नगरे अजायत ।[४][५] अनन्तपुरस्थे तेलुगुकुटुम्बे प्राप्तजन्मा[६][७][८] अयम् ऐ ए एस् अधिकारिणः बि एन् युगन्धरस्य पुत्रः । युगन्धरवर्यः मनमोहनसिङ्गस्य कालावधौ (२००४-२००९) योजनायोगस्य सदस्यः आसीत्[९][१०] । नाडेल्ल हैदराबादे बेगम्पेट्प्रदेशस्थे हैदराबाद्-पब्लिक-विद्यालये विद्याभ्यासम् अकरोत् ।[११] ततः मणिपाल् इन्स्टिट्यूट् आफ् टेक्नालजीमहाविद्यालये (तदा मङ्गलूरुविश्वविद्यान्तर्गतः आसीत्) तान्त्रिकशिक्षणं प्राप्नोत् ।[१२][१३][१४][१५]

अमेरिकादेशं प्रति गमनानन्तरं विस्कान्सिन्-मिल्वाकी-विश्वविद्यालये सङ्गणविज्ञाने एम् एस् पदवीं, शिकागोविश्वविद्यालयात् एम् बि ए पदवीञ्च प्राप्नोत् ।[१६]

”वस्तुनिर्माणे मम मनः नितरां रमते स्म ।[१७] अतः सङ्गणविज्ञानमेव मदीयं क्षेत्रमिति मम स्पष्टता आसीत् ।[१८] किन्तु मणिपालविश्वविद्यालये सः विषयः नासीत् इत्यतः मया एलेक्ट्रानिक्स्-विषयः पठितः यस्मिन् अग्रे मम अभिरुचिः प्रावर्धत” इति वदति नाडेलः ।[१९]

वृत्तिजीवनम्[सम्पादयतु]

नाडेलः आदौ सन्-मैक्रोसिस्टम्स्-संस्थायां तान्त्रिकविभागे कार्यम् अकरोत् ।[२०][२१] ततः १९९२ तमे वर्षे मैक्रोसाफ्ट्-संस्थां प्राविशत् । मैक्रोसाफ्ट्संस्थायां महत्त्वपूर्णेषु प्रकल्पेषु प्रमुखत्वेन कार्यं निरवहत् ।

मैक्रोसाफ्ट[सम्पादयतु]

नाडेलः अन्तर्जालसेवाविभागे संशोधनसंवर्धनस्य ज्येष्ठ-उपाध्यक्षः आसीत् । विक्रयणविभागस्य उपाध्यक्षः आसीत् । ततः सः मैक्रोसाफ्ट्संस्थायाः सर्वर्-टूल्स्-वाणिज्यस्य अध्यक्षः भूत्वा महतः यशसः कारणीभूतः जातः । क्लौड्-अन्तारचना-सेवाकारणतः संस्थायाः लाभप्रमाणं $16.6 बिलियन्-तः (२०११) $20.3 (जून् २०१३) बिलियन्-प्रति अवर्धत ।[२२] क्लौड्-कम्प्यूटिङ्ग्-व्यवस्थापने नाडेलः महत्त्वपूर्णं पात्रम् अवहत् ।[२३]

२०१४ तमस्य वर्षस्य फेब्रवरीमासस्य ४ दिनाङ्के नाडेलः मैक्रोसाफ्ट्संस्थायाः नूतन-प्रमुखकार्याधिकारीरूपेण(CEO) नियुक्तः ।[२४][२५] संस्थायाः इतिहासे तृतीयः प्रमुखकार्याधिकारी जातः ।[२६][२७]

व्यक्तिगतजीवनम्[सम्पादयतु]

१९९२ तमे वर्षे तेन अनुपमा परिणीता । इयं पितुः मित्रस्य के आर् वेणुगोपालस्य पुत्री । एतौ पुत्रेण, पुत्रीभ्याञ्च सह वाशिङ्ग्टन्-राज्यस्य बेलेव्यूनगरे निवसतः । नाडेलः भारतीयकाव्यस्य अमेरिकीयकाव्यस्य वाचकः, क्रिकेट्क्रीडाप्रियश्च वर्तते । स्वीयविद्यालयस्य क्रिकेट्गणस्य सदस्यः अयं, क्रीडातः समूहे कार्यकरणं नायकत्वगुणञ्च अधीतवान् इति वदति ।[२८][२९]

टिप्पणी[सम्पादयतु]

  1. मैक्रोसाफ्ट्संस्थया प्रमुखकार्याधिकारीरूपेण नियुक्तः
  2. नियुक्तिघोषणम्
  3. "सत्य नडेला-अधिकृतविवरणम्". 
  4. "सत्य नाडेल - परिचयः". The Times of India. 1.2.2014. आह्रियत 11 फ़ेब्रुवरि 2014. 
  5. "सत्य नाडेल-परिचयः". The Times of India. आह्रियत 11 फ़ेब्रुवरि 2014. 
  6. "सत्य नाडेल-ईनाडुपत्रिकायां परिचयः". Eenadu-Telugu daily. 5.2.2014. आह्रियत 11 फ़ेब्रुवरि 2014. 
  7. "सत्य नाडेल-यशोगाथा". Successstories. 4.2.2014. आह्रियत 11 फ़ेब्रुवरि 2014. 
  8. "मम परिश्रमशीलः यशस्वी पुत्रः". dnaindia. 5.2.2014. आह्रियत 11 फ़ेब्रुवरि 2014. 
  9. "सत्य नाडेल-परिचयः हिन्दुपत्रिकायाम्". The Hindu. 31.8.2013. आह्रियत 11 फ़ेब्रुवरि 2014. 
  10. "BN Yugandhar profile". NIRD. 
  11. "सत्य नाडेल-परिचयः डेकन्हेराल्ड्पत्रिकायाम्". Deccan Chronicle. 29.7.2013. आह्रियत 11 फ़ेब्रुवरि 2014. 
  12. "सत्य नाडेल-डि एन् एपत्रिकायाम्". dnaindia. 27.8.2013. आह्रियत 11 फ़ेब्रुवरि 2014. 
  13. "सत्य नाडेल-टैम्स् आफ् इण्डियापत्रिकायाम्". The Times of India. 28.8.2013. आह्रियत 11 फ़ेब्रुवरि 2014. 
  14. "सत्य नाडेल-टैम्स् आफ् इण्डिया". The Times of India. 1.2.2014. आह्रियत 11 फ़ेब्रुवरि 2014. 
  15. "सत्य नाडेल-मैक्रोसाफ्ट्वार्तापत्रिकायाम्". Microsoft News center. 4.2.2014. आह्रियत 11 फ़ेब्रुवरि 2014. 
  16. "सत्य नाडेल-अद्य युडब्ल्यूएम्". today @ uwm. 4.2.2014. आह्रियत 11 फ़ेब्रुवरि 2014. 
  17. "सत्य नाडेल-एन्डिटिवि". ndtv gadgets. 4.2.2014. आह्रियत 11 फ़ेब्रुवरि 2014. 
  18. "सत्य नाडेल-टेक्डे". techday. 5.2.2014. आह्रियत 11 फ़ेब्रुवरि 2014. 
  19. "सत्य नाडेल-मैक्रोसाफ्ट्". microsoft. आह्रियत 11 फ़ेब्रुवरि 2014. 
  20. "ऐएएस् अधिकारिणः पुत्रः अद्यत्वे प्रमुखकार्यनिर्वहणाधिकारी". दि टैम्स् आफ् इण्डिया. १-०२-२०१४. आह्रियत 12 फ़ेब्रुवरि 2014. 
  21. "नाडेलस्य विषये ज्ञातव्याः ८ अंशाः". दि टैम्स् आफ् इण्डिया. ३१-१-२०१४. आह्रियत 12 फ़ेब्रुवरि 2014. 
  22. "इण्डो अमेरिकन् सत्य नाडेलः भवेत् प्रमुखकार्यनिर्वाहकाधिकारी". बिहारप्रभा. १-२-२०१४. आह्रियत 12 फ़ेब्रुवरि 2014. 
  23. "सत्य नाडॆलः - ज्ञातव्याः दशांशाः". टेक्लेण्ड्. ४-२-२०१४. आह्रियत 12 फ़ेब्रुवरि 2014. 
  24. "मैक्रोसाफ्ट्संस्थया घोषणम्". दि वाल् स्ट्रीट् जर्नल्. ५-२-२०१४. आह्रियत 12 फ़ेब्रुवरि 2014. 
  25. "मैक्रोसाफ्ट्संस्थया घोषणम्". मैक्रोसाफ्ट्वार्तापत्रम्. ४-२-२०१४. आह्रियत 12 फ़ेब्रुवरि 2014. 
  26. "बिल् गेट्स् उवाच". दि टेलिग्राफ्. १२-२-२०१४. आह्रियत 12 फ़ेब्रुवरि 2014. 
  27. "स्टीव् बाल्मरस्य स्थाने सत्य नाडेलः". बि बि सि वार्ता. ४-२-२०१४. आह्रियत 12 फ़ेब्रुवरि 2014. 
  28. "क्रिकेट्प्रियः". दि टैम्स् आफ् इण्डिया, हैदराबाद्. ५-२-२०१४. आह्रियत 12 फ़ेब्रुवरि 2014. 
  29. "व्यक्तिविवरणम्". पोलिटिको. आह्रियत 12 फ़ेब्रुवरि 2014. 

बाह्यसम्पर्कतन्तवः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सत्य_नाडेला&oldid=356793" इत्यस्माद् प्रतिप्राप्तम्