सदस्यः:अमृतदासः स्वामी/प्रयोगपृष्ठम्/1

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

यं हि न व्यथयन्त्येते () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः तितिक्षावर्णनं करोति । पूर्वस्मिन् श्लोके भगवान् मात्रास्पर्शायाः तितिक्षायाः विषयम् उपस्थाप्य अत्र का सा तितिक्षा इति वर्णयति । सः कथयति यत्, हे पुरुषश्रेष्ठ ! सुखदुःखयोः समयुक्तं धीरं मनुष्यं ते मात्रास्पर्शाः (पदार्थाः) न व्यथयन्ति, सः तु अमरसक्षमः भवति । अर्थात् सः धीरः मनुष्यः तु अमरः भवति इत्यर्थः ।

भावार्थः[सम्पादयतु]

'पुरुषर्षभ' – मनुष्यः महता परिश्रमेण परिस्थितिं परिवर्तयितुं चिन्तयति, प्रयतते च । परन्तु परिस्थितिः तु कदापि न परिवर्तते । युद्धरूपपरिस्थितेः परिवर्तनविचारं त्यक्त्वा अर्जुनः स्वकल्याणमार्गम् अचिनोत् । तस्य कल्याणमार्गस्य चयनेन एव मुष्यस्य श्रेष्ठतायाः मूल्याङ्कनं भवति ।

'समदुःखसुखं धीरम्' – धीरमनुष्यः सुखदुःखयोः समो भवति । अन्तःकरणवृत्त्या एव सुखं, दुःखं च भिन्नं प्रतीयते । सुखदुःखोपभोगस्य कारणं पुरुषः (चेतनः) भवति । प्रकृतौ स्थितित्वाद् सः कारणं भवति [१] । यदा सः स्वरूपे स्थिरः भवति, तदा सुखदुःखोपभोगस्य कारणं न भवति । एवं स्वरूपे स्थिते सति सुखदुःखयोः स्वाभाविकतया सम एव तिष्ठति ।

'यं हि न व्यथयन्त्येते पुरुषम्' – मात्रास्पर्शाः अर्थात् प्रकृतिपदार्थाः धीरमनुष्यं व्यथितं कर्तुं न शक्नुवन्ति । प्राकृतिकपदार्थसंयोगवियोगाभ्यां यद् सुखदुःखमुत्पद्यते, तद् व्यथात्वेन परिगण्यते । परन्तु यस्य दृष्टिः समतायुक्ता अस्ति, तं प्राकृतिकपदार्थानां संयोगवियोगौ सुखिनं, दुःखिनं च कर्तुं न शक्नुतः । समबुद्धित्वाद् अनुकूलपरिस्थितौ सुखज्ञानं तु भवति, परन्तु भोगाभावद् अन्तःकरणसंस्कारः स्थायी न तिष्ठति । तथैव प्रतिकूलस्थितौ अपि दुःखबोधः तु भवति, परन्तु भोगाभावाद् अन्तःकरणसंस्कारः न दृढीभवति । एवं सुखदुःखयोः ज्ञाने सत्यपि धीरः मनुष्यः सुखी, दुःखी वा न भवति ।

'सोऽमृतत्वाय कल्पते' – तादृशः मनुष्यः अमरतायोग्यः भवति । अर्थात् सः अमरः भवति इति । किञ्च तस्यामरता तु स्वतःसिद्धा अस्ति । केवलं पदार्थसंयोगवियोगाभ्यां स्वस्मिन् विकारम् आरोपितवान् आसीत्, स एव तस्य दोषः आसीत् ।

मर्मः[सम्पादयतु]

मनुष्ययोनेः उद्देश्यं सुखदुःखोपभोगः न, अपि तु परमशान्तिः अस्ति । तस्याः परमशान्तेः प्राप्त्योत्तरं किमपि प्रापणीयं नावशिष्यते [२] । यदि वस्तु-व्यक्ति-परिस्थितीत्यादीनाम् आनुकूल्ये उत तासां सम्भावनायां सत्यां मनुष्यस्य अन्तःकरणे अनुकूलवस्तूनि प्रति कामना, लोलुपता वा उद्भवति, तर्हि सः मनुष्यः अनुकूलतायाः सदुपयोगं कर्तुं न पारयति । यतः सः वस्त्वादीनाम् आनुकूल्यस्योपभोगे एव सम्पूर्णं सामर्थं अपव्ययति । तथैव यदि वस्त्वादीनाम् उपभोगे उद्भूतायां प्रतिकूलपरिस्थित्याम् अपि आशङ्का, उद्वेगः वा उत्पद्यते, तर्हि मनुष्यः प्रतिकूलतायाः सदुपयोगं कर्तुं न शक्नोति । यतो हि वस्त्वादीनां प्रातिकूल्यस्योपभोगे एव निबद्धो भूत्वा मनुष्यः दुःखी भवति ।

यदि वस्त्वादिभ्यः आनुकूल्ये प्राप्ते तेषामुपभोगं कुर्वन् सुविधादिषु वृद्धिं कुर्मः, तर्हि तद् अनुकूलतायाः उपभोगः मन्यते । परन्तु निर्वाहबुद्धिः भूत्वा उपलब्धवस्तूनाम् अभावग्रस्तेषु वितरणं अनुकूलपरिस्थितेः सदुपयोगः उच्यते । प्रतिकूलतायाः उपयोगः कथम् इति प्रश्नः भवति । तर्हि उत्तरम् अस्ति यत्, सुखेच्छा एव दुःखकारणम् । यदि मनुष्यः अनुकूलपरिस्थत्याः इच्छां त्यक्त्वा सुखेच्छां त्यजति, तर्हि प्रतिकूलपरिस्थितौ दुःखं नानुभूवति । यथा कश्चन रोगी ओषधित्वेन तिक्तातितिक्तं द्रव्यं स्वीकरोति, तथापि सः दुःखी न भवति । प्रत्युत अनया ओषध्या मे रोगोपशमनं भविष्यति इति विचिन्त्य सः हर्षितो भवति । एवं मनुष्यः पीडाम् अपि हर्षेण सहते । एवमेव सुखेच्छायाः त्यागं कृत्वा दुःखेषु सत्स्वपि प्रसन्नतापूर्वकं जीवनं यापयति चेत्, मनुष्यः प्रतिकूलतायाः उपयोगं कर्तुं प्रभवति ।

यदि मनुष्यः सुखदुःखयोः उपयोगं कुर्वन् भवति, तर्हि भविष्येऽपि सः भोगयोनिषु पतति । यतो हि मनुष्यः सुखदुःखम् उपभुनक्ति, असमसुखदुःखी भवति चेत्, सः कदापि मुक्तिपात्रः न भवति । भगवान् उक्तवान् यत्, सांसारिकपदार्थादयः अनुकूलप्रतिकूलफलदाः, अनित्याः च सन्ति । तेषामुपभोगेन मनुष्यः केवलं स्वभावं मलिनीकरोति । परन्तु यदि मनुष्यः सुखदुःखयोः उपभोगम् अकृत्वा, तयोः सदुपयोगं करोति, तर्हि आनन्दपदं प्राप्स्यति इति [३]

भाष्यार्थः[सम्पादयतु]

सुखदुःखं समत्वेन (सुखदुःखयोः प्राप्त्योः हर्षविषादरहितत्वं समत्वम्) यः स्वीकरोति, तादृशं धीरं बुद्धिमन्तं पुरुषम् उपर्युक्ताः शीतोष्णादयः व्यथितं कर्तुं न शक्नुवन्ति । अर्थात् नित्यात्मदर्शनाद् विचलितं कर्तुं न प्रभवन्तीति । सः नित्यात्मदर्शननिष्ठः, शीतोष्णादिद्वन्दसाहकः पुरुषः मृत्य्वतीतः भवति । अर्थात् मोक्षसमर्थः भवति इति ।

भाष्यार्थः[सम्पादयतु]

अनिवार्यदुःखं सुखवद् मन्यमानं, तं दुःखं मोक्षसाधनं मन्यमानं, फलाभिसन्धिरहितं सन्तं स्ववर्णोचितयुद्धादिकार्यं क्रियमाणं, धैर्यवन्तं पुरुषं युद्धादिकर्मानुष्ठानकाले कोमलकठोरस्पर्शाः व्यथितं कर्तुं न प्रभवन्ति । उक्तः अव्यथितः पुरुष एव अमृतत्वं (मोक्षं) प्राप्तुं शक्नोति । अर्थात् त्वत्सदृशः दुःखासाहकः मोक्षं प्राप्तुं न शक्नोति । आत्मनां नित्यत्वाद् एतद् सर्वं सोढव्यम् इत्येव तव कर्तव्यम् अस्ति इति ।

  1. गीता, अ. १३, श्लो. २०-२१
  2. गीता, अ. ६, श्लो. २२
  3. गीता, अ. २, श्लो. १४