सदस्यः:कविता टिपिरिआ
"चरित्रनिर्माणे संस्कृतभाषा"
प्रस्तावना :- मानव: एक: सामाजिकप्राणी । स: समाजे वसति । समाजं विना स: जीवितुं न शक्नुवति । यत: मानव: एक: सामाजिकप्राणी भवति , अत: स: केचनसामाजिकगुणानाम् अधिकारी अपि भवति । सामाजिकगुणा: यथा - दया, करुणा, स्नेह:, श्रद्धा, सहनशीलता इत्यादय: मिलित्वा मानवस्य चरित्रस्य निर्माणं कुर्वन्ति । व्यक्ते: व्यक्तित्वनिर्माणे "चरित्रम्" एकं महत्वपूर्णम् अंगं वर्त्तते ।
चरित्रम् :- चरित्रशब्दस्य व्यापकार्थ: भवति । चरित्रं मानवस्य गुणानां , नैतिकमूल्यानां व्यवहाराणां समूहम् अस्ति , येन व्यक्ति: परिभाष्यते । चरित्रम् अस्मान् अन्येभ्य: भिन्नं करोति , अस्माकं कर्मणि च प्रभावितं करोति ।
उत्तमचरित्रस्य प्रमुखगुणा: :-
- दया - परस्य भावनाम् अवगत्य साहाय्यं करणं च ।
- सहिष्णुता - भिन्नविचाराणां जनानां कृते सहिष्णुता इत्युक्ते सहनशीलता ।
- विनय: - स्वगुणानां विषये विनयशील: पप्रशंसक:
- परिश्रम: - लक्ष्यं प्राप्त्यार्थं परिश्रमकरणम् ।
- अनुशासनम् - स्वजीवनं व्यवस्थितं कृत्वा नियमानाम् अनुसरणं करणीयम् ।
- सकारात्मकता - जीवनस्य समस्यानां दूरीकरणे सकारात्मकभाव: ।
चरित्रस्य महत्वम् :-
- समाजे आदर: - सद्चरित्रयुक्तस्य व्यक्तिस्य समाजे आदर: भवति ।
- सफलता - सद्चरित्रं सफलताया: आधार: भवति ।
- सुखीजीवनम् - सद्चरित्रयुक्तव्यक्ति: सुखीजीवनं यापयति ।
चरित्रम् एकस्मिन् दिने न निर्मीयते , अपितु कालान्तरेण
निर्मितं भवति ।
चरित्रनिर्माणे संस्कृतभाषाया: भूमिका :-
चरित्रनिर्माणे संस्कृतभाषाया: भूमिका महत्वपूर्णा वर्त्तते । संस्कृतभाषया लिखितग्रन्थेषु चरित्रनिर्माणार्थम् आवश्यकनैतिकमूल्यानां सिद्धांतानां च सूचना प्राप्यते । संस्कृतग्रन्थेषु प्रदत्तानि उपदेशानि पठित्वा मानवा: स्वजीवने तान् उपदेशान् आरोपित्वा उत्तमचरित्राणां निर्माणं कर्तुं शक्नुवन्ति ।
मनुस्मृतिग्रन्थे उक्तमस्ति यत् -
"वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च ।
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः ।।"
अर्थात् - मानवेन चरित्रं प्रयासपूर्वकं रक्षणीयं , परन्तु सः धनं यत्नेन रक्षयति । धनं तु आगच्छति गच्छति च । यदा धनं नष्टं भवति तदा किमपि नष्टं न भवति परन्तु यदा चरित्रं नष्टं भवति तदा सर्वं नष्टं भवति । चरित्रहीनः मानवः मृतः एव । अत: सर्वदा चरित्रस्य रक्षा करणीयम् ।
पुनश्च साहित्यदर्पणग्रन्थे उक्तमस्ति - "रामादिवत् प्रवर्तितव्यं न रावणादिवत् ।" अर्थात् - रामायणस्य नायक-श्रीरामस्य चरित्रसदृशं पुण्यकर्माणि करणीयम् न तु रामायणस्य प्रतिनायक: रावणवत् पापकर्माणि करणीयम् ।
"श्वः कार्यमद्य कुर्वीत पूर्वाह्न चापराह्निकम्।
नहि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम् ।"
अनेन श्लोकेन समयानुवर्तीगुणस्य विकासे प्रेरणा प्राप्यते । श्व: यत् कार्यं करणीयं तत् अद्य एव करणीयम् । कार्यस्य अग्रसारणं न करणीयम् । यत् कार्यम् अपराह्णे करणीयं तत् पूर्वाह्णे करणीयम् । अनेन इदं कार्यं कृतम् अथवा न कृतम् इति मृत्यु: कदापि कस्यापि प्रतीक्षां न करोति ।
सत्यवादीता गुणस्य विकासार्थं श्लोकम् इदं प्रेरयति -
"सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम् । प्रियं च नानृतं ब्रूयात् एष धर्मः सनातनः॥"
सत्यं वक्तव्यम् इति वयं जानीमः। कदाचित् सत्यं दु:खकरं भवति । सत्यं कटु भवति । तदा सत्यं मृदुवचनै: वक्तव्यम् । असत्यं कदापि न वक्तव्यम् । कदाचित् असत्यवचनं सन्तोषं जनयति । किन्तु तत् केवलम् आरम्भे सन्तोषं ददाति । किञ्चित्कालानन्तरं तत् दु:खं ददाति । असत्यं प्रियम् अस्ति चेत् अपि न वक्तव्यम् ।
पुनश्च सज्जनस्य गुणस्य ज्ञानप्रदानार्थम् उक्तमस्ति -
"पिबन्ति नद्यः स्वयमेव नाम्भः स्वयं न खादन्ति फलानि वृक्षाः।
नादन्ति सस्यं खलु वारिवाहाः परोपकाराय सतां विभूतयः ।।"
अर्थात् - नद्यः स्वयमेव स्वस्य जलं न पिबन्ति (अपितु स्वजलेन पिपासितानां पिपासां शमयन्ति) । वृक्षाः अपि स्वस्य फलानि न खादन्ति (अपितु बुभुक्षितेभ्यः यच्छन्ति) तथैव मेघाः अपि वर्षाजलेन उत्पन्नानि सस्यानि स्वयं न खादन्ति (अपितु प्राणिनाम् उदरपूर्तये अर्पयन्ति । एते सर्वे सज्जनाः इव सन्ति) यतो हि सज्जनानां सम्पत्तयः परोपकाराय भवन्ति ।
पुनश्च मानवस्य व्यवहार: कीदृश: भवितव्यं तस्योपरि अपि उक्तमस्ति -
"सर्वदा व्यवहारे स्यात् औदार्यं सत्यता तथा ।
ऋजुता मृदुता चापि कौटिल्यं न कदाचन ॥"
अर्थात् - सर्वदा अस्माकं व्यवहारे सत्यता, उदारता, सरलता, मधुरता च भवेत्। किन्तु कुटिलता कदापि न भवेत्। कुटिलव्यवहारः कदापि न करणीयः । सत्यं वक्तव्यम्, उदारव्यवहारः आवश्यकः, जीवने वचने च सरलता आवश्यकी । वक्रता मास्तु । असत्यं न वक्तव्यम् । सङ्कुचितव्यवहारः मास्तु । वचनेषु मृदुता अपेक्षिता। कठोरता मास्तु ।
"आरम्भगुर्वी क्षविणी क्रमेण लध्वी पुरा वृद्धिमती च पश्चात् ।
दिनस्य पूर्वार्द्धपरार्द्धभिन्ना छायेव मैत्री खलसज्जनानाम् ।।"
अर्थात् - दुर्जनानां मैत्री पूर्वाह्नस्य छाया इव भवति । या आरम्भे सुविस्तृता भवति परन्तु शीघ्रमेव तस्याः क्षयोऽपि भवति । परन्तु सज्जनानां मैत्री अपराह्नस्य छाया इव भवति । या आरम्भे अत्यल्पा अनन्तरं च क्रमेण वर्धमाना भवति ।
एवम्प्रकारेण संस्कृते नीतिउपदेशश्लोकानां भण्डार: भवति । येषां पठनेन सह स्वजीवने आचरेण मानव: उत्तमचरित्रवान् व्यक्ति: भवितुं शक्नोति एवं स: समाजे प्रतिष्ठां लप्स्यते ।
मानवजीवनस्य मूललक्ष्यं भवति - "चतुर्वर्गफलप्राप्ति:" । चतुर्वर्गेषु धर्मार्थकाममोक्षा: समावेशिता: भवन्ति । अयं चतुर्वर्गस्य प्राप्ति: काव्य पठनेन (संस्कृतभाषया रचित) सुलभतया प्राप्यते । संस्कृतभाषा न केवलं मानवस्य उत्तमचरित्रनिर्माणे अपितु चतुर्वर्गस्य प्राप्त्यर्थे अपि सहायिका भवति । अतः सर्वै: संस्कृतभाषायां प्रयत्न: करणीय: ।
।। "जयतु संस्कृतं , जयतु भारतम्" ।।
।। धन्यवाद:🙏।।