सदस्यः:गौरीशङ्करः जोषी/प्रयोगपृष्ठम्/2

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

लाचुङ्ग[सम्पादयतु]

लाचुङ्ग-नगरं भारतस्य सिक्किम-राज्यस्य उत्तरसिक्किम-मण्डले स्थितम् अस्ति । इदं नगरं समुद्रतलात् ९६०० पादोन्नतम् अस्ति । नगरमिदं लाचुङ्ग-लाचेन-नद्योः सङ्गमे स्थितम् अस्ति । ते नद्यौ अग्रे तीस्ता-नद्यां मिलतः । स्थलमिदं विश्वस्य लेखकानां प्रियस्थलम् अस्ति । लाचुङ्ग-नगरे बौद्धमठाः सन्ति । अतः इदं नगरं प्रसिद्धम् अस्ति । तत्र विश्वस्य बहुभ्यः नगरेभ्यः जनाः गच्छन्ति । अस्य नगरस्य सौन्दर्यवैशिष्ट्यात् “जोसेफ डॉटन् हुकर्” इत्याख्येन प्रसिद्धपर्यटकेन लाचुङ्ग-नगरं “द हिमालयन् जर्नल्” इत्यस्मिन् लेखे “सिक्किम-नगरस्य सुन्दरतमं नगरम्” इत्यनेन सम्बोधितम् । लाचुङ्ग-नगरे बहवः जलप्रपाताः, प्राचीननद्यः च सन्ति । अस्य नगरस्य वातावरणं सर्वदा शान्तं मनोहरं च भवति । जनाः अक्टूबर-मासतः मई-मासपर्यन्तं भ्रमणार्थं तत्र गच्छन्ति । लाचुङ्ग-नगरं ३१ क्रमाङ्कस्य, ३१० क्रमाङ्कस्य, ५१० क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमे राष्ट्रियराजमार्गाः लाचुङ्ग-नगरं सिक्किम-राज्यस्य विभिन्ननगरैः सह सञ्योजयन्ति । सिक्किम-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः लाचुङ्ग-नगरं गन्तुं शक्यते । लाचुङ्ग-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः लाचुङ्ग-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । पश्चिमबङ्ग-राज्यस्य सिलिगुडी-नगरस्य समीपे “जलपाईगुडी”-नामकं रेलस्थानकम् अस्ति । लाचुङ्ग-नगरात् इदं रेलस्थानकं १३९ किलोमीटरमिते दूरे स्थितम् अस्ति । जलपाईगुडी-रेलस्थानकं लाचुङ्ग-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकं सिक्किम-राज्यस्य प्रमुखैः क्षेत्रैः सह श्रेष्ठतया सम्बद्धम् अस्ति । अस्मात् रेलस्थानकात् भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । लाचुङ्ग-नगरे विमानस्थानकम् अपि नास्ति । पश्चिमबङ्ग-राज्यस्य बागडोगरा-विमानस्थानकम् अस्य नगरस्य निकटतमं विमानस्थानकम् अस्ति । इदम् राष्ट्रियविमानस्थानकम् अस्ति । बागडोगरा-विमानस्थानकात् मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय, गुवाहाटी-नगराय, चेन्नै-नगराय, देहली-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण लाचुङ्ग-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया लाचुङ्ग-नगरं प्राप्तुं शक्नुवन्ति ।

लाचेन[सम्पादयतु]

लाचेन-पत्तनं भारतस्य सिक्किम-राज्यस्य उत्तरसिक्किम-मण्डले स्थितम् अस्ति । सिक्किम-राज्यस्य सर्वकारेण अस्य पत्तनस्य विकासः अपि कृतः अस्ति । तेन कारणेन इदं पत्तनं पर्यटनकेन्द्रत्वेन लोकप्रियः जातः । अस्य पत्तनस्य प्राकृतिकं सौन्दर्यमपि महत्त्वपूर्णम् अस्ति । अस्मिन् पत्तने विविधाः वन्यजीवाः दृश्यन्ते । नगरमिदं गङ्गटोक-नगरात् १२९ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं समुद्रतलात् २७५० मीटरमिते औन्नत्ये स्थितम् अस्ति । अस्मिन् पत्तने गुरूडोङ्गमार-तडागः विद्यते । अयं तडागः अस्य पत्तनस्य प्रमुखं पर्यटनस्थलं वर्तते । अस्मिन् पत्तने प्रायः १००० जनाः एव निवसन्ति । “थाङ्गू” इत्येतत् स्थलं लाचेन-पत्तनस्य समीपस्थं पर्यटनस्थलं वर्तते । लाचेन-पत्तनस्य वातावरणं शीतलं, शान्तं च भवति । नवम्बर-मासतः जून-मासपर्यन्तम् अस्य पत्तनस्य वातावरणं मनोहरं भवति । अतः जनाः तस्मिन् समये भ्रमणार्थं तत्र गच्छन्ति । लाचेन-पत्तनं ३१० क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गाः लाचेन-पत्तनं सिक्किम-राज्यस्य विभिन्ननगरैः सह सञ्योजयति । सिक्किम-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः लाचेन-पत्तनं गन्तुं शक्यते । लाचेन-पत्तने भाटकयानानि अपि प्रचलन्ति । अतः तैः लाचेन-पत्तनंस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । पश्चिमबङ्ग-राज्यस्य सिलिगुडी-नगरस्य रेलस्थानकम् अस्ति । लाचेन-पत्तनात् इदं रेलस्थानकं १९० किलोमीटरमिते दूरे स्थितम् अस्ति । सिलिगुडी-रेलस्थानकं लाचेन-पत्तनस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकं सिक्किम-राज्यस्य प्रमुखैः क्षेत्रैः सह श्रेष्ठतया सम्बद्धम् अस्ति । अस्मात् रेलस्थानकात् भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । लाचेन-पत्तने विमानस्थानकम् अपि नास्ति । पश्चिमबङ्ग-राज्यस्य बागडोगरा-विमानस्थानकम् अस्य नगरस्य निकटतमं विमानस्थानकम् अस्ति । इदं राष्ट्रियविमानस्थानकम् अस्ति । लाचेन-पत्तनात् इदं विमानस्थानकं १९९ किलोमीटरमिते दूरे स्थितम् अस्ति । बागडोगरा-विमानस्थानकात् मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय, गुवाहाटी-नगराय, चेन्नै-नगराय, देहली-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण लाचेन-पत्तनं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया लाचेन-पत्तनं प्राप्तुं शक्नुवन्ति ।

पेलिङ्ग[सम्पादयतु]

पेलिङ्ग-पेलिङ्ग-नगरं भारतस्य सिक्किम-राज्यस्य पश्चिमसिक्किम-मण्डले स्थितम् अस्ति । स्थलमिदम् पर्वतीयक्षेत्रं विद्यते । समुद्रतलात् इदं नगरं २१५० मीटरमिते औन्नत्ये स्थितम् अस्ति । अस्य नगरस्य संस्कृतिः, इतिहासश्च सिक्किम-राज्ये विख्यातः अस्ति । अतः एव नगरमिदं सिक्किम-राज्यस्य लोकप्रियपर्यटनस्थलेषु अन्यतमम् अस्ति । पुरा इदं स्थलं वनभूमिः आसीत् । तस्मिन् समये तत्र वन्यजीवाः निवसन्ति स्म । समयान्तरे अस्य क्षेत्रस्य विकासः जातः । अस्य नगरस्य उभयतः द्वौ बौद्धमठौ स्तः । एकः "पेमयाङ्ग्स्ते", अपरः "सङ्गाचोलिङ्ग" च । एतौ दवौ मठौ पेलिङ्ग-नगरस्य आकर्षणकेन्द्रे स्तः । अन्यानि अपि बहूनि वीक्षणीयस्थलानि सन्ति । "सिङ्गशोरे-सेतुः", "छाङ्गे-जलप्रपातः", "खेचुपेरी-तडागः" इत्यादीनि अस्य नगरस्य समीपस्थानि पर्यटनस्थलानि सन्ति । अस्मिन् नगरे लिम्बु-समुदायस्य जनाः निवसन्ति । तत्र अन्याः अपि बह्व्यः उपजातयः निवसन्ति । "खामधक", "मुरिङ्गला", "लिङ्गदेन", "पघा" इत्यादयः अन्याः उपजातयः सन्ति । अस्य नगरस्य जनाः कृषिकार्यं कुर्वन्ति । कृषिकार्येण ते स्वस्य आजीविकां चालयन्ति । एला (Cardamom), लवेटिका, गोधूमः, तण्डुलाः इत्यादीनि अस्य नगरस्य प्रमुखाणि सस्यानि सन्ति । प्रतिवर्षं तत्र कञ्चनजङ्गा-उत्सवः आचर्यते । उत्सवेऽस्मिन् बहवः सांस्कृतिककार्यक्रमाः भवन्ति । अस्मिन् उत्सवे पुष्पाणां प्रदर्शनी, व्यञ्जनानि, वस्त्राणि च अपि भवन्ति । आवर्षम् अस्य नगरस्य वातावरणं सुखदं भवति । अतः एव कस्मिँश्चिदपि समये इदं नगरं भ्रमणाय गन्तव्यम् । तथापि प्रायः अगस्त-मासे कञ्चनजङ्घा-उत्सवः आचर्यते । अतः तस्मिन् समये अस्य नगरस्य भ्रमणम् उत्तमम् । पेलिङ्ग-नगरं ३१ क्रमाङ्कस्य, ७१० क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमौ राष्ट्रियराजमार्गौ पेलिङ्ग-नगरं सिक्किम-राज्यस्य विभिन्ननगरैः सह सञ्योजयतः । सिक्किम-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः पेलिङ्ग-नगरं गन्तुं शक्यते । पेलिङ्ग-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः पेलिङ्ग-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । पश्चिमबङ्ग-राज्यस्य सिलिगुडी-नगरस्य समीपे “जलपाईगुडी”-नामकं रेलस्थानकम् अस्ति । पेलिङ्ग-नगरात् इदं रेलस्थानकं १७१ किलोमीटरमिते दूरे स्थितम् अस्ति । जलपाईगुडी-रेलस्थानकं पेलिङ्ग-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकं सिक्किम-राज्यस्य प्रमुखैः क्षेत्रैः सह श्रेष्ठतया सम्बद्धम् अस्ति । जलपाईगुडी-नगरस्य रेलस्थानकात् भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । पेलिङ्ग-नगरे विमानस्थानकम् अपि नास्ति । पश्चिमबङ्ग-राज्यस्य बागडोगरा-विमानस्थानकम् पेलिङ्ग-नगरस्य निकटतमं विमानस्थानकम् अस्ति । इदं राष्ट्रियविमानस्थानकम् अस्ति । पेलिङ्ग-नगरात् बागडोगरा-विमानस्थानकं १४२ किलोमीटरमिते दूरे स्थितम् अस्ति । बागडोगरा-विमानस्थानकात् मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय, गुवाहाटी-नगराय, चेन्नै-नगराय, देहली-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण पेलिङ्ग-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया पेलिङ्ग-नगरं प्राप्तुं शक्नुवन्ति ।

चुङ्गथाङ्ग[सम्पादयतु]

चुङ्गथाङ्ग-नगरं भारतस्य सिक्किम-राज्यस्य उत्तरसिक्किम-मण्डले स्थितम् अस्ति । स्थलमिदं लाचुङ्ग-लाचेन-नद्योः सङ्गमे स्थितम् अस्ति । समुद्रतलात् अस्य नगरस्य औन्नत्यं १७९० मीटरमितम् अस्ति । इदं नगरं सिक्किम-राज्यस्य पवित्रस्थलेषु अन्यतमम् अस्ति । अस्य नगरस्य समीपे विभिन्नप्रकारकाः वनस्पतयः, जीवनजन्तवः च प्राप्यन्ते । अस्य नगरस्य इतिहासः अपि विशिष्टः अस्ति । मन्यते यत् - "अस्मिन् स्थले बौद्धगुरोः पद्मसम्भवस्य प्रभावः अस्ति । पुरा पद्मसम्भव-नामाख्यः अयं बौद्धगुरुः चुङ्गथाङ्ग-नगरम् आगत्य विश्रामं चकार । तदा तस्य पादचिह्नानि तत्र एव चिह्नितानि आसन्" इति । साम्प्रतं अपि तानि पादचिह्नानि तत्र सन्ति । अस्य नगरस्य जनाः तण्डुलानां कृषिः क्रियते । यद्यपि चुङ्गथाङ्ग-नगरस्य वातावरणं तण्डुलस्य कृषये योग्यं नास्ति, तथापि तत्र तण्डुलानां कृषिः भवति इति आश्चर्यम् अस्ति । यदा "गुरुनानकदेवः" चीन-तिब्बत-देशयोः यात्रायै निर्गतवान् आसीत्, तदा सः चुङ्गथाङ्ग-नगरे विश्रान्तिं प्राप्तवान् । "चुङ्गथाङ्ग" इत्ययं शब्दः पञ्चाबी-भाषायाः "चुङ्गा", "स्थान" इति द्वाभ्यां शब्दाभ्यां निर्मितः । पञ्जाबी-भाषायां "चुङ्गास्थान" इत्यर्थः "पवित्रस्थलम्" इति । गुरुनानकदेवेन एव इदं नामकरणं कृतम् । चुङ्गथाङ्ग-नगरं गङ्गटोक-नगरात् ९५ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्य नगरस्य जलवायुः सामान्यः भवति । जून-मासतः सितम्बर-मासपर्यन्तम् अस्मिन् नगरे अतिवृष्टिः भवति । सितम्बर-मासतः मार्च-मासपर्यन्तम् अस्य नगरस्य वातावरणं शान्तं, सुखदं, स्वास्थ्यकरं च भवति । अतः तस्मिन् समये जनाः तत्र गच्छन्ति । चुङ्गथाङ्ग-नगरं ३१ क्रमाङ्कस्य, ३१० क्रमाङ्कस्य, ५१० क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमे राष्ट्रियराजमार्गाः चुङ्गथाङ्ग-नगरं सिक्किम-राज्यस्य विभिन्ननगरैः सह सञ्योजयन्ति । सिक्किम-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः चुङ्गथाङ्ग-नगरं गन्तुं शक्यते । चुङ्गथाङ्ग-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः चुङ्गथाङ्ग-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । पश्चिमबङ्ग-राज्यस्य सिलिगुडी-नगरस्य समीपे “जलपाईगुडी”-नामकं रेलस्थानकम् अस्ति । चुङ्गथाङ्ग-नगरात् इदं रेलस्थानकं २०४ किलोमीटरमिते दूरे स्थितम् अस्ति । जलपाईगुडी-रेलस्थानकं चुङ्गथाङ्ग-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकं सिक्किम-राज्यस्य प्रमुखैः क्षेत्रैः सह श्रेष्ठतया सम्बद्धम् अस्ति । अस्मात् रेलस्थानकात् भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । चुङ्गथाङ्ग-नगरे विमानस्थानकम् अपि नास्ति । पश्चिमबङ्ग-राज्यस्य बागडोगरा-विमानस्थानकम् अस्य नगरस्य निकटतमं विमानस्थानकम् अस्ति । बागडोगरा-विमानस्थानकं राष्ट्रियविमानस्थानकम् अस्ति । चुङ्गथाङ्ग-नगरात् इदं विमानस्थानकं १७५ किलोमीटरमिते दूरे स्थितम् अस्ति । बागडोगरा-विमानस्थानकात् मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय, गुवाहाटी-नगराय, चेन्नै-नगराय, देहली-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण चुङ्गथाङ्ग-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया चुङ्गथाङ्ग-नगरं प्राप्तुं शक्नुवन्ति ।