सदस्यः:जय कृष्ण राय/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
     महाकविकालिदासः
    विना वेदं विना गीतां विना रामायणीं कथाम्।
  विना कविं कालिदासं भारतं भारतं नहि।।

भारतगौरवस्य कविकुलगुरोः कालिदासस्य नाम निखिले साहित्यसंसारे सुपरिचितम् अस्ति। अस्य महाकवेः कीर्तिराशिः देशदेशान्तरे प्रसृता। परन्तु कविकालिदासः कदा कुत्र कं वंशं स्थलविशेषं च समलंकृतवान् इति अस्मिन् विषये विसम्बादः अस्ति। केचित् कविकुलगुरूं काश्मीरवासिनं निगदति, अन्ये वंगवासिनम्, अपरे च उज्जयिनीं नगरीं कवेरस्य जन्मस्थानं कथयन्ति। अस्य महाकवेः विकासकालम् अधिकृत्यापि विदुषां वैमत्यं दृश्यते। तथापि एतत् निश्चितं यत् कालिदासः चन्द्रगुप्तस्य विक्रमादित्यस्य भूपतेः राजसभायां नवरत्नेषु अन्यतम आसीत्। साम्प्रतिकैरनेकैः कविभिः ईशवीय पञ्चमशताब्दीतः सप्तमशताब्दीपर्यन्तं कालिदासस्य समयः निश्चीयते।

          कालिदासः रघुवंशम्, कुमारसम्भवम् चेति द्वे महाकाव्ये, ऋतुसंहारम्, मेघदूतम् चेति द्वे खण्डकाव्ये, अभिज्ञानशाकुन्तलम्, मालविकाग्निमित्रम्, विक्रमोर्वशीयम् चेति त्रीणि नाटकानि विरचितवान। श्रुतबोधम्, नलोदयम्, श्रृंगार-तिलकम्, पुष्पबाणविलासम् इति एतेऽपि ग्रन्थाः कालिदासस्य कृतयः इति मन्यन्ते केचित् मनीषिणः।
       रघुवंशमहाकाव्यं महाकवेः अनुपमा कृतिरस्ति। एकोनविंशतिसर्गात्मके अस्मिन् महाकाव्ये दिलीपादिरभ्य अग्निवर्णपर्यन्तानां इक्षाकुवंशीयानां नृपतीनां वर्णनं प्राप्यते। कुमारसम्भवमहाकाव्ये कार्तिकेयजन्मवर्णनम् उपलभ्यते। अस्मिन् काव्ये सप्तदशसर्गाः वर्तन्ते। ऋतुसंहारनामके खण्डकाव्ये षट् सर्गाः सन्ति। तत्र च क्रमशः एकैकस्य ऋतोः वर्णनं वर्तते। मेघदूतमं भागद्वे विभक्तमस्ति- पूर्वमेघः उत्तरमेघश्च। अस्य कथासारः त्वयमेव यत् कुबेरशापग्रस्तः कश्चित् यक्षः रामगिरिनामधेये पर्वते निवसति स्म। सः विरही यक्षः एकं मेघखण्डमेव दूतरूपेण नियोज्य अलकापुरीस्थितायै स्वकान्तायै प्रेषयामास।
      अभिज्ञानशाकुन्तलनाटकं न केवलं कालिदासीयसाहित्ये , अपि तु विश्वनाट्यसाहित्येऽपि श्रेष्ठं स्थानम् अधिकरोत्। उक्तं च – “काव्येषु नाटकं रम्यं तत्र रम्या शकुन्तला” इति। सप्तांकविशिष्टे नाटकेऽस्मिन् दुष्यन्तशकुन्तलयोः गान्धर्वविवाहमधिकृत्य सर्वाः कथाः उपनिबद्धाः सन्ति। मालविकाग्निमित्रनाटके अग्निमित्रमालविकयोः प्रेमकथा वर्णिता। तथा च विक्रमोर्वशीयनाटके पुरूरवोर्वशयोः कथाः उपनिबद्धा अस्ति।
     एषु समग्रेषु एव काव्येषु तथा नाटकेषु मानारसानां सम्यक् प्रयोगः भवति, येन सुहृदयानां हृदये अनाविल आनन्दो जायते। 
     एवं कालिदासः निरूपमकाव्यसम्पदा अनुपमया स्वप्रतिभया च समग्रे एव संस्कृतवाङ्मये अत्युत्कृष्टं स्थानं लभते। प्रकृतसौन्दर्यवर्णने तु अयं सम्राङेव भवति। अतः एव अस्माभिः निगद्यते – 

“न कालिदासाद् अपरः कवीन्द्ः” इति।।


                             श्री जय कृष्ण राय।
                     शिक्षाशास्त्र प्रथम वर्षीय छात्रः 

</gallery>