सदस्यः:डॉ कान्तिलाल भट्ट/प्रयोगपृष्ठम्/1

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

वीक्षणीयस्थलानि[सम्पादयतु]

पर्यटनदृष्ट्या राजस्थान-राज्यं भारतस्य प्रमुखराज्येषु अन्यतमम् अस्ति । यद्यपि राज्यमिदं राज्ञां प्रदेशः आसीत् । अतः स्थापत्यकलायाः वैविध्यम् अपि अस्मिन् राज्ये दृश्यते । राज्येस्मिन् पर्यटनस्थलानि अपि बहूनि सन्ति । पर्यटनस्थलेषु ऐतिहासिकस्थलानाम् आधिक्यम् अस्ति । अजमेर-नगरस्य ख्वाजा मोइनुद्दीन चिश्ती इत्याख्यस्य समाधिः, जयपुर-नगरस्य सिटी पैलेस, हवा महल, जन्तर मन्तर, माउण्ट आबू, उदयपुर-नगरस्य सिटी पैलेस, एकलिङ्गी, नाथद्वारा, रणथम्भौर इत्यादीनि राजस्थान-राज्यस्य प्रमुखाणि वीक्षणीयस्थलानि सन्ति [१]

बाराँ[सम्पादयतु]

बाराँ-नगरं भारतस्य राजस्थानराज्यस्य बाराँ-मण्डलस्य मुख्यालयः अस्ति । पुरा बाराँ-मण्डलं कोटा-मण्डलस्य भागः आसीत् । ई. स. १९९१ तमस्य वर्षस्य अप्रैल-मासस्य १० दिनाङ्के (१०/०४/१९९१) इदं राजस्थान-राज्यस्य मण्डलत्वेन उद्घोषितम् । चतुर्दशशताब्द्यां, पञ्चदशशताब्द्यां च अस्मिन् नगरे सोलङ्की-राज्ञां शासनम् आसीत् । अस्मिन् क्षेत्रे बहूनि वनानि सन्ति । तेषु वनेषु कालीसिन्ध-नदी प्रवहति । पुराणेषु अपि अस्य नगरस्य महत्त्वं दृश्यते । अस्य नगरस्य समीपे बहूनि पर्यटनस्थलानि सन्ति । तेषु “सीताबरी” इत्येतत् स्थलं धार्मिकं, ऐतिहासिकं च वर्तते । पुराणानुसारं कथ्यते यत् – सीता अत्रैव लवकुशौ जन्म अददात् । अयोध्यात्यागानन्तरं सीता पुत्राभ्याम् सह अस्मिन् स्थले एव निवसति स्म । अस्य स्थलस्य समीपे बहवः कुण्डाः स्थिताः सन्ति । प्रतिवर्षम् अस्मिन् नगरे सीताबरी-उत्सवः आयोज्यते । काकोनी, बिलास्गर, शाहबाद-दुर्गः इत्यादीनि अस्य नगरस्य समीपस्थानि पर्यटनस्थलानि सन्ति । नगरेस्मिन् बहूनि धार्मिकस्थलानि सन्ति । भाण्डदेवरा-मन्दिरं बाराँ-नगरस्य प्रमुखं मन्दिरं विद्यते । ब्राह्मणीदेवी-मन्दिरं, मनिहारमहादेव-मन्दिरम् इत्येते बाराँ-नगरस्य प्रमुखे मन्दिरे स्तः । बाराँ-मण्डलस्य अतरू-उपमण्डले प्राचीनावशेषाः अपि प्राप्यते । तेषु अवशेषेषु नवमशताब्द्याः, त्रयोदशशताब्द्याः प्राचीनानि मन्दिराणि अपि सन्ति । तेषु भाण्डदेवरा-मन्दिरं प्रमुखं वर्तते । मन्दिरमिदं बाराँ-नगरात् ४० किलोमीटरमिते दूरे रामगढ-पर्वते स्थितम् अस्ति । इदं मन्दिरं राजस्थान-राज्यस्य खजुराहो इति कथ्यते । अस्य मन्दिरस्य प्रधानदेवः भगवान् शङ्करः अस्ति । दशमशताब्द्याम् अस्य मन्दिरस्य निर्माणम् अभवत् । तस्मिन् पर्वते एव अन्नपूर्णादेव्याः मन्दिरमपि स्थितम् अस्ति । अस्य नगरस्य जलवायुः सामान्यः, शान्तः, सुखदश्च भवति । अक्टूबर-मासतः फरवरी-मासपर्यन्तं जनाः भ्रमणार्थं तत्र गच्छन्ति । बाराँ-नगरं ७६ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः बाराँ-नगरं राजस्थान-राज्यस्य, भारतस्य च विभिन्ननगरैः सह सञ्योजयति । राजस्थान-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः बाराँ-नगरं गन्तुं शक्यते । बाराँ-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः बाराँ-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकं अस्ति । अस्मात् रेलस्थानकात् भोपाल-नगराय, कोटा-नगराय, जोधपुर-नगराय, जयपुर-नगराय इत्यादिभ्यः भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । बाराँ-नगरे विमानस्थानकं नास्ति । जयपुर-नगरस्य विमानस्थानकं बाराँ-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । बाराँ-नगरात् इदं विमानस्थानकं ३२२ किलोमीटरमिते दूरे स्थितम् अस्ति । इदम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य, विदेशस्य च प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण बाराँ-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया बाराँ-नगरं प्राप्तुं शक्नुवन्ति ।

खिमसर[सम्पादयतु]

खिमसर-ग्रामः भारतस्य राजस्थान-राज्यस्य नागौर-मण्डले स्थितः अस्ति । नगरमिदं थार-मरूभूमेः समीपे स्थितम् अस्ति । अस्य ग्रामस्य मध्यभागे एकः तडागः वर्तते । पुरा ग्रामः अयं स्वतन्त्रराज्यम् आसीत् । तस्मिन् काले ठाकुर-राजवंशजाः अस्य साम्राज्यस्य शासकाः आसन् । षोडशशताब्दीतः अस्य इतिहासः आरभ्यते । ग्रामेऽस्मिन् बहवः युद्धाः अभवन् । अतः युद्धानाम् अवशेषाः अपि ग्रामेऽस्मिन् प्राप्यन्ते । शत्रुभ्यः रक्षणार्थम् अस्य दुर्गस्य निर्माणं कारितम् आसीत् । प्रतिवर्षं अस्मिन् नगरे नागौर-उत्सवः आयोज्यते । अस्मिन् उत्सवे पशूनां क्रीडा भवति । इमम् उत्सवं दृष्टुं भारतस्य विभिन्ननगरेभ्यः जनाः तत्र गच्छन्ति । खिमसर-ग्रामस्य जलवायुः शान्तः, सुखदः च भवति । नवम्बर-मासतः मार्च-मासपर्यन्तम् अस्य ग्रामस्य वातावरणं मनोहरं भवति । अतः जनाः शीतर्तौ अस्य नगरस्य भ्रमणं कर्तुं गच्छन्ति । खिमसर-ग्रामः ८ क्रमाङ्कस्य, ६५ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धः अस्ति । इमौ राष्ट्रियराजमार्गौ खिमसर-ग्रामं राजस्थान-राज्यस्य, भारतस्य च विभिन्ननगरैः सह सञ्योजयतः । राजस्थान-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः खिमसर-ग्रामं गन्तुं शक्यते । खिमसर-ग्रामे भाटकयानानि अपि प्रचलन्ति । अतः तैः खिमसर-ग्रामस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । जोधपुर-नगरस्य रेलस्थानकं खिमसर-ग्रामस्य समीपस्थं रेलस्थानकम् अस्ति । खिमसर-ग्रामात् इदं रेलस्थानकं ९५ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् रेलस्थानकात् अहमदाबाद-नगराय, पुणे-नगराय, बीकानेर-नगराय, भोपाल-नगराय, कोटा-नगराय, जोधपुर-नगराय, जयपुर-नगराय इत्यादिभ्यः भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । खिमसर-ग्रामे विमानस्थानकं नास्ति । जोधपुर-नगरस्य विमानस्थानकं खिमसर-ग्रामस्य समीपस्थं विमानस्थानकम् अस्ति । खिमसर-ग्रामात् इदं विमानस्थानकं ९५ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं राष्ट्रियविमानस्थानकम् अस्ति । जोधपुर-नगरस्य विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण खिमसर-ग्रामं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया खिमसर-ग्रामं प्राप्तुं शक्नुवन्ति ।

चित्तौडगढ[सम्पादयतु]

चित्तौडगढ-नगरं भारतस्य राजस्थान-राज्यस्य चित्तौडगढ-मण्डलस्य मुख्यालयः अस्ति । नगरमिदम् ऐतिहासिकं वर्तते । इदं नगरं ७०० एकडमितः विस्तृतः अस्ति । अस्मिन् नगरे बहूनि मन्दिराणि, दुर्गाः, भवनानि च सन्ति । अत एव इदं नगरं भारते प्रसिद्धम् अस्ति । पुराणेषु अपि चित्तौडगढ-नगरस्य उल्लेखः दृश्यते । भारतस्येतिहासे अपि अस्य नगरस्य इतिहासः महत्त्वपूर्णः अस्ति । अस्मिन् नगरे एकः दुर्गः अस्ति । अस्मै दुर्गाय नगरमिदं विख्यातम् अस्ति । अयं दुर्गः एकस्मिन् पर्वते १८० मीटरमितम् उन्नतम् अस्ति । अस्मिन् दुर्गे बहवः स्मारकाः सन्ति । महाराणा फतेहसिंह इत्याख्येन फतेह-प्रकाश-भवनम् एकम् ऐतिहासिकं स्थलं वर्तते । अस्मिन् भवने भगवतः गणेशस्य प्रतिमा, सुन्दराणि भित्तिचित्राणि च दृश्यन्ते । अन्यानि अपि बहूनि धार्मिकानि स्थलानि सन्ति । सांवरियाजी-मन्दिरं, तुलजाभवानी-मन्दिरं, योगिनीमाता-मन्दिरं च अस्य नगरस्य प्रमुखाणि धार्मिकस्थलानि सन्ति । तत्र बस्सी-वन्यजीवाभयारण्यम् अस्ति । इदम् अभयारण्यं ५० किलोमीटरमितं विस्तृतम् अस्ति । सीतामाता-अभयारण्यं, भैन्स्रोगढ-वन्यजीवाभयारण्यं च अपि तत्र स्थितम् अस्ति । एतेषु अभयारण्येषु विविधाः वनस्पतयः, जीवाः च सन्ति । अतः जनाः तत्र भ्रमणार्थं गच्छन्ति । तत्र पुरातत्त्व सङ्ग्रहालयः अपि विद्यते । अस्मिन् सङ्ग्रहालये मूर्तयः, भित्तिचित्राणि इत्यादीनि वस्तूनि प्राप्यन्ते । तासु मूर्तिषु बह्व्यः मूर्तयः गुप्त-मौर्यराजवंशयोः आसन् । चित्तौडगढ-नगरस्य समीपे बीजापुर-नगरं स्थितम् अस्ति । बीजापुर-नगरे एकः दूर्गः अपि अस्ति । प्रतापगढ-नगरस्य समीपे देवगढ-दुर्गः अपि विद्यते । एते दुर्गौ चित्तौडगढ-नगरस्य समीपस्थानि आकर्षणस्य केन्द्राणि सन्ति । चित्तौडगढ-नगरस्य ९० किलोमीटरमिते दूरे मेनल-नामकः ग्रामः स्थितः अस्ति । अयं ग्रामः “मिनि खजुराहो” इति नाम्ना अपि ज्ञायते स्म । यतः अस्य ग्रामस्य मन्दिराणां वास्तुकला अपि खजुराहो-पर्यटनस्थलम् इव द्श्यते । अस्मिन् स्थले उत्खनने बहूनां बौद्धमन्दिराणाम् अवशेषाः प्राप्ताः । तेषु द्वादशशताब्द्याः मन्दिरं प्रमुखम् अस्ति । “गौमुखकुण्डः” इत्येतत् स्थलं मनोहरं विद्यते । तत्र एकः जलाशयः विद्यते । इदं स्थलं अस्य नगरस्य आकर्षणं वर्तते । अस्य नगरस्य जलवायुः उष्णः भवति । ग्रीष्मर्तौ अस्य नगरस्य तापमानं ४४ डिग्रीसेल्सियसमात्रात्मकं भवति । शीतर्तौ च अस्य नगरस्य वातावरणं २८ डिग्रीसेल्सियसमात्रात्मकं च भवति । अक्टूबर-मासतः फरवरी-मासपर्यन्तम् अस्य नगरस्य वातावरणं शान्तं, सुखदं च भवति । अतः जनाः तस्मिन् काले चित्तौडगढ-नगरस्य भ्रमणं कर्तुं गच्छन्ति । चित्तौडगढ-नगरं ८ क्रमाङ्कस्य, १२ क्रमाङ्कस्य, ७९ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमे राष्ट्रियराजमार्गे चित्तौडगढ-नगरं राजस्थान-राज्यस्य, भारतस्य च विभिन्ननगरैः सह सञ्योजयन्ति । राजस्थान-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः चित्तौडगढ-नगरं गन्तुं शक्यते । चित्तौडगढ-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः चित्तौडगढ-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं राजस्थान-राज्यस्य प्रमुखेषु अन्यतमम् अस्ति । अस्मात् रेलस्थानकात् अहमदाबाद-नगराय, पुणे-नगराय, बीकानेर-नगराय, भोपाल-नगराय, कोटा-नगराय, जोधपुर-नगराय, जयपुर-नगराय इत्यादिभ्यः भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । चित्तौडगढ-नगरे विमानस्थानकं नास्ति । डबोक-नगरस्य विमानस्थानकं चित्तौडगढ-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । चित्तौडगढ-नगरात् इदं विमानस्थानकं ९० किलोमीटरमिते दूरे स्थितम् अस्ति । इदं राष्ट्रियविमानस्थानकम् अस्ति । डबोक-नगरस्य विमानस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण चित्तौडगढ-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया चित्तौडगढ-नगरं प्राप्तुं शक्नुवन्ति ।

भरतपुर[सम्पादयतु]

भरतपुर-नगरं भारतस्य राजस्थानराज्यस्य भरतपुर-मण्डस्य केन्द्रम् अस्ति । नगरमिदं राजस्थान-राज्यस्य पूर्वद्वारं कथ्यते । नगरमिदं प्राचीनं वर्तते । ई. स. १७३३ तमे वर्षे अस्य नगरस्य निर्माणं सूरजमल-राज्ञा कारितम् । भगवतः रामस्य भातुः भरतस्य नाम्ना एव अस्य नगरस्य नामकरणं जातम् आसीत् । भरतपुर-नगरे भगवतः रामस्य भ्रातुः लक्ष्मणस्य अपि पारिवारिकभगवत्स्वरूपेण पूजनं क्रियते । अस्य नगरस्य नाम “लोहगढ” अपि अस्ति । भरतपुर-नगरे एकम् उद्यानं स्थितम् अस्ति । अस्मिन् उद्याने विभिन्नप्रकारकाः विहगाः दृश्यन्ते । उद्याने प्रायः ३७५ प्रकारकाः विहगाः सन्ति । शीतर्तौ अस्य उद्यानस्य भ्रमणं कर्त्तव्यम् । तस्मिन् काले प्रवासिनः पक्षिणः अपि दृश्यन्ते । अस्य नगरस्य वास्तुकलायां मुगल-ब्रिटीश-स्थापत्यकलानां प्रभावः दृश्यते । लोहगढ-दुर्गः राजस्थान-राज्यस्य प्रमुखेषु दुर्गेषु अन्यतमः अस्ति । अस्मिन् नगरे बहूनि पर्यटनस्थलानि सन्ति । डीग-दुर्गः, भरतपुर-भवनम्, गोपाल-भवनम्, सर्वकारीय-सङ्ग्रहालयः इत्यादीनि अस्य नगरस्य प्रमुखाणि वीक्षणीयस्थलानि सन्ति । बांकेबिहारी-मन्दिरं, गङ्गा-मन्दिरं, लक्ष्मण-मन्दिरम् इत्यादीनि भरतपुर-नगरस्य समीपस्थानि धार्मिकस्थलानि सन्ति । भरतपुर-नगरं थार-मरुभूमेः समीपे स्थिते सति अस्य नगरस्य जलवायुः अत्युष्णः भवति । वर्षर्तौ शीतर्तौ वा अस्य नगरस्य भ्रमणं कर्त्तव्यम् । जनाः सितम्बर-मासतः फरवरी-मासपर्यन्तं तत्र गच्छन्ति । भरतपुर-नगरं ११ क्रमाङ्कस्य, १२ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमौ राष्ट्रियराजमार्गौ भरतपुर-नगरं राजस्थान-राज्यस्य, भारतस्य च विभिन्ननगरैः सह सञ्योजयतः । राजस्थान-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः भरतपुर-नगरं गन्तुं शक्यते । भरतपुर-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः भरतपुर-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं राजस्थान-राज्यस्य प्रमुखेषु अन्यतमम् अस्ति । अस्मात् रेलस्थानकात् अहमदाबाद-नगराय, पुणे-नगराय, बीकानेर-नगराय, भोपाल-नगराय, कोटा-नगराय, जोधपुर-नगराय, जयपुर-नगराय इत्यादिभ्यः भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । भरतपुर-नगरे विमानस्थानकं नास्ति । देहली-महानगरस्य विमानस्थानकं भरतपुर-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । भरतपुर-नगरात् इदं विमानस्थानकं २०९ किलोमीटरमिते दूरे स्थितम् अस्ति । इदम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य, विदेशस्य च प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण भरतपुर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया भरतपुर-नगरं प्राप्तुं शक्नुवन्ति ।

रणथम्भौर[सम्पादयतु]

रणथम्भौर-नगरं भारतस्य राजस्थान-राज्यस्य सवाईमाधोपुर-मण्डले स्थिम् अस्ति । इदं नगरं सवाईमाधोपुर-नगरात् १२ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मिन् स्थले लघुपर्वतद्वयं स्थितम् अस्ति । रन, थम्बोर च । एतयोः लघुपर्वतयोः नाम्ना एव अस्य नगरस्य नाम रणथम्भौर इत्यभवत् । तत्र रणथम्भौरराष्ट्रियोद्यानम् अस्ति । इदम् उद्यानं सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । ई.स. १९८० तमे वर्षे सर्वकारेण इदं राष्ट्रियोद्यानत्वेन उद्घोषितम् । अस्मिन् उद्याने बहवः वनचराः दृश्यन्ते । रणथम्भौर-नगरे तडागाः अपि सन्ति । पद्म-तडागः, सुरवाल-तडागः, मलिक-तडागः इत्यादयः अस्य नगरस्य प्रमुखाः तडागाः सन्ति । रणथम्भौर-नगरे एकः दुर्गः विद्यते । अयं दुर्गः अस्य नगरस्य प्रमुखाकर्षणमस्ति । रणथम्भौर-दुर्गस्य प्राङ्गणे मन्दिरत्रयम् अस्ति । तानि गणेशशिवरामाणां मन्दिराणि सन्ति । सर्वकारेण भारतीयपुरातत्त्वसर्वेक्षणविभागाय रणथम्भौर-दुर्गस्य संरक्षणस्य दायित्वं प्रदत्तम् अस्ति । अस्य नगरस्य प्राकृतिकसौन्दर्यमपि अद्भूतमस्ति । रणथम्भौर-नगरस्य जलवायुः सुखदः भवति । अक्टूबर-मासतः अप्रैल-मासपर्यन्तम् अस्य नगरस्य भ्रमणं कर्त्तव्यम् ।

रणथम्भौर-नगरं १ क्रमाङ्कस्य, २९ क्रमाङ्कस्य च राजकीयराजमार्गेण सह सम्बद्धम् अस्ति । इमौ राजमार्गौ रणथम्भौर-नगरं राजस्थान-राज्यस्य विभिन्ननगरैः सह सञ्योजयतः । राजस्थान-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः रणथम्भौर-नगरं गन्तुं शक्यते । रणथम्भौर-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः रणथम्भौर-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । सवाईमाधोपुर-नगरस्य रेलस्थानकं रणथम्भौर-नगरस्य समीपस्थं रेलस्थानकमस्ति । इदं रेलस्थानकं राजस्थान-राज्यस्य प्रमुखेषु अन्यतमम् अस्ति । रणथम्भौर-नगरात् इदं रेलस्थानकं १० किलोमीटरमिते दूरे स्थितमस्ति । अस्मात् रेलस्थानकात् अहमदाबाद-नगराय, पुणे-नगराय, बीकानेर-नगराय, भोपाल-नगराय, कोटा-नगराय, जोधपुर-नगराय, जयपुर-नगराय इत्यादिभ्यः भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । रणथम्भौर-नगरे विमानस्थानकं नास्ति । जयपुर-नगरस्य विमानस्थानकम् अस्य नगरस्य समीपस्थं वर्तते । रणथम्भौर-नगरात् इदं विमानस्थानकं १६४ किलोमीटरमिते दूरे स्थितम् अस्ति । इदम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य, विदेशस्य च प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण रणथम्भौर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया रणथम्भौर-नगरं प्राप्तुं शक्नुवन्ति ।

  1. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १२६