सदस्यः:डॉ कान्तिलाल भट्ट/प्रयोगपृष्ठम्/2

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

चक्रवर्ती राजगोपालाचारी इत्याख्यः भारतस्य भारतरत्नपुरस्कारभाक्षु सर्वप्रथमः आसीत् । सः श्रेष्ठः अधिवक्ता, लेखकः, राजनीतिज्ञः च आसीत् । चक्रवर्ती राजगोपालाचारी “राजाजी” इति नाम्ना अपि राजनीतिक्षेत्रे प्रसिद्धः आसीत् ।

जन्म, परिवारश्च[सम्पादयतु]

“चक्रवर्ती राजगोपालाचारी” इत्याख्यस्य जन्म ई. स. १८७८ तमवर्षस्य दिसम्बर-मासस्य १० दिनाङ्के (१० दिसम्बर १८७८) तमिळनाडू-राज्यस्य सेलम-मण्डलस्य धोरापल्ली-ग्रामे अभवत् । अस्य पितुः नाम “नलिन चक्रवर्ती” इति आसीत् । चक्रवर्ती राजगोपालाचारी सेलम-नगरस्य न्यायालयस्य न्यायाधीशः आसीत् [१]

शिक्षणम्[सम्पादयतु]

राजगोपालाचारिणः प्रारम्भिकशिक्षणं स्वस्य ग्रामे एव आरब्धम् आसीत् । अनन्तरं बेङ्गळूरु-नगरस्य सेण्ट्रल्-महाविद्यालये माध्यमिक-उच्चतरमाध्यमिकशिक्षणं प्राप्तम् । सः प्रथमश्रेण्याम् उत्तीर्णः जातः । अनन्तरं चेन्नै-नगरस्य प्रेसीडेन्सी-महाविद्यालये कला-विषये, विधिशास्त्रे च स्नातकपदवीं प्राप्तवान् । सः शिक्षणे कुशाग्रः आसीत् ।

विवाहः[सम्पादयतु]

ई. स. १८९७ तमे वर्षे राजगोपालाचारिणः विवाहः “अलामेलु मङ्गम्मा” इत्याख्या सह अभवत् । दम्पत्योः द्वे पुत्री, त्रयः पुत्राः च आसन् । ई. स. १९१६ तमे वर्षे तस्याः पत्न्याः मृत्युः अभवत् । अनन्तरं पञ्चानां सन्ततीनां पालनस्य दायित्त्वं राजगोपालाचारिणि आगतम् । ई. स. १९५२ तमवर्षे, १९५७ तमवर्षे च राजगोपालाचारिणः पुत्रः “नरसिंहन” कृष्णगिरि-लोकसभायाः निर्वाचने चितः ।

वृत्तिः[सम्पादयतु]

अधिवक्तुः पदवीं प्राप्य तेन सेलम-नगरे अधिवक्तृत्वेन कार्यम् आरब्धम् । तस्य प्रतिभा, योग्यता च प्रशंसनीया आसीत् । अतः प्रमुखाधिवक्तृषु अपि तस्य गणना क्रियते स्म । अधिवक्तुः वृत्तिकाले सः विवेकानन्दस्य विचारैः प्रेरणां प्राप्य समाजसेवायै अपि कार्याणि कृतनि । समाजाय कृतानि कार्याणि दृष्ट्वा सर्वकारेण तस्मै नगरपालिकायाः अध्यक्षत्वेन दायित्वं प्रदत्तम् । अध्यक्षपदे सति तेन सामाजिककुप्रथानाम् अपि विरोधः कृतः । अपि च नगरे जायमानां समस्यानां निवारणम् अपि कृतम् । तेन सेलम-नगरे सर्वकारीय-वित्तकोषस्य अपि स्थापना कारिता आसीत् ।

महात्मना सह मेलनम्[सम्पादयतु]

ई. स. १९१५ तमवर्षे “महात्मा गान्धी” दक्षिण-अफ्रिका-देशात् प्रत्यागतः । भारतं प्राप्य सः स्वतन्त्रतान्दोलने संलग्नः अभवत् । राजगोपालाचारी अपि देशस्य स्थितिः जानाति स्म । ई. स. १९१९ तमे वर्षे महात्मना “रॉलेट् एक्ट्” इत्यस्याः धारायाः विरोधे सत्याग्रहान्दोलनम् आरब्धम् । तस्मिन् आन्दोलने राजगोपालाचारी-महात्मनोः मेलनम् अभवत् । राजगोपालचारी महात्मनः विचारैः अत्यन्तः प्रभावितः जातः । प्रथमे मेलने एव महात्मा राजगोपालचारिणः व्यक्तित्वं ज्ञातवान् आसीत् । अनन्तरं महात्मना चेन्नै-नगरे सत्याग्रह-आन्दोलनस्य नेतृत्वं कर्तुं राजगोपालचारी प्रेरितः । राजगोपालचारिणा चेन्नै-नगरे सत्याग्रह-आन्दोलनम् आरब्धम् । अस्मिन् आन्दोलने सः कारागारम् अपि गतवान् । कारागारात् प्रत्यागते सति तेन अधिवक्तुः वृत्तिः, सर्वसुखानि च त्यक्तानि । सः पूर्णतया देशस्य स्वतन्त्रतायै कार्यम् आरब्धवान् । ई. स. १९२१ तमे वर्षे महात्मना लवण-सत्याग्रहः आरब्धः । तस्मिन् वर्षे सः कॉङ्ग्रेस्-पक्षस्य सचिवत्वेन अपि चितः । लवण-सत्याग्रहान्दोलने तेन समुद्रतटे लवणनिर्माणं कृतम् । समुद्रतटे लवणनिर्माणं निषिद्धम् आसीत् । यतः ब्रिटिशसर्वकारेण एव अयं नियमः निर्मितः आसीत् । अस्य नियमस्य उल्लङ्घनार्थं महात्मना आन्दोलनमिदं कृतम् । अस्मिन् आन्दोलने अपि महात्मा पुनः कारगारं प्रेषितः । तावत्पर्यन्तं राजगोपालाचारी देशस्य राजनीतिक्षेत्रे, कॉङ्ग्रेस-पक्षे च उच्चपदं प्राप्तवान् आसीत् । अनन्तरं महात्मा अपि केषुचित् कार्येषु राजगोपालाचारिणः परामर्शं स्वीकरोति स्म । महात्मा कथयति स्म यत् – “सः एव मम श्रेष्ठः अनुयायी अस्ति” इति । महात्मना सह राजगोपालाचारिणः निकटस्थः सम्बन्धः आसीत् । यदा महात्मा कारागारे भवति स्म, तदा महात्मना सम्पादितं “यङ्ग इण्डिया” नामकं पत्रं राजगोपालाचारी एव सम्पादयति स्म । महात्मा राजगोपालाचारिणम् एव राजनीतिक्षेत्रे स्वस्य उत्तराधिकारी मन्यते स्म । यदा महात्मनः पुत्रस्य विवाहः राजगोपालाचारिणः पुत्र्या लक्ष्म्या सह अभवत्, तदा द्वयोः सम्बन्धः अत्यधिकः प्रगाढः अभवत् [२]

असहयोगान्दोलने राजगोपालाचारी[सम्पादयतु]

ई. स. १९३१ तमवर्षे असहयोगान्दोलनस्य प्रारम्भः अभवत् । राजगोपालाचारिणा अपि अस्मिन् आन्दोलने उत्साहपूर्वकं भागम् अवहत् । आन्दोलनेऽस्मिन् सः कारागारम् अपि गतवान् । केषुश्चित् राजनैतिकबिन्दुषु सः कॉङ्ग्रेस-पक्षस्य नेतॄणाम् अपि विरोधं करोति स्म ।यतः सः स्वस्य सिद्धान्तानुसारम् एव कार्याणि करोति स्म । स्वसिद्धान्तम् अनुलक्ष्य एव सः सन्धिं करोति स्म । प्रायः येषु कार्येषु नेतारः तस्य विरोधं कुर्वन्ति स्म । समयान्तरे ते नेतारः राजगोपालाचारिणः दृष्ट्या समर्थनं कुर्वन्ति स्म । राजनीतिक्षेत्रे तस्य कौशल्यम् अपि उत्कृष्टतमम् आसीत् । ई. स. १९३२ तमवर्षे महात्मा-भीमरावयोः मध्ये शूद्रजातये मतभेदाः समुद्भूताः आसन् । तदा महात्मा अनशनं कृतवान् । तस्मिन् समये राजगोपालाचारिणा द्वयोः सन्धिः कारिता [३]

राजनैतिकजीवनम्[सम्पादयतु]

द्वितीयविश्वयुद्धे राजगोपालाचारी कॉङ्ग्रेस-पक्षस्य विरोधम् अकरोत् । महात्मा उक्तवान् यत् – “अस्मिन् विश्वयुद्धे ब्रिटिशसर्वकाराय नैतिकं समर्थनं दातव्यम्” इति । किन्तु राजगोपालाचारिणा उक्तं यत् – “यदि ब्रिटिश-सर्वकारः स्वातन्त्र्यं दास्यति तर्हि सर्वसाहाय्यं दातव्यम्” इति । अनेन कारणेन राजगोपालाचारिणा कॉङ्ग्रेस-पक्षस्य सदस्यता अपि त्यक्ता । ई. स. १९४२ तमवर्षे “भारत छोडो” इति आन्दोलनम् आरब्धम् । तस्मिन् आन्दोलने अपि सः स्वसिद्धान्तानुसारं देशसेवायै रतः आसीत् । ई. स. १९४२ तमवर्षे इलाहाबाद-नगरस्य कॉङ्ग्रेस-अधिवेशने तेन देशस्य विभाजनविषये समर्थनम् अपि प्रदत्तम् आसीत् । यद्यपि जनैः, कॉङ्ग्रेस-पक्षस्य नेतृभिः च तस्य विरोधः कृतः, तथापि तेन न किमपि चिन्तितम् । अन्ततो गत्वा ई. स. १९४७ तमे वर्षे भारतस्य विभाजनम् अभवत् । अन्ततो गत्वा कॉङ्ग्रस-पक्षस्य नेतारः अपि राजगोपालाचारिणे समर्थनम् अयच्छन् ।

मुख्यमन्त्रित्वेन राजगोपालाचारी[सम्पादयतु]

ई. स. १९३७ तमस्य वर्षस्य चेन्नै-प्रातस्य निर्वाचने राजगोपालाचारिणः नेतृत्वे कॉङ्ग्रेस=पक्षेण विजयः प्राप्तः । ई. स. १९३७ तमवर्षस्य जुलाई-मासस्य १४ दिनाङ्के (१४ जुलाई १९३७) सः मुख्यमन्त्रिपदं प्राप्तवान् [४]। किन्तु ब्रिटिश-कॉङ्ग्रेस-सर्वकारयोः मध्ये मतभेदाः समुद्भूताः । तेन कारणेन कॉङ्ग्रेस-पक्षस्य सर्वकारः पतितः । अतः ई. स. १९३९ तमवर्षस्य अक्टूबर-मासस्य २९ तमे दिनाङ्के (२९ अक्टूबर १९३९) राजगोपालचारिणा अपि मुख्यमन्त्रिपदं त्यक्तम् । तदनन्तरं द्वितीयविश्वयुद्धम् आरब्धम् आसीत् ।

राज्यपालत्वेन राजगोपालाचारी[सम्पादयतु]

ई. स. १९४६ यदा भारतस्य सर्वकारः निर्मितः, तदा केन्द्रसर्वकारेन तस्मै उद्योगमन्त्रिपदं प्रदत्तम् । ई. स. १९४७ तमवर्षे पूर्णस्वातन्त्र्यप्राप्ते सति बङ्गाल-प्रान्तस्य प्रथमः राज्यपालत्वेन सः नियुक्तः जातः । तत्पश्चात् एकवर्षानन्तरं सः स्वतन्त्रभारतस्य “गर्वनर जनरल” इति महत्त्वपूर्णं पदं प्राप्तवान् । ई. स. १९५० तमवर्षे सः पुनः केन्द्रियमन्त्रिमण्डले स्थानं प्रापत् । तस्मिन् वर्षे “सरदार वल्लभभाई पटेल” इत्याख्यस्य मृत्युः अभवत् । अतः राजगोपालाचारिना केन्द्रियगृहमन्त्रिपदं प्राप्तम् । ई. स. १९५२ तमवर्षे सामान्यनिर्वाचने सः लोकसभायाः सदस्यतां प्रापत् । अनन्तरं चेन्नै-प्रान्तस्य मुख्यमन्त्री अभवत् । समयान्तरे तेन कॉङ्ग्रेस-पक्षस्य नीतीनां विरोधे मुख्यमन्त्रिपदं, कॉङ्ग्रेस-पक्षस्य सदस्यतां च त्यक्ता । तेन “स्वतन्त्रपक्षः” स्थापितः [५]

सम्माननानि[सम्पादयतु]

ई. स. १९५४ तमे वर्षे राजगोपालाचारी भारतरत्नपुरस्कारेण सम्मानितः । भारतरत्नेन सम्मानितेषु सः प्रथमः आसीत् । सः “भारतीयराजनीतेः चाणक्यः” इति अपि कथ्यते स्म । सः श्रेष्ठः लेखकः आसीत् । तस्य लेखने बुद्धिचातुर्यं, गहनता च आसीत् । सः तमिळ-भाषायाः, आङ्ग्ल-भाषायाः च श्रेष्ठलेखकः अपि आसीत् । गीयायां, उपनिषत्सु चापि तेन टीकाः लिखिताः । तेन “चक्रवर्ती थरोमगम” इति नामकं पुस्तकं रचितम् आसीत् । सः बह्व्यः कथाः लिखितवान् । तेन सः “साहित्य अकादमी” इत्यनया संस्थया पुरस्कृतः [६]। तेन लिखिताः सर्वाः कथाः उच्चस्तरीयाः भवन्ति स्म । सः स्वराज्य-नामकं पत्रं अपि प्रकाशयति स्म । तस्मिन् पत्रे तस्य लेखाः सम्पादयन्ति स्म ।

मृत्युः[सम्पादयतु]

ई, स. १९७२ तमवर्षस्य नवम्बर-मासे राजगोपालाचारिणः स्वास्थ्यं असमीचीनम् अभवत् । तस्मिन्नेव वर्षे दिसम्बर-मासस्य १७ दिनाङ्के राजगोपालाचारी उपचारार्थं सर्वकारीयचिकित्सालयं नीतः । राजगोपालाचारी विजलीयनेन (Dehydration) मूत्रसङ्क्रमणेन (Urinary infection) च पीडितः आसीत् । ई. स. १९७२ तमवर्षस्य दिसम्बर-मासस्य २५ तमे (२५ दिसम्बर १९७२) [७] दिनाङ्के सायंकाले ५:४४ वादने “चक्रवर्ती राजगोपालाचारी” इत्याख्यस्य मृत्युः अभवत् । तस्मिन् वर्षे सः चतुर्नवतिवर्षदेशीयः (९४) आसीत् ।

  1. हमारे भारत रत्न विजेता, डॉ. एम्. जे . बन्धिया, प्रो. हितेष डी. वैष्णव. पृ. सं. ९
  2. हमारे भारत रत्न विजेता, डॉ. एम्. जे . बन्धिया, प्रो. हितेष डी. वैष्णव. पृ. सं. १२
  3. हमारे भारत रत्न विजेता, डॉ. एम्. जे . बन्धिया, प्रो. हितेष डी. वैष्णव. पृ. सं. ११-१२
  4. हमारे भारत रत्न विजेता, डॉ. एम्. जे . बन्धिया, प्रो. हितेष डी. वैष्णव. पृ. सं. १२
  5. हमारे भारत रत्न विजेता, डॉ. एम्. जे . बन्धिया, प्रो. हितेष डी. वैष्णव. पृ. सं. १२
  6. हमारे भारत रत्न विजेता, डॉ. एम्. जे . बन्धिया, प्रो. हितेष डी. वैष्णव. पृ. सं. १३-१४
  7. हमारे भारत रत्न विजेता, डॉ. एम्. जे . बन्धिया, प्रो. हितेष डी. वैष्णव. पृ. सं. १४