सदस्यः:डॉ नरेन्द्रः ला. पण्ड्या/प्रयोगपृष्ठम्/2
राजीवगान्धिः भारतस्य षष्ठः प्रधानमन्त्री आसीत् । ई. स. १९८४ तमे वर्षे “इन्दिरा गान्धी” इत्याख्यायाः मृत्योः अनन्तरं “राजीव गान्धी” इत्याख्यः बहुमतैः प्रधानमन्त्रिपदं प्राप्तम् ।
जन्म, परिवारश्च
[सम्पादयतु]“राजीव गान्धी” इत्याख्यस्य जन्म ई. स. १९४४ तमस्य वर्षस्य अगस्त-मासस्य २० तमे दिनाङ्के ब्रिटिशकालस्य भारतस्य महाराष्ट्र-राज्यस्य मुम्बई-नगरे अभवत् [१]। तस्य पितुः नाम “फिरोज गान्धी”, मातुः नाम च इन्दिरा गान्धी च आसीत् । राजीवस्य परिवारस्य जनाः राजनैतिकक्षेत्रे एव संलग्नाः सन्ति । ई. स. १९४६ तमे वर्षे “सञ्जय गान्धी” इत्याख्यस्य जन्म अभवत् । राजीवः सञ्जयः च इत्येतौ द्वौ भ्रातरौ आसन् । ई. स. १९६० तमे वर्षे “फिरोज गान्धी” इत्याख्यस्य मृत्युः अभवत् । तस्मिन् समये राजीवः १६ वर्षीयः आसीत् । अनन्तरं परिवारस्य भारः राजीवोपरि आगतः । सः बाल्यकालादेव साहसी आसीत् । अतः तेन मातुः, भ्रातुः, मातामहस्य च परिपालनं कृतम् आसीत् ।
बाल्यं, शिक्षणञ्च
[सम्पादयतु]राजीवस्य बाल्यं प्रायः देहली-नगरे एव व्यतीतम् । “जवाहरलाल नेहरू” भारतस्य स्वतन्त्रतायाः पूर्वमेव देहली-नगरे निवसति स्म । स्वतन्त्रतायाः प्राग् सः प्रधानमन्त्री तु आसीत् । किन्तु स्वतन्त्रतायाः अनन्तरं तेन प्रधानमन्त्रिपदस्य पूर्णदायित्त्वं स्वीकृतम् । “जवाहरलाल नेहरू” तस्मिन् समये देहली-नगरस्य त्रिमूर्ति-भवने निवसति स्म । त्रिमूर्तिभवनं देहली-नगरस्य प्रसिद्धभवनम् आसीत् । इन्दिरा पितरं परिपालनाय त्रिमूर्ति-भवने एव निवसति स्म । तया सह तस्य पुत्रौ अपि निवसतः स्म । राजीवस्य पालनम् अपि इन्दिरया एव कृतम् । यतः “फिरोज गान्धी” लखनऊ-नगरे वृत्तिं करोति स्म । यदा कदा फिरोज देहली-नगरं गच्छति स्म । भारतस्य स्वातन्त्र्यानन्तरं फिरोज किञ्चित्कालं यावत् त्रिमूर्तिभवने एव निवासं कृतवान् । “कमला नेहरू” इत्याख्यायाः मृत्योः अनन्तरम् इन्दिरया एव पितुः, गृहस्य च परिपालनं कृतम् आसीत् । अतः “जवाहरलाल नेहरू” इत्याख्यः अपि इन्दिरायाम् आश्रितः आसीत् । अतः राजीवस्य बाल्यम् अपि सुखेन व्यातीतम् । राजीवस्य शिक्षणस्य आरम्भः “शिव निकेतन” इति नामके विद्यालये जातः । तस्य विद्यालयस्य सञ्चालिका काचन विदेशीया आसीत् । तस्य विद्यालयस्य शिक्षणम्, अनुशासनं च श्लाघनीयम् आसीत् । राजीवः अनुशासनप्रियः आसीत् । अतः विद्यालयेषु अपि तस्य अनुशासनप्रियतायाः प्रभावः शिक्षकेषु भवति स्म । क्रीडासु अपि नियमपालने कठोरः आसीत् । एकादशवर्षीये सति देहरादून-नगरस्य प्रसिद्धे दून-विद्यालये राजीवः प्रवेशं प्राप्तवान् । सञ्जयः अपि राजीवेन सह एव निवसति स्म । द्वौ भ्रातरौ एकस्मिन् छात्रालये एव निवसतः स्म । तस्याम् अवस्थायां सञ्जयः चञ्चलः आसीत् । अतः अन्यान् छात्रान् उत्सर्जति स्म । समयान्तरे उच्चशिक्षणाय राजीवः विदेशं गतवान् । तत्र इम्पीरियल-महाविद्यालये राजीवस्य प्रवेशः जातः । एकवर्षानन्तरं सः ट्रिनिटी-महाविद्यालयं प्राविशत् । तत्र तेन यान्त्रिकाभियन्तृत्वेन (Mechanical Engineer) पदवी प्राप्ता । यद्यपि राजीवस्य बाल्यकालादेव यान्त्रिककार्येषु अभिरुचिः आसीत् । अतः बाल्यावस्थायाम् सः क्रीडनकान् स्वयमेव समीकरोति स्म । युवावस्थायां सत्याम् अपि सः कारयानस्य सिद्धतां स्वयमेव कर्तुं शक्नोति स्म । कारयानस्य सर्वेषाम् अवयवानाम् अपि तस्य ज्ञानम् आसीत् । सः तीव्रगत्या कारयानं चालयति स्म । प्रधानमन्त्रिपदं प्राप्तिपर्यन्तम् अपि सः तीव्रगत्या कारयानं चालयति स्म । विदेशे शिक्षणस्य मूल्यम् अधिकं भवति । अतः सः मात्रे भाररूपेण भवितुं नेच्छति स्म । अतः सः कस्यांश्चिदपि कार्यशालायां कार्यं कृत्वा धनार्जनं करोति स्म । तत्कालीनाः छात्राः तथैव धनार्जनं कुर्वन्ति स्म । तस्य मातामहः “जवाहरलाल नेहरू” इत्याख्यः अपारपैतृकसम्पत्तिं प्राप्तवान् आसीत् । तथापि राजीवः स्वावलम्बनकारणात् गृहात् धनं न स्वीकरोति स्म । यन्त्रशालासु, कार्यशालासु च कार्यं कुर्वन् कुर्वन् तेन यान्त्रिकाभियन्तृत्वस्य व्यावहारिकं ज्ञानं प्राप्तम् ।
विवाहः
[सम्पादयतु]“राजीव गान्धी” इत्याख्यस्य विवाहः इटली-देशस्य “एण्टोनिया मैनो” इत्याख्यया सह ई. स. १९६८ तमस्य वर्षस्य फरवरी-मासस्य २५ तमे दिनाङ्के अभवत् । “एण्डोनिया मैनो” इत्याख्यया विवाहानन्तरं स्वस्य नाम परिवर्त्य “सोनिया गान्धी” इति कृतम् । यदा राजीवः कैम्ब्रिज्-विश्वविद्यालये पठन् आसीत्, तावदेव द्वयोः प्रेमप्रसङ्गः आरब्धः । विवाहात् पूर्वं सोनिया देहलीनगरं प्राप्तवान् आसीत् । इन्दिरा सोनियायाः व्यक्तित्वस्य परीक्षणं कृतवती । अनन्तरम् इन्दिरया द्वयोः विवाहः अङ्गीकृतः । किन्तु सोनियायाः पिता अस्मै विवाहाय अङ्गीकारं न कुर्वन् आसन् । ततः परं सोनियया पिता प्रबोधिता । नवदेहल्यां प्रधानमन्त्र्यावासे सोनियाराजीवयोः विवाहः जातः । तस्य “राहुल” नामकः पुत्रः, प्रियङ्का नामिका पुत्री च अस्ति । राहुलस्य जन्म ई. स. १९७० तमे वर्षे, प्रियङ्कायाः च जन्म ई. स. १९७१ तमे वर्षे अभवत् [२]।
वृत्तिः
[सम्पादयतु]भारतम् प्रत्यागत्य राजीवः “देहली फ्लाइङ्ग् क्लब्” इत्यस्यां संस्थायां वायुयानचालनाय प्रवेशं प्राप्तवान् । तेन तत्र वायुयानचालनाय प्रशिक्षणं प्राप्तम् । अस्मिन् कार्ये तस्य रूचिः अपि आसीत् । अतः अल्पे समये एव तेन एतत् प्रशिक्षणं पूर्णं कृतम् । अनन्तरं तेन कस्मिँश्चित् व्यावसायिकवायुयानसंस्थायां विमानचालकत्वेन वृत्तिः प्राप्ता [३]।
राजनैतिकजीवनम्
[सम्पादयतु]राजीवस्य राजनीतौ रूचिः नासीत् । अतः एव सः विमानचालकत्वेन वृत्तिं कुर्वन् आसीत् । सञ्जयः राजनैतिककार्येषु इन्दिरायाः साहाय्यं करोति स्म । किन्तु विमानचालकप्रशिक्षणे सति दुर्घटनायां ई. स. १९८० तमस्य वर्षस्य जून-मासस्य २३ तमदिनाङ्के सञ्जयस्य मृत्युः जाता । तदा इन्दिरा एकाकिनी एव आसीत् । राजनैतिककार्येभ्यः इन्दिरायै कस्याश्चित् विश्वसनीयव्यक्तेः आवश्यकता आसीत् । राजीवः एव तत्कार्याय योग्यः आसीत् । अनन्तरं सः राजनीतिक्षेत्रं प्रविष्टवान् । किन्तु तेन न किमपि राजनैतिकपदं स्वीकृतम् । यथा इन्दिरा “जवाहलाल नेहरू” इत्याख्याय मित्रस्य, दार्शनिकस्य, मार्गदर्शकस्य च दायित्त्वं वहति स्म, तथैव राजीवः अपि इन्दिरायै तद्दायित्त्वं स्वीकृत्य कार्यम् आरब्धम् । किन्तु तस्मिन् समये तेन विमानचालकपदं न त्यक्तम् आसीत् । सः देशस्य, विदेशस्य च राजनैतिकैः अतिथिभिः सह सम्पर्कं कृतवान् । देशस्य विभिन्नराज्यानां भ्रमणं कृत्वा जनानां स्थितिं ज्ञातवान् । ई. स. १९८१ तमवर्षे देहली-नगरे कृषकसम्मेलनम् आयोजितम् [४]। तस्मिन् सम्मेलने राजीवेन कृषकान् सम्बोध्य तेषां समस्यानां समाधानार्थं भाषणं चकार । सेञ्चनाय जलस्य, विद्यतः, उर्वरकस्य च आपूर्तये सर्वकारं प्रति प्रस्तावः प्रस्थापितः । तदा सर्वकारेण कृषकेभ्यः कृषिकार्याय जलस्य, विद्युतः, उर्वरकस्य च आपूर्तिः कारिता । कॉङ्ग्रेसपक्षस्य नेतारः राजीवं राजनीतिक्षेत्रे सक्रियः कर्तुम् इच्छन्ति स्म । अतः सर्वे कार्यकर्तारः प्रयत्नरताः आसन् । ई. स. १९८१ तमस्य वर्षस्य जून-मासे अष्टेभ्यः लोकसभाभ्यः उपनिर्वाचनानि आयोजितानि । अप्रैल-मासस्य ३० तमे दिनाङ्के युवाकॉङ्ग्रेसपक्षस्य राष्ट्रियसमित्या यूनां प्रतिनिधिः भवितुं राजीवाय निवेदनं कृतम् । ई. स. १९८१ तमवर्षस्य मई-मासस्य ४ दिनाङ्के (४ मई १९८१) कॉङ्ग्रेसपक्षस्य संसत्समूहस्य गोष्ठी जाता । सञ्जयस्य मृत्योः अनन्तरं उत्तरप्रदेश-राज्यस्य अमेठी-लोकसभाक्षेत्रस्य अपि स्थानं रिक्तम् आसीत् । अतः ई. स. १९८१ तमस्य वर्षस्य मई-मासस्य ११ दिनाङ्के (११ मई १९८१) अमेठी-लोकसभाक्षेत्रस्य स्थानं पूरयितुं राजीवः तस्य स्थानस्य प्रत्याशित्वेन उद्घोषितः । अनन्तरं राजीवेन विमानचालकस्य वृत्तिः त्यक्ता । ततः परं लखनऊ-नगरं गत्वा नियुक्तिपत्रम् उपस्थापितम् । निर्वाचनदिनाङ्कस्य केवलं दशदिनात्पूर्वम् एव तेन प्रचारकार्यम् आरब्धम् । निवसतां जनानां व्यक्तिगतसम्पर्कं साधयितुं सः प्रतिग्रामं गच्छति स्म । जनानां व्यक्तिगतसम्पर्कम् अपि करोति स्म । येभ्यः जनेभ्यः वित्तीयसाहाय्यम् अपेक्षितम् आसीत्, तेभ्यः वित्तीयसाहाय्यम् अपि कृतम् । ई. स. १९८१ तमस्य वर्षस्य जून-मासस्य १६ दिनाङ्के (१६ जून १९८१) निर्वाचनस्य परिणामः उद्घोषितः । राजीवस्य स्वभावः विनम्रः, दयालुः च आसीत् । अतः स्वभावकारणात् निर्वाचने तस्य विजयः जातः । सः अमेठीलोकसभाक्षेत्रस्य सांसदत्वेन चितः । निर्वाचनानन्तरं तेन स्वस्य क्षेत्रस्य विकासाय कार्यम् आरब्धम् । तस्य क्षेत्रस्य पदाधिकारिणः राजीवस्य कथनस्य अनुकरणं कुर्वन्ति स्म । यतः राजीवः अनुशासनप्रियः आसीत् ।
प्रधानमन्त्रित्वेन राजीवः
[सम्पादयतु]ई. स. १९८४ तमस्य वर्षस्य अक्टूबर-मासस्य ३१ तमे दिनाङ्के (३१ अक्टूबर १९८४) इन्दिरायाः मृत्युः जाता । इन्दिरायाः अङ्गरक्षकैः एव सा हता । ई. स. १९८४ तमस्यवर्षस्य अक्टूबर-मासस्य ३१ तमे दिनाङ्के (३१ अक्टूबर १९८४) एव तत्कालीनः राष्ट्रपतिः “ज्ञानी जैल सिंह” इत्याख्यः राजीवेन प्रधानमन्त्रिशपथम् अकारयत् ।[५] यदा सः प्रधानमन्त्री अभवत् , तदा अस्माकं देशः साम्प्रदायिकहिंसया ग्रस्तः आसीत् । किन्तु राजीवः एतादृशीं हिंसां नेच्छति स्म । तेन ई. स. १९८४ तमस्य वर्षस्य नवम्बर-मासस्य २ दिनाङ्के (२ नवम्बर १९८४) साम्प्रदायिकविद्वेषम् अवरोद्धुं जनेभ्यः निवेदनं कृतम् । तेन उक्तं यत् – “रक्तपातं मा कुरु, घृणां मा कुरु” चेति । प्रधानमन्त्रित्वेन अहम् एतावत् कार्यं शोढुम् असमर्थः अस्मि” । किन्तु तदा विलम्बः जातः आसीत् । यतः त्रीणि दिनानि, तिस्रः रात्र्यः च व्यतीताः जाताः । इदानीं पर्यन्तम् अपि हिंसाग्रस्तेभ्यः क्षतिपूर्तिः न जाता । हिंसकेभ्यः विरोधे अपि न किमपि कार्यम् अभवत् । ई. स. १९८९ तमवर्षे राजीवः प्रधानमन्त्रिपदे सति भारतस्य भ्रमणं कुर्वन् आसीत् । तस्मिन् समये विपक्षनेतृभिः राजीवस्य उपरि बोफोर्स्-भ्रष्टाचारस्य आरोपः प्रस्थापितः आसीत् । तेन राजीवः सम्पूर्णे देशे अलोकप्रियः जातः । राजीवस्य मन्त्रिमण्डलस्य “वी. पी. सिंह” इत्याख्येन एव अयम् आरोपः प्रस्थापितः आसीत् [६]।
मृत्युः
[सम्पादयतु]ई. स. १९९१ तमस्य वर्षस्य मई-मासस्य २१ तमे दिनाङ्के (२१ मई १९९१) तमिळ-आतङ्कवादिभिः अग्निगोलकेन राजीवः हतः । पैरम्बटूर-नगरे एकस्यां जनसभायां “लिट्टे” (LTTE-Liberation Tigers of Tamil Eelam) इत्यस्याः आतङ्कवादिसंस्थायाः आत्मघातीमहिलया पुष्पमालिकायाः स्वागतेन “राजीव गान्धी” इत्याख्यः मृतः [७]।