सदस्यः:डॉ मोहनभाई पटेल/प्रयोगपृष्ठम्/2

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

चन्द्रशेखरसिंहः भारतस्य अष्टमप्रधानमन्त्री आसीत् । सः ई. स. १९९० तमवर्षस्य नवम्बर-मासस्य १० दिनाङ्के (१० नवम्बर १९९०) तः ई. स. १९९१ तमवर्षस्य जून-मासस्य २१ तमे दिनाङ्कपर्यन्तं (२१ जून १९९१) भारतस्य प्रधानमन्त्रित्वेन कार्यं कृतवान् आसीत् । “वी. पी. सिंह” इत्याख्यस्य प्रधानमन्त्रिपदात् त्यागनन्तरं चन्द्रशेखरः एव प्रधानमन्त्री अभवत् । चन्द्रशेखरः सप्तमासं यावत् प्रधानमन्त्रित्वेन कार्यम् अवहत् ।

जन्म, परिवारश्च[सम्पादयतु]

चन्द्रशेखरस्य जन्म ई. स. १९२७ तमस्य वर्षस्य जुलाई-मासस्य १ दिनाङ्के (०१ जुलाई १९२७) उत्तरप्रदेश-राज्यस्य बलिया-मण्डलस्य इब्राहीमपुरे अभवत् [१]। इब्राहिमपुरं बलिया-मण्डलस्य कश्चन लघुग्रामः अस्ति । सः कृषकपरिवारेण सह सम्बद्धः आसीत् । चन्द्रशेखरस्य विवाहः दूजादेव्या सह अभवत् । तस्य पङ्कजः नीरजः इत्येतौ द्वौ पुत्रौ आस्ताम् ।

बाल्यं, शिक्षणञ्च[सम्पादयतु]

बाल्यकालादेव चन्द्रशेखरस्य राजनीतिक्षेत्रे अभिरूचिः आसीत् । तस्य विचाराः अपि क्रान्तिकारिणाम् विचाराः इव आसन् । तेन ई. स. १९५१ तमवर्षे इलाहाबाद-विश्वविद्यालयस्य राजनीतिविज्ञाने स्नातकोत्तरपदवी प्राप्ता । चन्द्रशेखरः बाल्यादेव निर्भिकः आसीत् । छात्रजीवनादेव राजनीतौ तस्य रूचिः आसीत् । विद्यालये, महाविद्यालये, विश्वविद्यालये च यदा दायित्त्वं दातुं छात्राणां निर्वाचनं क्रियते स्म । तदा अपि चन्द्रशेखरः भागं वहति स्म । चन्द्रशेखरस्य वाक्चातुर्यं सर्वे अध्यापकाः, विद्यार्थिनः च जानन्ति स्म । सः बाल्यावस्थायाः एव वाक्पटुः आसीत् । महाविद्यालयस्य स्पर्धायाम् अपि सः सर्वदा भागं वहति स्म । तेन अर्थशास्त्रस्य, हिन्दीसाहित्यस्य, आङ्ग्लसाहित्यस्य चापि अध्ययनं कृतम् आसीत् ।

व्यक्तित्वम्[सम्पादयतु]

चन्द्रशेखरस्य व्यक्तित्वं सरलम् आसीत् । तस्य वाचा जनाः मुग्धाः भवन्ति स्म । सभायां तस्य भाषणं सर्वे जनाः शान्तं भूत्वा शृण्वन्ति स्म । सः कुशाग्रबुद्धिमान् आसीत् । सः सर्वदा निष्ठया कार्याणि करोति स्म । जनैः सः “युवा-तुर्क” इति नाम्ना सम्बुद्ध्यते स्म । तेन “आचार्य नरेन्द्र देव” इत्याख्यस्य चरित्रस्य, व्यक्तित्वस्य अनुकरणं कृतम् आसीत् ।

अभिरूचिः[सम्पादयतु]

लेखने अपि तस्य रूचिः आसीत् । सः लेखकः अपि आसीत् । तेन ई. स. १९६९ तमवर्षात् “यङ्ग इण्डिया” नामिकायाः साप्ताहिक्याः प्रकाशनम् अपि कृतम् आसीत् [२]। तस्यां साप्तहिक्यां सः निर्भिकत्वेन लेखाः सम्पादयति स्म । बहवः जनाः तस्य लेखान् पठन्ति स्म । आपत्काले कारावासे अपि तेन “मेरी जेल डायरी” इति नामकं पुस्तकं रचितम् । कारावासं समाप्त्यन्तरं तेन तत्पुस्तकं प्रकाशितम् । तस्मिन् पुस्तके तेन कारागारस्य स्वस्य अनुभवाः वर्णिताः आसन् । तेन लिखितानां लेखानां एकस्मिन् पुस्तके सङ्ग्रहं कृत्वा “डायनेमिक्स् ऑफ् चेञ्ज्” इति नामकं पुस्तकं प्रकाशितम् । सः स्वविचारान् लेखनमाध्यमेन प्रतिपादयति स्म । सः श्रेष्ठः पत्रकारः अपि आसीत् । समाचारपत्रेषु अपि तस्य लेखाः सम्पादिताः । सः लेखानात् पूर्वं विषयस्य सूक्ष्मतया चिन्तनं, मननं च करोति स्म । तेन भारतस्य बहूनां राज्यानां भ्रमणं कृतम् आसीत् । तस्यां यात्रायां तेन जनानां सम्पर्कः अपि साधितः । तेन बहुषु राज्येषु भारतयात्राकेन्द्राणां स्थापना अपि कृता । गुजरात-राज्ये, हरियाणा-राज्ये, उत्तरप्रदेश-राज्ये, तमिळनाडु-राज्ये, कर्णाटक-राज्ये, केरल-राज्ये, महाराष्ट्र-राज्ये, मध्यप्रदेश-राज्ये च एतानि केन्द्राणि स्थापितानि । सामाजिकानां, राजनैतिकानां च कार्यकर्तॄणां प्रशिक्षणार्थं एतानि केन्द्राणि आसन् ।

राजनैतिकजीवनम्[सम्पादयतु]

स्नातकोत्तरपदवीं प्राप्य सः समाजवादी-आन्दोलने सलग्नः जातः । सर्वप्रथमः सः बलिया-मण्डलस्य समाजवादीदलस्य सचिवः अभवत् । एकवर्षानन्तरं राज्यस्तरे संयुक्तसचिवत्वेन कार्यं कृतवान् । ई. स. १९६२ तमे वर्षे सः उत्तरप्रदेश-राज्यस्य राज्यसभायाः सदस्यः अभवत् । तदा सः राष्ट्रियराजनीतौ प्रसिद्धः जातः । पञ्चत्रिंशत्वर्षीये सति तेन राजनैतिकानि बहूनि कार्याणि आरब्धानि । जनेषु अपि सः प्रसिद्धः जातः । यदा संसदि सः भाषणं करोति स्म, तदा सर्वे जनाः मुग्धाः सन्तः एकाग्रचित्तेन तस्य भाषणं शृण्वन्ति स्म । जनसभासु अपि सिंहगर्जनया सम्पूर्णं वातावरणं शान्तं कर्तुं समर्थः आसीत् । संसदि यदा कस्मिँश्चि अपि विषये अवरोधः समुद्भवति, तर्हि चन्द्रशेखरः अनुभवीरूपेण, अभिभावकत्वेन च परामर्शं ददाति स्म । सः यत् कथयति तत् पक्षस्य, विपक्षस्य च जनाः आचरन्ति स्म । तेन अवरोधः समाप्यते स्म । ई. स. १९७५ तमे वर्षे इन्दिरया आपत्कालः स्थापितः । तस्मिन् काले तया बहवः नेतारः कारागारं प्रेषिताः । तेषु नेतृषु चन्द्रशेखरः अपि अन्यतमः आसीत् । यदा विश्वनाथः प्रधानमन्त्रिपदं त्यक्तवान्, तदा कॉङ्ग्रेसपक्षः चन्द्रशेखरस्य समर्थनं कर्तुं सज्जः अभवत् । राजीवेन चन्द्रशेखराय समर्थनानि प्रदत्तानि ।

प्रधानमन्त्रित्वेन चन्द्रशेखरः[सम्पादयतु]

कॉङ्ग्रेस्-पक्षस्य (आई) समर्थनानि चन्द्रशेखराय प्रदत्तानि । अतः ई. स. १९९० तमस्य वर्षस्य नवम्बर-मासस्य १० दिनाङ्के (१० नवम्बर १९९०) राष्ट्रपतिः “रामास्वामी वेङ्कटरमन” इत्याख्यः चन्द्रशेखरेण प्रधानमन्त्रिशपथम् अकारयत् [३]। किन्तु राजीवः चन्द्रशेखरसर्वकारस्य पतनम् इच्छति स्म । सः राजीवः चन्द्रशेखरस्य सर्वकारं पातितुं प्रयासान् कुर्वन् आसीत् । चत्वारः मासानन्तरं मार्च-मासस्य ४ दिनाङ्के राजीवस्य निवासस्थले रक्षकद्वयं (Police) दृष्टम् । “तौ रक्षकौ चन्द्रशेखर-सर्वकारस्य गुप्तचरौ स्तः” इति जनवादः (humor) प्रसरितः । अग्रिमे दिवसे कॉङ्ग्रेस्-पक्षेण सर्वाणि समर्थनानि प्रत्यानीतानि । अतः चन्द्रशेखरः अल्पसमये एव प्रधानमन्त्रिपदे आसीत् । किन्तु यावत् पर्यन्तं पी. वी. नरसिंहा राव अभवत्, तावत् पर्यन्तं चन्द्रशेखरः एव प्रधानमन्त्री आसीत् । ई. स. १९९१ तमवर्षस्य जून-मासस्य २१ तमदिनाङ्के (२१ जून १९९१) चन्द्रशेखरेण प्रधानमन्त्रिपदं त्यक्तम् । प्रधानमन्त्रिपदस्य त्यागानन्तरम् अपि चन्द्रशेखरेण राजनैतिकक्षेत्रे स्वस्य महत्योगदानं प्रदत्तम् आसीत् । ई. स. १९९५ तमे वर्षे चन्द्रशेखराय योग्यसांसदस्य पुरस्कारः प्रदत्तः । सः सर्वदा प्रभावशालिसांसदः आसीत् ।

मृत्युः[सम्पादयतु]

चन्द्रशेखरः “प्लाज्मा कैन्सर्” इत्यनेन रोगेण पीडितः आसीत् । ई. स. २००७ तमवर्षस्य जुलाई-मासस्य ८ दिनाङ्के (८ जुलाई २००७) “प्लाज्मा कैन्सर्” इत्यनेन रोगेण मृतः । तस्मिन् समये सः नवदेहली-महानगरस्य “अपोलो-चिकित्सालये” एव चन्द्रशेखरस्य चिकित्सा जाता । [४]

  1. भारत के प्रधानमन्त्री, पृ. १३६
  2. भारत के प्रधानमन्त्री, पृ. १४०
  3. भारत के प्रधानमन्त्री, पृ. १४३
  4. भारत के प्रधानमन्त्री, पृ. १४५