सदस्यः:डॉ राजेन्द्रप्रसाद शुक्ला/प्रयोगपृष्ठम्/1
न हि प्रपश्यामि मापनुद्यात् ( ( शृणु)) इत्यनेन श्लोकेन अर्जुनः युद्धोपरामरूपस्य स्वनिर्णयस्य स्पष्टनिरूपणं करोति । पूर्वस्मिन् श्लोके अर्जुनः भगवतः शरणङ्गतः । सः जानाति स्म यत्, श्रीकृष्णस्य निर्णयस्तु युद्धस्यैवास्ति इति । अत एव श्रीकृष्णः "उत्तिष्ठ" इति आदिशत । परन्तु अर्जुनः स्वस्य युद्धोपरामस्य निर्णयमेव योग्यं मन्यते स्म । यदि पुनः श्रीकृष्णः युद्धस्य आज्ञां दास्यति, तर्हि किम् ? इति विचिन्तय अर्जुनः अत्र स्वस्य युद्धोपरामनिर्णयं विस्तारेण स्पष्टयति । सः कथयति यत्, पृथिव्यां धनधान्यदिसमृद्धयः, निष्कण्टकराज्यं, स्वर्गाधिपत्यप्राप्तिः इत्यादिकं प्राप्ते सत्यपि इन्द्रियशोषकस्य मे शोकस्य निवारणम् अहं न पश्यामि इति । अर्जुनस्य मतम् आसीत् यत, भगवान् तस्य सुखाय, विजयाय च योद्धुम् आदिशति । परन्तु अहं तु विजयि सत्यपि शोकमग्न एव भविष्यामि इति ।
भावार्थः
[सम्पादयतु]'अवाप्य भूमावसपत्नमृद्धं राज्यम्' – यद्यप्यहं धनधान्यसम्पन्नं राज्यं प्राप्नुयाम्, तथाप्यहं शोकमुक्तः न भविष्यामि । अर्थात् यस्मिन् राज्ये प्रजाः सुखिन्यः भवेयुः, प्रजाः धनधान्यसम्पन्नाः स्युः, न कस्यापि वस्तोः अभावः स्यात्, राज्यस्य कोऽपि शत्रुः अपि न स्याच्च, तादृशं राज्यं प्राप्यापि अहं मम शोकात् मुक्तिं न प्राप्स्यामि ।
'सुराणामपि चाधिपत्यम्' – न केवलम् एतान् भूलोकस्य भोगान् प्राप्य, अपि तु इन्द्रस्य दिव्यभोगयुक्तं राज्यमपि प्राप्य मे शोकः न व्यपगमिष्यति । अर्जुनः प्रथमाध्याय एवावदत् यत्, अहं विजयं, राज्यं, सुखं च नेच्छामि । यतः येभ्यः वयं राज्यभोगम् इच्छामः, तान् मारयित्वा वयं एतत् सर्वं प्राप्स्यामः इति [१] । तस्मिन् काले युद्धोपरामस्य निर्णयः कौटुम्बिकममतायाः कारणेन आसीत् । अस्मिन् श्लोके युद्धोपरामस्य निर्णयः स्वकल्याणवृत्यै अस्ति । उभयोः निर्णयोः मध्ये भावस्य अन्तरम् अस्ति ।
'न हि प्रपश्यामि ममापनुद्याद्यच्छोकमुच्छोषणमिन्द्रियाणाम्' – यदि कुटुम्बकानां मृत्योः आशंकया एव महान् शोकः अस्ति, तर्हि तेषां मृत्यूत्तरं तु किं भविष्यति ? यदि राज्याय शोकः समुद्भवेत्, तर्हि राज्यप्राप्तौ सः शोकः उपशमति । परन्तु कुटुम्बनाशस्य शोकः राज्यप्राप्तौ कथं शमेत् ? युद्धोत्तरं तु शोकः इतोऽपि विकरालः भविष्यति । पृथिव्याः राज्यम् उत स्वर्गस्य आधिपत्यम् अपि इन्द्रियशोषकं शोकं दूरीकर्तुं न प्रभविष्यति ।
भाष्यार्थः
[सम्पादयतु]यदि भवान् कथयति यत्, युद्धोपरामत्वात् धृतराष्ट्रपुत्राः भवतः (द्वि.ब.) मारयिष्यति इति, तर्हि भवतु तत्; किञ्च गुरुजनानां वधोत्तरम् अधर्मयुक्तस्य विजयस्य कामना अस्माकं (पाण्डवानां) नास्ति । अतः धर्माधर्मविवेकहिनैः धार्तराष्टैः अस्माकं वधमेव वरं मन्यामहे । ततः 'शिष्यस्तेहम्' इत्युक्तवान् अर्जुनः अत्यन्तदीनतापूर्वकं भगवतः श्रीचरणकमलयोः आश्रितः अभवत् ।
- ↑ गीता, श्लो. १, श्लो. ३२-३३