सामग्री पर जाएँ

सदस्यः:दीपेशः कतिरा/प्रयोगपृष्ठम्/2

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

विश्वनाथ प्रतापसिंह इत्याख्यः भारतस्य सप्तमप्रधानमन्त्री आसीत् । राजीवगन्धिनः सर्वकारस्य पतनानन्तरं “विश्वनाथ प्रतापसिंह” इत्याख्यः ई. स. १९८९ तमवर्षस्य दिसम्बर-मासस्य २ दिनाके (२ दिसम्बर १९८९) भारतस्य प्रधानमन्त्रिपदं प्राप्तवान् । अयं कुटिलः राजनीतिज्ञः अपि कथ्यते []

जन्म, परिवारश्च

[सम्पादयतु]

विश्वनाथस्य जन्म ई. स. १९३१ तमस्य वर्षस्य जून-मासस्य २५ तमे दिनाङ्के (२५ जून १९३१) उत्तरप्रदेश-राज्यस्य इलाहाबाद-मण्डले अभवत् । तस्य पितुः नाम “राय गोपाल सिंह”, मातुः च नाम “राज कंवर” च आसीत् । तस्य परिवारः समृद्धः आसीत् ।

शिक्षणम्

[सम्पादयतु]

विश्वनाथस्य प्रारम्भिकं माध्यमिकं च शिक्षणं देहरादून-नगरस्य “कोलोनल् ब्राउन् केम्ब्रिज् स्कूल्” इत्यस्मिन् विद्यालये अभवत् । अनन्तरं इलाहाबाद-विश्वविद्यालये, पूणे-नगरस्य “सावित्रीबाई फूले पूणे विश्वविद्यालये” च तस्य उच्चशिक्षणम् अभवत् । ई. स. १९४७ तमवर्षतः १९४८ तमवर्षपर्यन्तं सः वाराणसी-नगरस्य उदयप्रताप-महाविद्यालये विद्यार्थीसमूहस्य अध्यक्षत्वेन आसीत् । सः इलाहाबाद-विश्वविद्यालये अपि विद्यार्थीसमूहस्य उपाध्यक्षत्वेन आसीत् । बाल्यकालादेव सः राजनीतिक्षेत्रे सक्रियः आसीत् । चित्रकलायाम् अपि तस्य अभिरूचिः आसीत् । सः काव्यानि अपि लिखति स्म । तस्य काव्यसङ्ग्रहः प्रकाशितः अपि जातः । तेन निर्मितानां चित्राणां प्रदर्शनी अपि क्रियते स्म ।

विवाहः

[सम्पादयतु]

ई. स. १९५५ तमस्य वर्षस्य जून-मासस्य २५ तमे दिनाङ्के “सीता कुमारी” इत्याख्यया सह विश्वनाथस्य विवाहः जातः ।यस्मिन् दिने तस्य विवाहः जातः तस्मिन् दिने विश्वनाथस्य जन्मदिवसः अपि आसीत् । तस्य द्वौ पुत्रौ आस्ताम् []। अजयसिंहः, अभयसिंहश्च ।

राजनैतिकजीवनम्

[सम्पादयतु]

विश्वनाथः बाल्यकालादेव राजनीतिक्षेत्रे कार्यरतः आसीत् । ई. स. १९५७ तमे वर्षे भूदान-आन्दोलने अपि सः सक्रियः कार्यकर्ता आसीत् । विश्वनाथेन अस्मिन् आन्दोलने स्वस्य भूमेः अपि दानं कृतम् आसीत् । तेन तस्य परिवारे विवादः जातः आसीत् । स इलाहाबाद-नगरस्य अखिलभारतीयकॉङ्ग्रेससमित्याः सदस्यः अपि आसीत् । तस्य परिवारः आर्थिकदृष्ट्या समृद्धः आसीत् । अतः युवावस्थायाम् एव राजनीतिक्षेत्रे तेन साफल्यं प्राप्तम् । ई. स. १९६९ तः १९७१ तमवर्षं यावत् सः विधानसभायाम् आसीत् । ई. स. १९८० तमवर्षस्य जून-मासस्य ९ दिनाङ्के(९ जून १९८०) , १९८२ तमवर्षस्य जून-मासस्य २८ तमदिनाङ्कपर्यन्तं (२८ जून १९८२) सः उत्तरप्रदेशराज्यस्य मुख्यमन्त्रित्वेन कार्यं कृतवान् आसीत् । तदनन्तरं सः ई. स. १९८३ तमवर्षस्य दिसम्बर-मासस्य ३१ तमदिनाङ्के (३१ दिसम्बर १९८३) केन्द्रीयवाणिज्यमन्त्रिपदम् अलङ्कृतवान् । सः राज्यसभायाः अपि सदस्यः आसीत् । ई. स. १९८४ तमस्य वर्षस्य दिसम्बर-मासस्य ३१ तमे (३१ दिसम्बर १९८४) दिनाङ्के सः भारतस्य वित्तमन्त्रिपदं प्राप्तवान् । तस्मिन् समये राजीव-विश्वनाथयोः कश्चन विवादः जातः । “बहुभिः भारतीयैः विदेशस्य वित्तकोषेशु स्वस्य धनं स्थापितम् अस्ति” इति विश्वनाथः ज्ञातवान् । अतः तेन तादृशान् व्यक्तीः अन्वेष्टुम् अमेरिका-देशस्य फेयरफैक्स्” इत्यस्याः संस्थायाः नियुक्तिः कृता । अनया प्रक्रियया राजीवः चिन्ताग्रस्तः जातः । यतः अस्मिन् प्रकरणे “अमिताभ बच्चन” इत्याख्यस्य अपि नाम आसीत् । “अमिताभ बच्चन” इत्याख्यः राजीवस्य परममित्रम् आसीत् । अतः परममित्रस्य संरक्षणार्थं राजीवेन प्रक्रिया आरब्धा । राजीवः विश्वनाथं वित्तमन्त्रिपदात् स्थानान्तरितं कर्तुम् इच्छति स्म । अतः राजीवेन उक्तं यत् – “पाकिस्तान-देशेन सह युद्धस्य स्थितिः भवितुं सक्ष्यति । अतः रक्षामन्त्रालये योग्य मन्त्रिणः आवश्यकता वर्तते । अतः विश्वनाथः एव योग्यः मन्त्री अस्ति” । यदा राजीवेन विश्वनाथस्य स्थानान्तरणं कृतं, तदा राजीवस्य अस्याः प्रक्रियायाः विपरितः प्रभावः जातः । विपक्षेण अस्य क्रियायाः उपयोगः शस्त्रत्वेन कृतम्, उक्तं च – “राजीवेन स्वस्य मित्रस्य अमिताभ बच्चन इत्याख्यस्य रक्षणाय “वी. पी. सिंह” इत्याख्यस्य बलिः प्रदत्ता” इति । विश्वनाथस्य स्थानान्तरणात् परं कॉङ्ग्रेससर्वकारेण ब्रुडनवं (Submarine) क्रीतम् आसीत् । राजीवस्य अधीने कार्यं कर्तुं सः मानहानिम् अनुभवति स्म । अतः अपमानस्य वैरोद्धाराय तेन राजीवस्य अनुमतिं विहाय एव ब्रुडनव-अभियोगस्य परीक्षणाय आदेशः प्रदत्तः । विश्वनाथेन कृतम् इदम् कार्यम् नीतिविरूद्धम् आसीत् । अस्मिन् बिन्दौ चर्चां कर्तुं मन्त्रिपरिषदः गोष्ठी जाता । मन्त्रिपरिषदः सदस्यैः विश्वनाथस्य आलोचना कृता । किन्तु विश्वनाथः स्वस्य क्रिया अयोग्या इति स्वीकर्तुं नेच्छति स्म । यतः सः आत्मानं योग्यराजनीतिज्ञः मन्यते स्म । अतः तेन तत्कालमेव राजीवस्य सर्वकारः त्यक्तः । विपक्षः विश्वनाथस्य साधुत्वस्य प्रशंसां कुर्वन् आसीत् । यथा कस्मिँश्चित् समये राजीवः “मिस्टर् क्लीन्” इति उपाधिं प्राप्तवान् आसीत्, तथैव विश्वनाथेन अपि “मिस्टर् क्लीन्” इति उपाधिः प्राप्ता । अनन्तरं विश्वनाथः राजीवस्य विरोधं कुर्वन् आसीत् । ई. स. १९८७ तमवर्षस्य अप्रैल-मासस्य १६ दिनाङ्के (१६ अप्रैल १९८७) स्वीडन्-देशस्य आकाशवाण्या उद्घोषितं यत् – “स्वीडन-देशस्य बोफोर्स्-व्यापारिकसंस्थया ४१० शतघ्न्याः क्रीताः । अस्मिन् व्यापारे तया संस्थया ६० कोटिरूप्यकाणाम् उत्कोचः (Bribe) प्रदत्तः आसीत् । विपक्षैः राजीवस्योपरि आक्षेपः कृतः यत् – “राजीवः, राजीवस्य पारिवारिकजनाः, सहयोगिजनाः च अस्मिन् भ्रष्टाचारकाण्डे सम्मिलिताः सन्ति” । किन्तु राजीवस्य मृत्योः अनन्तरं न्यायालयेन अयम् आक्षेपः निरस्तीकृतः । विश्वनाथः सर्वदा राजीवस्य विरोधे एव कार्यं करोति स्म । तेन राजीवेन कृतस्य भ्रष्टाचारस्य पूर्णतया विरोधः कृतः । सः सम्पूर्णदेशस्य वातावरणं राजीवाय विषाक्तपूर्णं कृतवान् आसीत् । सः राजीवस्योपरि स्थापितः बोफोर्स्-भ्रष्टाचारकाण्डस्य आक्षेपः षण्मासकाले सिद्धं कर्तुम् इच्छति स्म । किन्तु विश्वनाथः आजीवनम् अपि तत्सिद्धं कर्तुम् असमर्थः । तस्मिन् समये विश्वनाथः भारतीययूनां नायकः आसीत् । सः उत्तरप्रदेश-राज्ये प्रातःकालादेव प्रचाराय गच्छति स्म । तेन सह बहवः छात्राः अपि भवन्ति स्म । सः सर्वदा सामान्यव्यक्तिः इव दर्शयितुं प्रयासान् करोति स्म । तेन प्रधानमन्त्रिपदं प्राप्तुं चातुर्येन कार्याणि कृतानि । निर्वाचने जेतुं विश्वनाथेन बहवः प्रयासाः कृताः । तेन सर्वेषु प्रयासेषु सर्वप्रथमं राजीवस्य विरोधीनां विश्वासः जितः । अनेन राहुलस्य विरोधिनः अधिकाः अभवन् । अनन्तरं राजीवं कॉङ्ग्रेस-पक्षात् निष्कासयितुम् अपि प्रयासाः कृताः । राजीवस्य समीपस्थान् जनान् अपि राहुलात् पृथक्कृतवान् । ई. स. १९८८ तमवर्षस्य अक्टूबर-मासस्य ११ दिनाङ्के (११ अक्टूबर १९८८) जनतादलस्य निर्माणं अभवत् । निर्वाचने कॉङ्ग्रेसपक्षेण १४६ स्थानानि प्राप्तानि आसन् । विश्वनाथस्य पक्षेण १४६ स्थानानि प्राप्तानि आसन् । किन्तु अन्यपक्षैः विश्वनाथस्य पक्षस्य समर्थनं कर्तुम् उद्घोषितम् । अनेन “भारतीय जनता पार्टी” इत्यादीनां पक्षाणां साहाय्येन जनतादलस्य आहत्य २४८ स्थानानि अभवन् । तथापि विश्वनाथस्य प्रधानमन्त्रिपदं प्राप्तुं बहवः अवरोधाः समुद्भूताः । देवीलालः अपि प्रधानमन्त्री भवितुम् ऐच्छत् । किन्तु देवीलालः उक्तवान् यत् – “यदि अहम् उपप्रधानमन्त्री भविष्यमि, तर्हि समर्थनं दास्यामि । अन्ततो गत्वा देवीलालेन विश्वनाथाय समर्थनं प्रदत्तम् ।

प्रधानमन्त्रित्वेन विश्वनाथः

[सम्पादयतु]

ई. स. १९८९ तमस्य वर्षस्य दिसम्बर-मासस्य २ दिनाङ्के (२ दिसम्बर १९८९) राष्ट्रपतिः “रामास्वामी वेङ्कटरमन” इत्याख्यः विश्वनाथेन प्रधानमन्त्रिशपथम् अकारयत् । तेन सह देवीलालः अपि उपप्रधानमन्त्रिपदं प्राप्तवान् । प्रधानमन्त्रिपदं प्राप्य सः सर्वप्रथमं अमृतसर-नगरे स्थितस्य स्वर्णमन्दिरस्य दर्शनार्थं गतवान् । नेहरू-गान्धी-परिवारस्य अपमानार्थं सः तत्र गतवान् आसीत् । यतः इन्दिरया स्वस्य शासनकाले स्वर्णमन्दिरसम्बद्धानि यानि कार्याणि कृतानि, तानि सर्वाणि कार्याणि स्वर्णमन्दिरस्य पवित्रतां नाशितुम् एव आसन् । तेन सिखधर्मनुयायिनः कुपिताः जाताः । प्रधानमन्त्रिपदं प्राप्य विश्वनाथेन यानि कार्याणि कृतानि, तेभ्यः कार्येभ्यः जनाः अतीव खिन्नाः अभवन् । चन्द्रशेखरः, देवीलालः च प्रचण्डः राजनीतिज्ञः आसीत् । अतः तौ विश्वनाथस्य सर्वाः प्रतिक्रियाः जानुतः स्म । चन्द्रशेखरेण कदापि विश्वनाथः प्रधानमन्त्री इति न मन्यते स्म । विश्वनाथः भारतदेशस्य समस्यानां समाधानं कर्तुम् असमर्थः आसीत् । केवलं एकं कार्यं विश्वनाथस्य सर्वकारेण पूर्णतया कृतम् यत् – “राजीवेन सेना श्रीलङ्कां प्रेषिता आसीत् । सेनायाः पुनरागनं पूर्वतः एव आरम्भं जातम् आसीत् । किन्तु विश्वनाथस्य सर्वकारेण अपि अवशिष्टा सेना आवाहिता । कार्यमिदम् एव विश्वनाथस्य उपलब्धिः वर्तते । विश्वनाथस्य कार्यकाले एका घटना जाता यत् – “भारतीयजनतापक्षस्य नेता “लालकृष्ण आडवाणी” इत्याख्येन सितम्ब-मासस्य २५ तमे दिनाङ्के गुजरात-राज्यस्य सोमनाथ-नगरात् रथयात्रा आरब्धा । सा रथयात्रा अयोध्या-नगरं गच्छन्ती आसीत् । अयोध्या-नगरं प्राप्य “लालकृष्ण आडवाणी” इत्याख्येन राममन्दिरस्य आधारशिला स्थापनीया आसीत् । “लालू प्रसाद यादव” तत्कालीनः बिहार-राज्यस्य मुख्यमन्त्री आसीत् । कदाचित् विश्वनाथेन सह तस्य घनिष्ठः सम्बन्धः आसीत् । अतः तेन विश्वनाथस्य अनुमतिं विहायैव समस्तीपुर-नगरे “लालकृष्ण आडवाणी” इत्याख्यः परासेधितः । अस्य प्रभावः विश्वनाथस्य सर्वकारोपरि जातः । तस्मात् खिन्नेन भारतीयजनतापक्षेण स्वसमर्थनानि प्रत्यानीतानि । अक्टूबर-मासस्य ३० तमे दिनाङ्के अयोध्या-नगर्याम् अपि अग्न्यास्त्राणि प्रचालितानि । अस्मिन् काण्डे बहवः जनाः मृताः । तेन कारणेन बहुषु स्थानेषु साम्प्रदायिकहिंसाः अभवन् । तस्मिन् काण्डे अपि बहवः जनाः मारिताः । जनतादले अस्य काण्डास्य प्रभावः अभवत् । अष्टपञ्चाशत् (५८) सांसदैः विश्वनाथस्य सर्वकारः त्यक्तः । तैः सर्वैः सांसदैः चन्द्रशेखरस्य समर्थनं कृतम् । तेन जनतादलं नष्टं जातम् । तेन ई.स. १९९० तमवर्षस्य नवम्बर-मासस्य १० दिनाङ्के (१० नवम्बर १९९०) “वी. पी. सिंह” इत्याख्यः प्रधानमन्त्रिपदात् मुक्तः जातः । सः ई. स. १९८९ तमवर्षस्य दिसम्बर-मासस्य २ दिनाङ्के (२ दिसम्बर १९८९) प्रधानमन्त्री अभवत् । अतः विश्वनाथेन आहत्य एकवर्षपर्यन्तम् अपि प्रधानमन्त्रित्वेन कार्यं न कृतम् ।

मृत्युः

[सम्पादयतु]

विश्वनाथः रुधिरस्य कर्करोगेन (Blood Cancer) पीडितः आसीत् । तेन कृषकाणाम् आधारेण पुनः राजनीतिक्षेत्रे स्थानं निर्मातुं प्रक्रिया आरब्धा आसीत् । किन्तु शारीरिकबलाभावात् सः निष्फलः अभवत् । ई. स. २००८ तमस्य वर्षस्य नवम्बर-मासस्य २७ तमदिनाङ्के (२७ नवम्बर २००८) देहली-नगरस्य अपोलो-चिकित्सालये विश्वनाथस्य अवसानम् अभवत् []

  1. भारत के प्रधानमंत्री, पृ. ११८
  2. भारत के प्रधानमंत्री, पृ. ११८
  3. भारत के प्रधानमंत्री, पृ. १३५