सामग्री पर जाएँ

सदस्यः:प्रवीण जेठालाल मेहता/प्रयोगपृष्ठम्/1

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

देहिनोऽस्मिन्यथा देहे () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः शोकः सर्वथा अयोग्यः इति बोधयति । पूर्वस्मिन् श्लोकेऽपि भगवान् सदसतोः पदार्थयोः कृते शोकः अनुचितः इति अकथयत् । अत्र तमेव विषयम् अग्रे वदति । पूर्वस्मिन् श्लोके, श्लोकेऽस्मिन् च भगवान् आत्मनः नित्यतां, निर्विकारतां च बोधयति । सः वदति यत्, देहधारिणः मनुष्यदेहेऽस्मिन् यथा बाल्यं, यौवनं, वार्धक्यं च भवति, तथैव अन्यशरीरस्य प्राप्तिः भवति । एतस्मिन् विषये धीमन्तः मनुष्याः न मुह्यन्ति ।

भावार्थः

[सम्पादयतु]

'देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा' – देहधारिणां शरीरे बाल्य-यौवन-जराः भवन्ति । तात्पर्यम् अस्ति यत्, शरीरे कदापि निश्चिता काचित् अवस्था न तिष्ठति । सा अवस्था निरन्तरं परिवर्तनशीला भवति । अत्र "देहधारिणां शरीरे" इत्यस्य कथनस्य तात्पर्यम् अस्ति यत्, शरीरी भिन्नः अस्ति, शरीरं च भिन्नम् । शरीरी दृष्टा अस्ति, शरीरं च दृश्यम् । अतः शरीरे बाल्याद्यवस्थानुगुणं यत् परिवर्तनं भवति, तत् परिवर्तनं शरीरिणि न भवति ।

'तथा देहान्तरप्राप्तिः' – यथा शरीरादीनां कुमारादयः अवस्थाः भवन्ति, तथैव देहान्तरस्यापि अर्थात् अन्यस्य शरीरस्यापि भवति । यथा स्थूलशरीरं बाल्यात् युवा, युवतः वृद्धं भवति, तदा तेन परिवर्तनेन कोऽपि शोकः न भवति । तथैव शरीरिणः एकस्मात् शरीरात् अपरशरीरगमनं भवति । अतः तस्मिन् विषये शोकः न करणीयः । यथा स्थूलशरीरस्य कुमाराद्यवस्थाः भवन्ति, तथैव सूक्ष्मकारणशरीरयोः अपि देहान्तरस्य प्राप्तिः भवति । अर्थात् यथा कुमाराद्यवस्थाः स्थूलशरीरस्य अवस्थाः सन्ति, तथैव देहान्तरप्राप्तिः (मृत्योत्तरम् अन्यशरीरधारणम्) सूक्ष्मकारणशरीरयोः अवस्था अस्ति ।

स्थूलशरीरे परिवर्तने सति कुमाराद्यवस्थाः भवन्ति इति तु स्थूलदृष्टिः अस्ति । सूक्ष्मदृष्ट्या पश्यामः चेत्, अवस्थानुगुणं स्थूलशरीरेऽपि परिवर्तनं भवति । बाल्यावस्थायाः शरीरं युवावस्थायां नासीत् । वास्तव्येन जीवने एकमपि क्षणं न भवति, यस्मिन् स्थूलशरीरे परिवर्तनं न भवति । तथैव सूक्ष्मकारणशरीरयोः अपि प्रतिक्षणं परिवर्तनं भवति । तत् परिवर्तनं देहान्तररूपेण स्पष्टतया द्रष्टुं शक्नुमः । देहान्तरस्य प्राप्त्योत्तरं तु स्थूलशरीरस्य त्यागः भवति । परन्तु मुक्तेः पूर्वं सूक्ष्मकारणशरीरयोः त्यागः न भवति । यावता मुक्तिः न भवति, तावता सूक्ष्मकारणशरीरयोः सम्बन्धः निरन्तरं चलति ।

अत्र चिन्तनीयम् अस्ति यत्, स्थूलशरीरस्य तु ज्ञानम् अस्माकं पार्श्वे अस्ति, परन्तु सूक्ष्मकारणशरीरयोः ज्ञानं नास्ति । अतः सूक्ष्मकारणशरीरयोः ज्ञानाभावे तयोः शरीरयोः जातस्य परिवर्तनस्य ज्ञानं कथं भवितुम् अर्हति ? उत्तरम् अस्ति यत्, यथा स्थूलशरीरस्य ज्ञानं शरीरावस्थानुगुणं भवति, तथैव सूक्ष्मकारणशरीरयोः अवस्थानुगुणं तयोः ज्ञानं भवति । स्थूलशरीरस्य "जागृतावस्था", सूक्ष्मशरीरस्य "स्वप्नावस्था", कारणशरीरस्य "सुषुप्त्यवस्था" च मन्यते ।

मनुष्यः स्वप्नकाले बाल्यावस्थायां, युवावस्थायां, वृद्धावस्थायां च स्वं क्रमेण बालकत्वेन, युवत्वेन, वृद्धत्वेन च पश्यति । तेन सिद्ध्यति यत्, स्थूलशरीरेण सह सूक्ष्मशरीरस्यापि परिवर्तनं जायते इति । तथैव सुषुप्त्यवस्था बाल्यकाले अधिका, युवावस्थायां स्वल्पा, वृद्धावस्थायां अतिस्वल्पा च भवति । एवं कारणशरीरस्यापि परिवर्तनं सिद्ध्यति ।

बाल्यावस्थायां, युववस्थायां च निद्रोत्तरं यथा उल्लासः अनुभूयते, तथैव वृद्धावस्थायां निद्रोत्तरं न भवति । अर्थात् वृद्धावस्थायां बाल्ययुवावस्थावत् विश्रामो न प्राप्यते । एवं कारणशरीरस्य परिवर्तनं भवति । यः देवपशुपक्षीत्यादीनां शरीरे अस्ति, सः शरीरे देहाध्यासत्वात् "अहमेषः" इति अनुभवति । अर्थात् सूक्ष्मशरीरस्य परिवर्तनं जातम् अस्ति । तथैव कारणशरीरे स्वभावः भवति । सः स्वभावः स्थूलदृष्ट्या मनुष्यस्य प्रकृतिः इति प्रसिद्धः । सा प्रकृतिः देवपश्वादिनां भिन्ना भिन्ना भवति । एवं कारणशरीरस्यापि परिवर्तनं भवति ।

यदि शरिरिणि परिवर्तनम् अभविष्यत्, तर्हि अवस्थानुगुणं "स एवाहम्" [] इति ज्ञानम् अभविष्यत् । परन्तु अवस्थासु परिवर्तने सत्यपि "बाल्ययुवावस्थाययोः यः अहम् आसम्, स एवाहम्" इति ज्ञानं भवति । तेन सिद्ध्यति यत्, शरीरिणि परिवर्तनं न जातम् इति । अत्र शङ्का भवति यत्, यदा स्थूलशरीरस्य अवस्थाः परिवर्तन्ते, तदा परिवर्तनस्य ज्ञानं भवति । परन्तु शरीरान्तरप्राप्तौ सति पूर्वशरीरस्य ज्ञानं किमर्थं न भवति ? इति । पूर्वशरीरस्य ज्ञानाभावस्य कारणम् अस्ति यत्, मृत्योः, जन्मनः च काले अतीव कष्टं भवति । तस्य कष्टस्य कारणेन पूर्वजन्मनः सर्वाः स्मृतयः नष्टाः भवन्ति । यथा पक्षाघाते, वार्धक्याधिक्ये च सति बुद्धौ पूर्ववत् ज्ञानं न भवति, तथैव मृत्योः समये, जन्मनः समये च अतीव भीषणे आघाते सति पूर्वजन्मनः ज्ञानं न भवति [] । परन्तु यस्य मरणे तावान् भीषणः आघातः न भवति, तस्य बुद्धौ पूर्वजन्मनः स्मृतिः अवशिष्यते । यः मनुष्यः सहसा मृत्युं प्राप्य सहसा कुत्रचित् जन्म धरते, तस्य पूर्वजन्माभ्यासः उत संस्काराः किञ्चित् कालं यावत् अभ्यग्राः (fresh) भवन्ति । तस्मात् कारणात् सः मनुष्यः पूर्वजन्मनः ज्ञानाभ्यासयुक्तः सन् जन्म प्राप्नोति । अतः सः जातिस्मरः उच्यते । ततः सः यथा यथा वृद्धिङ्गच्छति, तथा तथा स्वप्नसदृशा पूर्वस्तना स्मृतिः नष्टा भवति । []

अत्र चिन्तनीयः विषयः अस्ति यत्, यथा अवस्थान्तरप्राप्तौ ज्ञानं भवति, तथैव देहान्तरप्राप्तौ न भवति । परन्तु "अहमस्मि" इति स्वसत्तायाः ज्ञानं तु सर्वदा भवति । यथा सुषुप्त्यवस्थायां स्वस्य किञ्चित् मात्रम् अपि ज्ञानं न भवति, परन्तु जागृते सति मनुष्यः कथयति यत्, "अहं तु सुषुप्त्यवस्थायाम् आसम् । अहं किमपि ज्ञातुं न शक्तवान्" इति । अत्र किमपि ज्ञातुं न शक्तवान् इत्यस्य ज्ञानं तु अस्त्येव । निद्रायाः पूर्वं यः आसम्, स एव जागृते सति अस्मि इति सत्तायाः अखण्डं ज्ञानं तु निरन्तरं भवति । स्वसत्तायाः अभावं कदापि कोऽपि नानुभवति । शरीरधारिणः सत्तायाः सद्भावः अखण्डतया तिष्ठति, तस्मिन् काले एव मुक्तिः भवति । एवं सः मुक्तावस्थायां तिष्ठति । जीवनमुक्तावस्थायां, शरीरान्तरावस्थायां च ज्ञानं तु न भवति, परन्तु "अहं त्रिभिः शरीरैः भिन्नः" इति ज्ञानं तु भवत्येव ।

'धीरस्तत्र न मुह्यति' – सदसतोः ज्ञाता एव धीरः । तादृशः धीरः मनुष्यः विषयेभ्यः कदापि न मुह्यति । सः कदापि सन्देही न भवति । सः धीरः मनुष्यः देहान्तरप्राप्तिं करोति इति नास्ति । उच्चनीचयोनिषु जन्मनः कारणं गुणसङ्गः अस्ति । गुणेभ्यः सम्बन्धविच्छेदे सति धीरः मनुष्यः देहान्तरप्राप्तिं कर्तुं न शक्नोति । "तत्र" इत्यस्य पदस्यार्थः "देहान्तरप्राप्तिविषये" इति न भवति, अपि तु "देहदिहिनोः विषये" इति भवति । तात्पर्यम् अस्ति यत्, शरीरं किं ? शरीरी कः ? परिवर्तनशीलः कः ? अपरिवर्तनशीलः कः ? अनित्यः कः ? नित्यः कः ? असद् किम् ? सत् किम् ? विकारी कः ? अविकारी कः ? इत्येतेषु विषयेषु सः धीरः मोहितः न भवति । देहदिहिनोः भेदं सः सर्वथा अवगच्छति । एतस्मिन् विषये कदापि तस्मिन् मोहः नोत्पद्यते । स्वस्य अखण्डतायाः ज्ञानं तस्मिन् दृढं भवति ।

भाष्यार्थः

[सम्पादयतु]

देहः अस्य अस्ति इति देही, तस्य देहिनः (आत्मनः) एतस्मिन् वर्तमाने शरीरे बाल्यादयः परस्परविलक्षणाः अवस्थाः भवन्ति । तासु अवस्थासु एकस्याः अवस्थायाः नाशे सति आत्मा नश्यति । अपरस्याः अवस्थायाः उत्पत्तौ आत्मा न जायते । तर्हि किं भवति ? चेत्, यथा निर्विकारी आत्मा एव द्वितीयां, तृतीयां च अवस्थां प्राप्नोति इति आभासः भवति, तथैव निर्विकारी आत्मा देहान्तरं प्राप्नोति । एतत् ज्ञानं प्राप्य धीरपुरुषः मोहितः न भवति ।

भाष्यार्थः

[सम्पादयतु]

एकस्मिन् शरीरे विद्यमानः जीवात्मा यदा कुमारावस्थां त्यक्त्वा यौवनाद्यवस्थां प्राप्नोति, तदा आत्मा (पूर्वं यथा आसीत्, तथैव तिष्ठति) स्थिरः भवति । एतत् ज्ञानं यस्य पार्श्वे अस्ति, तादृशः मनुष्यः मोहितः सन् "आत्मा नष्टः" इति शोकं न करोति । तथैव एकस्मात् शरीरात् अपरं शरीरं प्रति गतः आत्मा अपि स्थिरः भवति इति ज्ञाता न शोकङ्गच्छति । आत्मा नित्यः अत एव शोकस्य विषयः नास्ति ।

जीवात्मा नित्ये सत्यपि अनादिजन्मनां कर्मणाम् अधीनः अस्ति । अतः कर्मणाम् अनुसारं शरीरसम्बन्धः अस्ति । तस्य तावदेव कर्तव्यम् अस्ति यत्, सः बन्धननिवृत्त्यै शरीरैः स्ववर्णोचितं कर्म फलाभिलाषी अभूत्वा कुर्वन् भवेत् । एवञ्च इन्द्रियजनितानि, विषयसंयोगजनितानि च यानि शीतोष्णादिजनितानि सुखदुःखानि सन्ति, तानि अनिवार्यत्वेन स्वीकृत्य स्ववर्णोचितकर्मणः परिसमाप्तिपर्यन्तं सहनं कुर्यात् ।

  1. एतत् ज्ञानं शास्त्रेषु प्रत्यभिज्ञा इति प्रसिद्धम् । उक्तं च -
    तत्तेदन्तावगाहि ज्ञानं प्रत्यभिज्ञा
  2. म्रियते रुदतां स्वानामुरुवेदनयास्तधीः, श्रीमद्भागवत्महापुराणम्, ३/३०/१८
  3. ये मृताः सहसा जायन्ते सहसा पूनः ।
    तेषां पौराणिकोऽभ्यासः कञ्चित् कालां हि तिष्ठति ।।
    तस्माज्जातिस्मरा लोके जायन्ते बोधसंयुताः ।
    तेषां विवर्धतां संज्ञा स्वप्नवत् सा प्रणश्यति ।। महाभारतम्, अनुशासनपर्व, १४५