सदस्यः:बालमुकुन्दः दवे/प्रयोगपृष्ठम्/1

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

एवमुक्त्वा हृषीकेशम् () इत्यनेन श्लोकेन सञ्जयः अर्जुनस्य योद्धोपरामस्य निर्णयं धृतराष्ट्रं श्रावयति । पूर्वस्मिन् श्लोके स्वयुद्धोपरामस्य विषये स्पष्टतां कृत्वा अर्जुनः श्रीकृष्णस्य शिष्यः अभवत् । तस्य वचनानि धृतराष्ट्रं श्रावयन् सञ्जयः अत्र अर्जुनस्य स्थितिं वर्णयति । सः कथयति यत्, हे शत्रुतापन धृतराष्ट्र ! एवम् उक्त्वा निद्राजितः अर्जुनः अन्तर्यामिनः भगवतः गोविन्दस्य सम्मुखं "अहं न योत्स्यामि" इति स्पष्टम् उक्त्वा तूष्णी अभवत् इति ।

भवार्थः[सम्पादयतु]

'एवमुक्त्वा हृषीकेशम्...बभूव ह' – अर्जुनः स्वस्य श्रीकृष्णस्य च पक्षम् उपास्थापयत् । तस्य पक्षस्योपरि विचारं कृत्वा तेन निर्णयः कृतः यत्, युद्धेन अधिकाधिकं राज्यं प्राप्यस्यामि, सम्माननं, यशः च प्राप्स्यामि, परन्तु हृदये मे उद्भूतः शोकः तु न शान्तः भविष्यति । अतः अर्जुनः अयुद्धस्य निर्णयं करोति । यद्यपि अर्जुनः श्रीकृष्णस्य कथनस्य आदरं कुर्वन् तेन उक्तं कर्तुम् अपि इच्छति, तथापि तस्य मनसि युद्धस्य विषये आन्तर्द्वन्द्वः अस्ति । अतः अर्जुनः स्वमनसि स्थितं दृढभावमेव स्पष्टतया "अहं युद्धं न करिष्ये" इति भगवन्तं कथयति । एवं स्पष्टतया स्वनिर्णयस्य श्रीकृष्णस्य सम्मुखम् उपस्थापनं कृत्वा अर्जुनस्य पार्श्वे किमपि अधिकं वक्तुं नासीत् । अतः सः तूष्णी अभवत् ।