सदस्यः:मणिलालः भरवाड/प्रयोगपृष्ठम्/1

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

न चैतद्विद्मः कतरन्नो गरीयो () इत्यनेन श्लोकेन अर्जुनः युद्धात् उपरामस्य निर्णयं प्रति सन्दिग्धः भवति । अस्याध्यायस्य द्वितीये, तृतीये च श्लोकयोः श्रीकृष्णेन उक्तानि वचनानि अर्जुनस्य उपरि अत्यन्तं प्रभावम् अकुर्वन् । अतः पूर्वस्मिन् श्लोके सासांरिकभोगान् भोक्तुं नेच्छामि इत्यनेन वचनेन भगवतः वचनैः सह सामञ्जस्यं स्थापयितुं प्रयत्नं कृत्वा अत्रार्जुनः युद्धोपरामस्य निर्णयं प्रति सन्देहं प्रकटयति । सः वदति यत्, युद्धायुद्धयोः किम् अस्मभ्यम् उचितम् इत्यपि वयं न जानीमः । वयं जीविष्यामः उत मरिष्यामः इत्यपि वयं न जानीमश्च । यान् मारयित्वा अहं जीवनमपि नेच्छामः, ते धृतराष्ट्रपुत्रा एव अस्माकं सम्मुखे सन्ति इति ।

भवार्थः[सम्पादयतु]

'न चैतद्विद्मः कतरन्नो गरीयः' – अहं युद्धं करवाणि उत न इति निर्णयेऽप्यहम् असमर्थः । किञ्च भवतः दृष्ट्या युद्धम् एव उचितम् उत्तमं वास्ति । परन्तु मे दृष्ट्या गुरुजनानां हत्या महद् पापम् अस्ति । अतः अयुद्धम् एव मह्यम् उत्तमम् अस्ति । एवम् उभयोः पक्षयोः मह्यं किं श्रेष्ठम् अस्ति इत्यहम् अवगन्तुम् असमर्थः । एवम् उक्त्वा अर्जुनस्य मनसि ईश्वरस्य, स्वस्य च पक्षौ विरुद्धौ परन्तु समकक्षौ अभवताम् ।

'यद्वा जयेम यदि वा नो जयेयुः' – यदि भवतः आज्ञानुसारं युद्धं कुर्मः, तर्हि वयं जेष्यामः ते वा जेष्यन्ति इत्यपि वयं न जानीमः । अत्र अर्जुनः स्वबलं प्रति सन्देहं न प्रदर्शयति, अपि तु भविष्यं प्रति स्वस्य अविश्वासं प्रकटयति । किञ्च भविष्यस्य गर्भे किं निहितम् अस्ति इत्यस्य विषये वक्तुं कोऽपि न समर्थः ।

'यानेव हत्वा न जिजीविषामः' – वयं तु कुटुम्बकानां हननोत्तरं जीवनस्य कल्पनाम् अपि न कुर्मः । अतः राज्योपभोगस्य तु तत्र स्थानमेव नास्ति । यतो हि अस्माकं कुटुम्बिनः मरिष्यन्ति चेत्, वयं जीवयित्वा किं करिष्यामः ? स्वहस्तैः कुटुम्बकानां हत्यायाः चिन्तां, शोकं चैव करिष्यामः । चिन्तायां, शोके, वियोगे च दुःखमयस्य जीवनस्य इच्छां वयं न कर्मः ।

'तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः' – वयं यान् मारयित्वा जीवनमपि नेच्छामः, ते एव धृतराष्ट्रपुत्राः, अस्माकं सम्बन्धिनश्च अस्माकं सम्मुखं युद्धाय उपस्थिताः सन्ति । तेषां वधम् अस्माकं जीवनस्य कृते धिक्कारः अस्ति ।