सदस्यः:मुकेशभाई राज्यगुरु/प्रयोगपृष्ठम्/2

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

इन्द्र कुमार गुजराल भारतस्य द्वादशः प्रधानमन्त्री आसीत् । सः ई. स. १९९७ तमवर्षस्य अप्रैल-मासस्य २१ दिनाङ्के (२१ अप्रैल १९९७) तः ई. स. १९९८ तमवर्षस्य मार्च-मासस्य १९ दिनाङ्कपर्यन्तं (१९ मार्च १९९८) भारतस्य प्रधानमन्त्रित्वेन कार्यं कृतवान् आसीत् । “एच् डी देवे गोडा” इत्याख्यस्य प्रधानमन्त्रिपदात् त्यागनन्तरं “इन्द्र कुमार गुजराल” प्रधानमन्त्री अभवत् । “इन्द्र कुमार गुजराल” प्रायः दशमासाः यावत् प्रधानमन्त्रित्वेन कार्यम् अवहत् [१]। अयं जनतादलस्य नेता आसीत् ।

जन्म, परिवारश्च[सम्पादयतु]

“इन्द्र कुमार गुजराल” इत्याख्यस्य जन्म ई. स. १९१९ तमस्य वर्षस्य दिसम्बर-मासस्य ४ दिनाङ्के (४ दिसम्बर १९१९) ब्रिटिश-कालस्य पञ्जाब-राज्यस्य झेलम-नगरे अभवत् । साम्प्रतम् इदं नगरं पाकिस्तान-देशे स्थितम् अस्ति । तस्य पितुः नाम “अवतार नारायण गुजराल”, मातुः च नाम “पुष्पा गुजराल” च आसीत् । “सतीश गुजराल” इत्याख्यः इन्द्रस्य अनुजः आसीत् । सतीशः प्रसिद्धः चित्रकारः, वास्तुकारश्च अस्ति ।

शिक्षणम्[सम्पादयतु]

इन्द्रेण डी ए वी महाविद्यालये, कॉलेज् ऑफ् कॉमर्स्, क्रिश्चियन्-महाविद्याले इत्यादिषु महाविद्यालयेषु अध्ययनं कृतम् आसीत् । सः वाणिज्यशास्त्रे स्नातकपदवीं, कलाक्षेत्रे अनुस्नातकपदवीं, विद्यावारिधिपदवीं, विद्यावाचस्पतिपदवीं च प्राप्तवान् । सः उर्दू-भाषाम् अपि जानाति स्म । सः धाराप्रवाहेण उर्दु-भाषायां वार्तालापं कर्तुं शक्नोति स्म । तेन उर्दू-भाषायाम् अपि काव्यं लिखितम् आसीत् ।

विवाहः[सम्पादयतु]

“इन्द्र कुमार गुजराल” इत्याख्यस्य विवाहः ई. स. १९४६ तमवर्षस्य मई-मासस्य २६ तमदिनाङ्के (२६ मई १९४६) अभवत् । तस्य पत्न्याः नाम शीलादेवी इति । सा श्रेष्ठा कवयित्री आसीत् । तस्य द्वौ पुत्रौ स्तः । नरेशः, विशालश्च । तस्य द्वे पौत्र्यौ अपि स्तः । ते – दीक्षा, दिव्या इति । “अनिध्यः” नामकः एकः पौत्रः अपि अस्ति ।

मृत्युः[सम्पादयतु]

“इन्द्र कुमार गुजराल” बहुदिनानि यावत् रुग्णः आसीत् । सः व्याश्लेषणे (Dialysis) आसीत् । अननरं ई. स. २०१२ तमवर्षस्य नवम्बर-मासस्य १९ तमे (१९ नवम्बर २०१२) दिनाङ्के तस्य वक्षस्थले सङ्क्रमणम् अभवत् । अतः तत्कालमेव सः हरियाणा-राज्यस्य गुडगांव-नगरस्य मेदान्ता-चिकित्सालये उपचारार्थम् आनीतः । उपचारे सति अपि तस्य स्थितिः समीचिना नासीत् । तदा सः अचेतनं प्रापत् । अन्ततो गत्वा ई. स. २०१२ तमस्य वर्षस्य नवम्बर-मासस्य ३० तमे दिनाङ्के (३० नवम्बर २०१२) इन्द्रस्य मृत्युः अभवत् । तस्य मृत्योः सन्देशं प्राप्ते सति लोकसभा, राज्यसभा च स्थगिता । सम्पूर्णे भारते राष्ट्रियशोकः उद्घोषितः । “इन्द्र कुमार गुजराल” इत्याख्यस्य पार्थिवं शरीरं दर्शनार्थं तस्य आवासं प्रति आनीतम् । ई. स. २०१२ तमवर्षस्य दिसम्बर-मासस्य १ दिनाङ्के (१ दिसम्बर २०१२ ) तस्य अन्त्येष्टिसमये भारतस्य राष्ट्रपतिः “प्रणव मुखर्जि”, भूतपूर्वप्रधानमन्त्री “मनमोहन सिंह”, कॉङ्ग्रेपक्षस्य अध्यक्षः “सोनिया गान्धी”, भारतीयजनतापक्षस्य वरिष्टनेता “लालकृष्ण आडवाणी”, “अरुण जेटली” इत्यादयः बहवः प्रसिद्धजनाः सम्मिलिताः आसन् ।

  1. भारत के प्रधानमंत्री, पृ. १४६-१४७