सदस्यः:राकेशः जोषी/प्रयोगपृष्ठम्/1

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मात्रास्पर्शास्तु कौन्तेय () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः शोकनिवृत्तेः उपायं वदति । पूर्वस्मिन् श्लोके भगवान् आत्मनः निर्विकारितायाः नित्यतायाः च उपस्थापनम् अकरोत् । अत्र अनित्यवस्तुत्वात् शोकः भवति, तस्मात् शोकात् निवृत्तिः कथं भवति इति कथयति । सः वदति यत्, हे कुन्तीनन्दन ! इन्द्रियाणां ये विषयाः (जडपदार्थाः) सन्ति, ते तु अनुकूलताप्रतिकूलताभ्यां सुखदुःखयोः कारणं भवन्ति । ते विषयाः तु अनित्याः भवन्ति । हे भरतवंशोद्भूत अर्जुन ! तान् विषयान् सहस्व इति ।

भावार्थः[सम्पादयतु]

अत्र शङ्का भवति यत्, एकादशतः त्रयोदशश्लोकपर्यन्तं देहदेहिनोः विषयः अस्ति । षोडशतः त्रिंशत्तमश्लोकपर्यन्तम् अपि देहदेहिनोः विषयः अस्ति । तर्हि मध्ये चतुर्दशपञ्चदशश्लोकयोः "मात्रास्पर्श"स्य विषयः कथम् आगतः ? देहदेहिनोः विषयात् स विषयः पूर्णतया भिन्नः दरीदृश्यते खलु ? इति । समाधानम् अस्ति यत्, द्वादशे श्लोके यथा भगवान् सर्वेषां जीवानां नित्यस्वरूपं प्रदर्शयितुं "कस्मिंश्चित् समये अहं नासम् एवं नास्ति" इत्यादिभिः विचनैः स्वम् उदाहरणत्वेन उपास्थापयत्, तथैव अत्र शरीरादिपदार्थान् अनित्यान् प्रदर्शयितुं "मात्रास्पर्श"स्य चर्चां करोति । नित्यतत्त्वेभ्यः अनित्यतत्त्वान् भिन्नं प्रदर्शयितुम् अत्र "तु" इत्यस्य पदस्य उपयोगः अभवत् ।

'मात्रास्पर्शाः' - येन ज्ञानं भवति, तस्य साधनस्य नाम "मात्रा" इति । सम्मुखोपस्थितस्य विषयस्य ज्ञानम् इन्द्रियैः, अन्तःकरणेन च भवति । अतः इन्द्रियान्तःकरणस्य नाम "मात्रा" भवति । मात्राभिः (इन्द्रियान्तःकरणैः) सह संयोगस्य नाम "स्पर्शः" । अतः इन्द्रियान्तःकरणैः यस्य ज्ञानं भवति, तादृशाः जगतः सर्वे पदार्थाः "मात्रास्पर्शाः" सिद्ध्यन्ति । अत्र "मात्रास्पर्शाः" इत्यनेन पदेन केवलं पदार्थाः एव किमर्थं ग्रहणीयाः ? तेषां पदार्थानां सम्बन्धाः किमर्थं न ? इत्यस्य प्रश्नस्य उत्तरम् अस्ति यत्, यदि अत्र "मात्रास्पर्शाः" इत्यनेन पदेन केवलं पदार्थानां सम्बन्धं गृह्णीमः, तर्हि ते सम्बन्धाः "आगमापायिनः" न परिगण्यन्ते । किञ्च सम्बन्धनस्य स्वीकृतिः न केवलम् अन्तःकरणे, अपि तु स्वस्मिन् भवति । स्वयं तु नित्यः अस्ति । एवं स्वस्मिन् यत् स्वीकृतं भवति, तदपि नित्यवत् परिगण्यते । स्वयं यावता तां स्वीकृतिं न परित्यजति, तावता सा स्वीकृतिः निरन्तरा भवति । अर्थात् पदार्थानां वियोगे सत्यपि पदार्थैः सह सम्बन्धविच्छेदः न भवति । सः मन्यमानः सम्बन्धः केवलम् अस्वीकृत्योत्तरम् एव नश्यति । अर्थात् ते सम्बन्धाः मम न सन्ति इति ज्ञाने सति सम्बन्धाः नङ्क्ष्यन्ति । स्वरूपे तु सम्बन्धाः न सन्त्येव । परन्तु मन्यमानानां सम्बन्धानाम् अस्वीकृतिं विना सर्वेऽपि त्यागाः, सर्वाणि तपांसि, परिवर्तनानि च विफलानि भवन्ति । यथा काचित् विधवा अस्ति । विधवाजीवने पञ्चाशदधिकानि वर्षाणि यापिते सत्यपि यदा कोऽपि कथयति यत्, एषा स्त्री तस्य पुरुषस्य विधवा अस्ति इति, तदा स्त्रियाः मनसि पतिं प्रति मन्यमानः सम्बन्धः अविच्छन्नः एव भवति । एतया दृष्ट्या सम्बन्धाः आगमापायित्वेन अङ्गीकर्तुं न शक्यन्ते । अत एवात्र "मात्रास्पर्शाः" इत्यनेन पदेन केलवं पदार्थाः अङ्गीभवन्ति, न तु पदार्थसम्बन्धाः ।

'शीतोष्णसुखदुःखदाः' – अत्र शीतम्, उष्णं च क्रमेण अनुकूलतायाः, प्रतिकूलतायाः च वाचकम् । यदि तयोः पदयोः शैत्यम्, औष्ण्यम् इति कुर्मः, तर्हि केवलं त्वगिन्द्रियस्य विषयाः एव स्वीकर्तव्याः भवन्ति । तत्तु एकदेशीयमेव भवति । अतः "शीतम्" इत्यस्यार्थः अनुकूलता, "उष्णम्" इत्यस्यार्थः प्रतिकूलता इति योग्यः । केवलं पदार्थाः अनुकूलताप्रतिकूलताभ्यां सुखदुःखदाः सन्ति । अर्थात् यद् वयं इच्छामः, तद् सर्वं वस्तु-व्यक्ति-परिस्थिति-घटना-स्थल-कालादि अनुकूलतां जनयति । परन्तु तत्सर्वं यदि इच्छावरुद्धं सम्प्राप्नोमः, तर्हि तत्सर्वं प्रतिकूलताम् अपि जनयति । एवं सुखं, दुःखं च भवति । वास्तव्येन न केषुचित् पदार्थेषु सुखदुःखं दातुं सामर्थ्यं न भवति । मनुष्याः तैः पदार्थैः सह तादात्म्यं संस्थाप्य अनुकूलां, प्रतिकूलां च भावानाम् अङ्गीकुर्वन्ति । तेन पदार्थाः सुखदाः उत दुःखदाः इति आभास्यते । अतः भगवान् अत्र "सुखदुःखदाः" इति अवदत् ।

'आगमापायिनः' – पदार्थाः केवलम् आद्यन्तयुक्ताः, विनाशशीलाः च भवन्ति । ते स्थायिनः न भवन्ति । यतः तेषाम् उत्पत्तेः प्राग् ते नासन्, विनाशोत्तरं च ते न भविष्यन्ति । अतः अत्र "आगमापायी" इत्यस्य शब्दस्य उपयोगः कृतः ।

"अनित्याः" – भवत्वहम् उत्पत्तेः प्राग्, विनाशोत्तरं च न भवेयं, परन्तु मध्ये तु अहं भवेयमेव इति कोऽपि तर्कयति चेत्, भगवान् कथयति यत्, अनित्यत्वात् मध्येऽपि कोऽपि न तिष्ठति । तेऽपि प्रतिक्षणं परिवर्तनशीलाः भवन्ति । तेषु परिवर्तनस्य वेगः तावान् तीव्रो भवति यत्, कञ्चन जनम् अपरिवर्तितं द्रष्टुं न कोऽपि शक्नोति इति । अर्थात् यद्यपि प्रथमः पुरुषः सततम् अपरं जनं पश्यन् भवति, तथापि प्रप्रथमवारम् अपरः जनः यादृशः आसीत्, तादृशः द्वितीये क्षणे न भवति । यतो हि तस्य अपरस्य जनस्य शरीरे किमपि परिवर्तनं जातं स्यादेव । अतः भगवान् तान् "अनित्याः" इति अकथयत् ।

केवलं ते पदार्थाः एव अनित्याः इति नास्ति, अपि तु पदार्थग्राहीणि इन्द्रियाणि, अन्तःकरणञ्च परिवर्तनशीलम् अस्ति । तयोः जातं परिवर्तनं कथं ज्ञातुं शक्नुमः ? दिवसे कार्यं कुर्वन् सायं पर्यन्तम् इन्द्रियादीनि क्लानानि भवन्ति, तथा च रात्रौ तृप्त्यनुसारं निद्रायां सत्यां प्रातःकाले स्फूर्तियुक्तानि भवन्ति । जागृतावस्थायां प्रतिक्षणं क्लान्तता वर्धते, निद्रावस्थायां प्रतिक्षणं स्फूर्तिः वर्धते च । एवम् इन्द्रियादिषु प्रतिक्षणं परिवर्तनं भवति इति सिद्ध्यति ।

अत्र पदार्थाः स्थूलरूपेण, सूक्ष्मरूपेण च क्रमेण "आगमापायिनः", "अनित्याः" इति उक्ताः । एते पदार्थाः अनित्यादपि सूक्ष्माः इति दर्शयितुम् अग्रे पदार्थेभ्यः "असत्" इत्यस्य पदस्य उपयोगः भविष्यति । पूर्वं ये पदार्थाः नित्याः उक्ताः, तेभ्यः "सत्" इत्यस्य पदस्य उपयोगः भविष्यति ।

'तांस्तितिक्षस्व' – इन्द्रियविषयाणां सम्मुखं गत्वा यदि प्रतिकूलतायाः, अनुकूलतायाः च ज्ञानं भवति, तर्हि तत् दोषपूर्णम् अस्ति । प्रत्युत इन्द्रियविषयम् उद्दिश्य अन्तःकरणे रागद्वेषौ, हर्षशोकौ इत्यादयः विकाराः उत्पद्यन्ते । ते विकाराः एव दोषयुक्ताः भवन्ति । अतः अनुकूलप्रतिकूलतायाः ज्ञाने सत्यपि रागद्वेषादयः विकाराः नोत्पद्येयुः इति प्रयत्नः करणीयः । अर्थात् इन्द्रियविषयेषु उपस्थितेषु सत्सु निर्विकारी भूत्वा ते विकाराः सोढनीयाः । अतः भगवान् "तितिक्षस्व" इत्यस्य पदस्य उपयोगं करोति । एवमपि मन्यते यत्, शरीरेन्द्रियान्तःकरणादीनां क्रियानाम्, अवस्थानां च आरम्भान्तौ, भावाभावौ च भिन्नौ भवतः । ताः क्रियाः, ताः अवस्थाः च भवति न सन्ति । यतो हि भवान् इन्द्रियविषयेभ्यः स्वस्य भिन्नत्वम् अवगच्छति । अतः भवति किमपि परिवर्तनं न भवति । सा निर्विकारिता एव तितिक्षा उच्यते ।

भाष्यार्थः[सम्पादयतु]

"आत्मा नित्यः" इत्यस्य ज्ञातारि आत्मविनाशनिमित्तकः मोहः यद्यपि असम्भः, तथापि शीतोष्णजनितः (सुखदुःखजनितः) लौकिकमोहः, सुखवियोगनिमित्तकः, दुःखसंयोगनिमित्तकः च शोकः तु तस्मिन् ज्ञातरि दरीदृश्यते एव इति अर्जुनस्य वचनेषु आशङ्कां दृष्ट्वा भगवान् अवदत् –

मात्रा अर्थात् शब्दादिविषयाः येन माध्यमेन ज्ञायन्ते । श्रोत्रादीन्द्रियाणि, इन्द्रियस्पर्शाः (शब्दादिविषयाणां माध्यमैः सह संयोगः) च । इन्द्रियेन्द्रियस्पर्शाः शीतोष्णदाः (सुखदुःखदाः) । अथवा येषां स्पर्शः जायते, ते स्पर्शाः अर्थात् शब्दादिविषयाः । इत्यनया व्यत्पत्या अर्थः भवति यत्, मात्रा, स्पर्शाः च सुखदुःखदाः भवन्ति । तात्पर्यम् अस्ति यत्, श्रोत्रादीन्द्रियाणि, शब्दादिविषयाः च सुखदुःखदाः भवन्ति इति ।

शैत्यं कदाचित् सुखदं भवति, कदाचित् दुःखदञ्च । तथैव औष्ण्यस्यापि । परन्तु सुखदुःखयोः निश्चितरूपं भवति । यतः तेषु व्यभिचारः (परिवर्तनं) न भवति । अतः सुखदुःखेभ्यः भिन्नं शीतोष्णयोः ग्रहणम् अभवदत्र । एवं मात्रास्पर्शादयः उत्पत्तिविनाशशीलाः, अनित्याः च सन्ति इति निश्चितं कृतम् । अतः शीतोष्णादिकं त्वं तितिक्षस्व । अर्थात् शीतोष्णादिषु हर्षः, शोकः च मा कुरु इति ।

भाष्यार्थः[सम्पादयतु]

उपर्युक्तम् अभिप्रायमेव (भगवान्) अग्रिमे श्लोकेऽस्मिन् कथयति –

शब्दस्पर्शरूपरसगन्धाः पञ्च विषयाः स्वाधिष्ठानसहितं तन्मात्रायाः कार्यम् अस्ति । अतः ते विषयाः "मात्रा" इति सम्बोध्यन्ते । श्रोत्रादीन्द्रियैः सह तेषां विषयाणां संयोगः शीतोष्णमृदुकठोरादिरूपेण सुखदुःखं जनयति । अत्र शीतोष्णशब्दस्य उपलक्ष्याय अस्ति, अतः तेषु शस्त्रपातादिभिः जायमानानि सर्वविधानि सुखदुःखानि ग्रहणीयानि । तान् विषयान्, विषयेन्द्रियसंयोगान् च युद्धादिशास्त्रीयकर्मणां परिसमाप्तिपर्यन्तं त्वं धैर्येण तितिक्षस्व । ते आगमापायित्वात् धैर्यशीलपुरुषैः उपेक्षणीयाः (सोढनीयाः) । विषयाः, विषयेन्द्रियसंयोगाः च अनित्याः अपि । अर्थात् बन्धनहेतुभूतकर्मणां नाशे सति ते नष्टाः भवन्ति । ते आगमापायित्वात् स्वाभाविकतया नष्टाः भविष्यन्ति इत्यर्थः ।