सदस्यः:विश्वनाथः के जोषी/प्रयोगपृष्ठम्/2

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

चौधरी चरणसिंह ( /ˈ/) (हिन्दी: चौधरी चरणसिंह, आङ्ग्ल: Chaudhary Charansinh) भारतस्य पञ्चमः प्रधानमन्त्री आसीत् । सः कृषकाणां हिताय कार्याणि करोति स्म । अयं स्वतन्त्रभारतस्य सफलप्रधानमन्त्रिषु अन्यतमः अस्ति । अयं जनतापक्षस्य नेता आसीत् ।

जन्म परिवारश्च[सम्पादयतु]

“चौधरी चरणसिंह” इत्याख्यस्य जन्म १९०२ तमे वर्षे दिसम्बर-मासस्य २३ तमे दिनाङ्के (२३ दिसम्बर १९०२) उत्तरप्रदेशराज्यस्य मेरठमण्डलस्य नूरपुर-ग्रामे अभवत् । तस्य पितुः नाम चौधरी मीरसिंह अस्ति । जाट-परिवारे तस्य जन्म अभवत् । सम्पूर्णः परिवारः शिक्षितः आसीत् ।

बाल्यं, शिक्षणञ्च[सम्पादयतु]

शिवराज सिंह चौहान इत्याख्यस्य जन्म कृषकपरिवारे अभवत् । पुरा अस्य व्यवसायः अपि कृषिः एव आसीत् । राजनीतिक्षेत्रे अपि तस्य अभिरुचिः आसीत्, अतः विद्यार्थिकालादेव सः राजनीतिक्षेत्रेण सह संलग्नः अभवत् । चरणसिंहस्य परिवारः शिक्षितः आसीत् । अतः परिवारस्य प्रभावः अपि चरणसिंहस्योपरि जातः । शैक्षणिकवातावरणेन सः औत्सुक्येन अध्ययनं करोति स्म । नूरपुर-ग्रामे एव चरणसिंहस्य प्राथमिकशिक्षणम् अभवत् । अनन्तरम् उच्चशिक्षणाय मेरठ-नगरं गतवान् । तत्र सर्वकारेण प्रचालिते उच्चविद्यालये तेन अध्ययनं कृतम् । ई. स. १९२३ तमे वर्षे २१ वयसि तेन विज्ञान-विषये स्नातकपदवी प्राप्ता । वर्षद्वयानन्तरं चरणसिंहेन कलाविषये स्नातकोत्तरपदवी अपि प्राप्ता । तदनन्तरं तेन विधिविषये (Law) स्नातकपदवी प्राप्ता । अनन्तरं सः गाजियाबाद-नगरे अधिवक्तृत्वेन कार्यम् आरब्धम् ।

विवाहः[सम्पादयतु]

“चौधरी चरणसिंह” इत्याख्यस्य विवाहः १९२९ तमे वर्षे अभवत् । तस्य पत्न्याः नाम गायत्रीदेवी इति । गायत्रीदेव्याः परिवारजनाः रोहतक-मण्डलस्य गढी-ग्रामे निवसन्ति स्म । चरणसिंहस्य अजीतसिंहः नामधेयः एकः पुत्रः अस्ति । अजीतसिंहः अपि राजनीतिज्ञः अस्ति । सः भारतस्य प्रमुखराजनेतृषु अन्यतमः अस्ति ।

व्यक्तित्वम्[सम्पादयतु]

चरणसिंहः स्वभावेन कृषकः इव आसीत् । सः परिवेशे, निवासे इत्यादिषु कृषकः इव जीवति स्म । किन्तु सः स्वच्छतया जीवति स्म । सः कठोरप्रशासकत्वेन विख्यातः आसीत् । सः अधिकारिषु अनुशासनहीनतां, विलम्बं च न चालयति स्म । सः “हार्ड् टास्क् मास्टर्” इति रूपेण अपि विख्यातः आसीत् । सः समर्पितः लोकसेवकः आसीत् इति सत्यम् । सः श्रेष्ठः वक्ता अपि आसीत् । सः सभासु जनान् दीर्घकालं यावत् सम्मोहयति स्म । यदा तस्य यस्मिन् कार्ये विश्वासं भवति, तदा तत्कार्यम् दृढतया करोति स्म । चरणसिंहः यादृशः श्रेष्ठवक्ता आसीत्, तादृशः मनोविनोदे अपि प्रवीणः आसीत् । एकदा सः जनतापक्षस्य निर्वाचने प्रचाराय बिहार-राज्यं गतवान् आसीत् । तस्मिन् समये सः गृहमन्त्री आसीत् । अस्मिन् निर्वाचनप्रचारे चरणसिंहः बिहार-राज्यस्य नगरेषु अपि भ्रमणं कृतवान् । तदा भ्रमन् भ्रमन् सः गोपालकानां निवासक्षेत्रं प्राप्तवान् । तत्र निर्वाचनसभायां तेन भाषणं कृतम् । तस्यां सभायां सुरक्षादृष्ट्या रक्षकाः आसन् । बिहार-राज्ये जातिवादस्य प्रभावः अत्यधिकः अस्ति इति सर्वे जानन्ति एव । तस्य राज्यस्य राजनीतिः अपि जातिवादाधारिता भवति । तथापि तस्यां सभायां तेन स्वस्य भाषणेन जनाः प्रभाविताः जाताः । तेन उक्तं यत् – “यदि भवन्तः सर्वे जात्याधारेण मतानि ददति, तर्हि अहमपि उत्तरप्रदेश-राज्यस्य जाट-कुटुम्बेन सह सम्बद्धः अस्मि । अतः मे पक्षाय एव मतानि दद्युः । यतः भवन्तः मम जातिं पश्यन्तु, न तु पक्षस्य” । “समयस्य उचितोपयोगः कथं करणीयः” इति चरणसिंहः सम्यक्तया जानाति स्म । सः रिक्तसमये पुस्तकानि अपि पठति स्म । तेन स्वस्य जीवने कानिचन पुस्तकानि अपि लिखितानि सन्ति । “एबॉलिशन ऑफ् जमींदारी”, इण्डिया “स पॉवर्टी एण्ड् इट्स् सोल्यूशन्”. “लिजेण्ड् प्रोप्राइटरशिप्” च तेन लिखितानि पुस्तकानि सन्ति ।

कृषकप्रियः चरणसिंहः[सम्पादयतु]

संसद्सचिवत्वेन तेन विभिन्नविभागेषु योगदानानि प्रदत्तानि सन्ति । राजस्वविभागे, चिकित्साजनस्वास्थ्यविभागे, न्यायविभागे, सूचनाविभागे, कृषिविभागे च तस्य योगदानानि सन्ति । यावत् ई. स. १९६० तमे वर्षे “सी. बी. गुप्ता” इत्याख्यस्य सर्वकारे सः गृहविभागस्य, कृषिविभागस्य च दायित्वं प्राप्तं, तावद् चरणसिंहः कृषकाणां समस्यानां समाधानं करोति स्म । कृषकैः सः भगवद्रूपेण मन्यते स्म । यद्यपि ग्रामेषु कृषकाः एव भवन्ति । अतः चरणसिंहः निर्वाचनेषु सर्वदा विजयी भवति स्म । कृषकेभ्यः सः निष्कपटेन कार्याणि करोति स्म ।

राजनैतिकं जीवनम्[सम्पादयतु]

चरणसिंहस्य व्यक्तित्त्वं परोपकारमयम् आसीत् । सः कृषकाणाम् उन्नत्यर्थं कार्याणि करोति स्म । अतः राजनैतिकजीवने अपि तेन बहूनि कार्याणि कृषकाणां प्रोत्साहनार्थं कृतानि आसन् । यदा तस्य विवाहः जातः, तदा सः अधिवक्तृत्वेन गाजियाबाद-नगरे आसीत् । किन्तु स्वतन्त्रतायाः आन्दोलनेषु तस्य अभिरूचिः आसीत् । सः अपि भारतदेशाय किमपि कर्तुम् इच्छति स्म । अन्ततो गत्वा सः अधिवक्तुः वृत्तिं त्यक्त्वा आन्दोलने भागम् ऊढवान् । तस्मिन् समये कॉङ्ग्रेसपक्षः बृहत्तमः आसीत् । सः अपि कॉङ्ग्रेसपक्षस्य सदस्यतां प्राप्तवान् । कॉङ्ग्रेसपक्षे कुशलकार्यकर्तृत्वेन तस्य प्रतिबिम्बं निर्मितम् । सः सक्रियकार्यकर्तृत्वेन कार्यं कर्तुम् इच्छति स्म । पक्षस्य सदस्याः अपि चरणसिंहस्य कार्यैः प्रभाविताः जाताः । ई. स. १९३७ तमस्य वर्षस्य विधानसभायाः निर्वाचने चरणसिंह छत्रवाली-विधानसभाक्षेत्रे निर्वाचितः जातः । ई. स. १९४६ तमे वर्षे अपि तेन तस्य विधानसभाक्षेत्रस्य प्रतिनिधित्वं कृतम् । स्वतन्त्रताप्राप्त्यनन्तरम् ई. स. १९५२ तमे वर्षे, ई. स. १९६२ तमे वर्षे, ई. स. १९६७ तमे वर्षे चापि विधानसभायाः निर्वाचनेषु सः विजयी अभवत् । स्वकार्यैः तेन सर्वे नेतारः प्रभाविताः । अनन्तरं सः “गोविन्द वल्लभ पन्त” इत्याख्यस्य सर्वकारे “पार्लियामेण्ट्री सेक्रेटरी” इत्यस्मै पदाय नियुक्तः जातः । ई. स. १९५१ तमे वर्षे सः उत्तरप्रदेश-राज्यस्य “केबिनेट्-मन्त्रीपदाय” नियुक्तिं प्रापत् । तदा न्यायविभागः, सूचनाविभागः च तस्याधीनः आसीत् । सः न्यायविभागस्य, सूचनाविभागस्य च व्यवस्थां करोति स्म । किन्तु एतौ विभागौ तावद् महत्त्वपूर्णौ न आस्ताम्, यावत् अन्ये विभागाः आसन् । समयान्तरे ई. स. १९५२ तमे वर्षे डॉ. सम्पूर्णानन्दस्य मुख्यमन्त्रित्वकाले चरणसिंहस्य पदोन्नतिः जाता । तदा विभागद्वयस्य दायित्त्वं तस्मै प्रदत्तम् । राजस्वविभागस्य, कृषिविभागस्य च । चरणसिंहेन एतौ विभागौ रोचेते स्म । यतः प्रकृतित्वादेव अयं कृषकः एव आसीत् । कृषकाणां हितम् एव अस्य मुख्यः ध्येयः आसीत् । ई. स. १९५९ तमे वर्षे परिस्थितिवशात् तेन सम्पूर्णानन्दस्य सर्वकारः त्यक्तः । तस्मिन् समये सः यातायातविभागस्य, राजस्वविभागस्य च व्यवस्थां पश्यति स्म । किन्तु ई. स. १९६० तमे वर्षे “सी बी गुप्ता” इत्याख्यस्य मुख्यमन्त्रीत्वेन आगते सति चरणसिंहाय पुनः गृहविभागस्य, कृषिविभागस्य दायित्वं प्रदत्तम् । चरणसिंह उत्तरप्रदेश-सर्वकारस्य प्रसिद्धव्यक्तित्वेन आसीत् । उत्तरप्रदेशसर्वकारे तस्य महत्त्वपूर्णं स्थानम् आसीत् । तस्य सभासु बहवः श्रोतारः दृश्यन्ते स्म । इदमेव तस्य कार्यशैल्याः प्रमाणम् अस्ति । यदा “सुचेता कृपलानी” इत्याख्यायाः सर्वकारः निर्मितः, तदा पुनः चरणसिंहः सर्वकारात् निष्कासितः । किन्तु ई. स. १९६६ तमे वर्षे तस्मै मन्त्रिपदं प्रदत्तम् । तस्मिन् काले सः स्थानीयस्वशासनविभागस्य मन्त्रित्वेन पदारूढः आसीत् । ई. स. १९७० तमे वर्षे कॉङ्ग्रेसपक्षस्य विभागः जातः । ततः परं चरणसिंहः “कॉङ्ग्रेस (ओ)” अस्य पक्षस्य साहाय्येन उत्तरप्रदेश-राज्यस्य मुख्यमन्त्रित्वेन चितः । यतः विभक्तपक्षे तस्य समर्थकाः अपि बहवः आसन् । तथापि अधिकाकालं यावत् सः तस्मिन् पदे नासीत् । इन्दिरा-चरणसिंहयोः सम्बन्धः प्रागेव सम्यक् नासीत् । अतः “इन्दिरागान्धी” इत्याख्यया ई. स. १९७० तमस्य वर्षस्य अक्टूबर-मासस्य २ दिनाङ्के (२ अक्टूबर १९७०) राष्ट्रपतिशासनम् उद्घोषितम् । उत्तरप्रदेश-राज्ये मुख्यमन्त्रित्वे सति तेन महत्त्वपूर्णानि कार्याणि कृतानि आसन् ।

मृत्युः[सम्पादयतु]

ई. स. १९८७ तमस्य वर्षस्य मई-मासस्य २९ तमे वर्षे चरणसिंहस्य मृत्युः अभवत् । तस्मिन् वर्षे सः ८४ वर्षीयः आसीत् । तस्य विचारधारा गान्धीवादी आसीत् । अतः तस्याः विचारधारायाः आधारेण तेन सम्पूर्णं जीवनं यापितम् । इतिहासे अस्य नाम “कृषकनेता” इति नाम्ना प्रसिद्धं जातम् । अयं कृषकाणां आत्मीयः जनः आसीत् । अतः “चौधरी चरणसिंह” इत्याख्यस्य मृत्योः अनन्तरं “किसान घाट” इति नाम्ना स्मारकः निर्मापितः । उत्तरप्रदेश-राज्यस्य सर्वकारेण अपि उत्तरप्रदेशराज्ये स्थितस्य “मेरठ-विश्वविद्यालयस्य” नाम परिवर्त्य “चौधरीचरणसिंह-विश्वविद्यालयः” इति कृतम् ।