सदस्यः:श्रीधरः व्यासः/प्रयोगपृष्ठम्/2

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

य एनं वेत्ति हन्तारम् () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अज्ञानिनां परिभाषां वदति । पूर्वस्मिन् श्लोके भगवान् शरीरिणः अविनाशित्वम् उक्त्वा अत्र ये शरीरिणः अविनाशित्वं न जानन्ति, तान् अज्ञानित्वेन (मूढत्वेन) उपस्थापयति । सः कथयति यत्, यः मनुष्यः एनम् अविनाशिनं शरीरिणं हन्यमानत्वेन पश्यति, यः मनुष्यः एनं मृतं च मन्यते, तौ उभौ तं न जानीतः । यतो हि स न कदापि म्रियते, न मारयति च इति ।

भावार्थः[सम्पादयतु]

'य एनं वेत्ति हन्तारम्' – यः एनं शरीरिणं हन्यमानं मन्यते, सः तत्त्वं न जानाति । यतो हि शरीरिणे कर्तृत्वमेव नास्ति । यथा कश्चन चतुरतमः शिल्पकारः शिल्पसाधनं विना कार्यं कर्तुं न प्रभवति, तथैव एषः शरीरी शरीरं विना किमपि कार्यं कर्तुं न प्रभवति । अतः उक्तञ्च, सर्वधाः क्रियाः प्रकृत्या एव भवन्ति इति यः मनुष्यः अनुभवति, सः मनुष्यः शरीरिणः अकर्तृत्वम् अनुभवति [१] इति । तात्पर्यम् अस्ति यत्, शीरीरिणि कर्तृत्वं नास्ति, परन्तु शरीरेण सह संसर्गे सति सः शरीरेण जायमानासु क्रियासु स्वयं कर्ता इति अध्यारोपणं करोति । यदि शरीरी शरीरेण सह सम्बन्धं न स्थापयति, तर्हि सः न कस्यारपि क्रियायाः कर्ता भवति ।

'यश्चैनं मन्यते हतम्' – यः तं मृतं मन्यते, सोऽपि शरीरिणः यथार्थं नावगच्छति । यथा एषः शरीरी न म्रियते, तथैव सः अन्यं न मारयति । यतो हि तस्मिन् कदापि कापि विकृतिः नोत्पद्यते । यस्मिन् विकृतिः, परिवर्तनं वा भवति अर्थात् उत्पत्तिविनाशशीलता यस्मिन् भवति, सः म्रियते ।

'उभौ तौ न विजानीतौ नायं हन्ति न हन्यते' – तौ उभौ न जानीतः अर्थात् यः शरीरिणं हन्यमानत्वेन पश्यति, यश्च तं मृतं पश्यति, तौ उभौ शरीरिणम् (आत्मानं) योग्यतया न जानीतः इति । अत्र पश्नोद्भवति यत्, यः शरीरिणं हन्यमानं, मृतं च न मन्यमानः, तस्य ज्ञानं तु सम्यग् अति खलु ? एतस्य उत्तरम् अस्ति यत्, सोऽपि शरीरिणः वास्तविकस्वरूपं न जानाति । यतो हि शरीरी वास्तव्येन तथा नास्ति । तस्य नाशः न भवति, स च अन्यस्य नाशं न करोति । सः निर्विकारी नित्यत्वेन अपरिवर्तितः तिष्ठति । अतः तस्य शरीरिणः कृते शोकः न करणीयः । अर्जुनस्य सम्मुखं युद्धप्रसङ्गः समुत्पन्नः अत एवात्र मरणं, मारणम् इत्येतयोः क्रिययोः उदाहरणत्वेन उपस्थानम् अभवत् । अन्यथा स आत्मा क्रियातीतः अस्ति ।

भाष्यार्थः[सम्पादयतु]

गीताशास्त्रं संसारस्य कारणभूतशोकादीनां निवर्तकं शास्त्रं, न तु प्रवर्तकम् । एतदर्थके भगवान् द्वे ऋचौ उपस्थापयति । यदि त्वं चिन्तयसि यत्, युद्धे भीष्मादीन् अहं मारयिष्ये, तेषां हन्ता अहमेव इति, तर्हि ते बुद्धिः सर्वथा मिथ्या अस्ति । कथम् ?

यस्य वर्णनम् उपरि कृतं, तम् आत्मानं यः हन्यमानं मन्यते अर्थात् हननक्रियायाः कर्तृत्वेन, अपरः कश्चन तम् आत्मानं देहन सह नष्टं पश्यति अर्थात् हननक्रियायाः कर्मत्वेन, तौ उभौ एव अहम्प्रत्ययस्य विषयभूतम् आत्मानं अविवेकत्वाद् न जानीतः । अत्राभिप्रायः अस्ति यत्, यौ शरीरस्य मरणे सति क्रमेण 'अहं मारितवान्', 'अहं मृतः' इति जानीतः, तौ उभौ आत्मस्वरूपाद् अनभिज्ञौ स्तः । यतो हि एषः आत्मा विकाररहितत्वाद् न तु मारयति, न म्रियते । अर्थात् सः आत्मा हननक्रियाः न तु कर्ता अस्ति, न च कर्म ।

भाष्यार्थः[सम्पादयतु]

उपर्युक्तैः स्वभावैः युक्तम् आत्मानं यः पुरुषः हननहेतुत्वेन अर्थात् अन्यस्य हननकारणं मन्यते, यश्च तम् आत्मानं केनापि हेतुना मृतं मन्यते, तौ उभौ तम् आत्मानं न जानीतः । पूर्वोक्तकारणत्वाद् आत्मा नित्यः । अत एव सः न तु हननहेतुः भवति, अपि च न केनापि हन्यते । यद्यपि अत्र 'हन्' इत्यस्य धातोः कर्म आत्मा अस्ति, तथापि तस्य अर्थः शरीरात् आत्मनः वियोगः इत्येव (आत्मनः नाशो न ) । 'सर्वेषां प्राणिनां हिंसायाः त्यागं कुर्यासुः', 'ब्राह्मणः अवध्यः अस्ति' [२] इत्यादीनि शास्त्रवाक्यानि अपि अविहितरूपेण शरीरवियोगस्यैव प्रतिषेधनं (समर्थनं) कुर्वन्ति ।

  1. गीता, अ. १३, श्लो. २९
  2. न हिंस्यात् सर्वा भूतानि, ब्राह्मणो न हन्तव्यः, क.स्मृ., ८/२