सदस्यः:सञ्जयकुमार जोषी/प्रयोगपृष्ठम्/2

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वीक्षणीयस्थलानि[सम्पादयतु]

सिक्किम-राज्यं “पर्यटकानां स्वर्गः” इति कथ्यते । अस्य प्रदेशस्य स्थलानि हरितमयानि सन्ति । पर्वताः, वनानि, सांस्कृतिकस्थलानि इत्यादीनि भारते प्रसिद्धानि सन्ति । विहगानां विश्वस्य सर्वाधिकप्रजातयः अस्मिन् राज्ये एव प्राप्यन्ते । अस्मिन् प्रदेशे प्रायः ६७ बौद्धमठाः सन्ति । सिक्किम-राज्यस्य चतस्रः गुहाः प्रसिद्धाः सन्ति । तासु प्रथमा “ला-री-फू” उत्तरदिशि, द्वितीया “का-दो सङ्ग-फू” दक्षिणदिशि, तृतीया “दि-चेन-फू” पश्चिमदिशि, “पे-फू” च पूर्वदिशि स्थिता अस्ति । एतासु गुहासु उत्तरस्था “ला-री-निङ्ग्-फू” इयं गुहा पवित्रतमा अस्ति । सिक्किम-राज्यस्य मठेषु मठचतुष्टयं प्रसिद्धम् अस्ति । “युकसोम-मठः”, “फोडोङ्ग-मठः”, “ताशिदिङ्ग-मठः”, “पेमायान्त्से-मठः” च । अन्यानि अपि बहूनि पर्यटनस्थलानि सन्ति [१]

रिंचेनपोङ्ग[सम्पादयतु]

रिंचेनपोङ्ग-पत्तनं भारतस्य सिक्किम-राज्यस्य पश्चिमसिक्किम-मण्डले स्थितम् अस्ति । स्थलमिदं पर्वतप्रदेशे स्थितम् अस्ति । अस्य नगरस्य वातावरणम् अत्यन्तं सुन्दरं, मनोहरं च भवति । पत्तनम् इदं समुद्रतलात् ५५७६ पादोन्न्तम् अस्ति । अस्य नगरस्य वातावरणं शान्तम् अस्ति । अतः जनाः भ्रमणार्थं तत्र गच्छन्ति । अस्य स्थलस्य समीपे कञ्चनजङ्घा-पर्वताः स्थिताः सन्ति । अतः ते पर्वताः जनान् आकर्षयन्ति । अस्मात् नगरात् कञ्चनजङ्घा-स्थलम् अपि दृश्यते । कञ्चनजङ्घा-नगरं दृष्टुम् अपि जनाः तत्र गच्छन्ति । रिंचेनपोङ्ग-पत्तनम् ऐतिहासिकरूपेण अपि महत्त्वपूर्णम् अस्ति । पुरा अस्य स्थलस्य राजा सिक्किम-राज्यस्य "चोगयाल" आसीत् । "चोगयालाङ्ग्लयोः युद्धम् अपि अस्मिन् स्थले अभवत् । अस्मिन् युद्धे बहवः आङ्ग्लाः हताः । यतः सिक्किम-राज्यस्य लेपचा-नामकस्य जनजातिय-समूहस्य जनैः एकस्मिन् तडागस्य जले विषं स्थापितम् आसीत् । अस्य पत्तनस्य समीपे बहूनि पर्यटनस्थलानि सन्ति । रिंचेनपोङ्ग-मठः, मैगी दारा, रवीन्द्रस्मृतिवनम् इत्यादयः अस्य पत्तनस्य समीपस्थानि पर्यटनस्थलानि सन्ति । अस्य नगरस्य वातावरणं सर्वदा शीतलं भवति । अतः जनाः ग्रीष्मर्तौ तत्र भ्रमणार्थं तत्र गच्छन्ति । रिंचेनपोङ्ग-पत्तनं ५१० क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः रिंचेनपोङ्ग-पत्तनं सिक्किम-राज्यस्य विभिन्ननगरैः सह सञ्योजयति । सिक्किम-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः रिंचेनपोङ्ग-पत्तनं गन्तुं शक्यते । रिंचेनपोङ्ग-पत्तने भाटकयानानि अपि प्रचलन्ति । अतः तैः रिंचेनपोङ्ग-पत्तनस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् पत्तने रेलस्थानकं नास्ति । पश्चिमबङ्ग-राज्यस्य सिलिगुडी-नगरे एकं रेलस्थानकम् अस्ति । सिलिगुडी-रेलस्थानकं रिंचेनपोङ्ग-पत्तनस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकं सिक्किम-राज्यस्य प्रमुखैः क्षेत्रैः सह श्रेष्ठतया सम्बद्धम् अस्ति । अस्मात् रेलस्थानकात् भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । रिंचेनपोङ्ग-पत्तने विमानस्थानकं नास्ति । पश्चिमबङ्ग-राज्यस्य बागडोगरा-विमानस्थानकम् अस्य पत्तनस्य निकटतमं विमानस्थानकम् अस्ति । इदम् राष्ट्रियविमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय, गुवाहाटी-नगराय, चेन्नै-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण रिंचेनपोङ्ग-पत्तनं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया रिंचेनपोङ्ग-पत्तनं प्राप्तुं शक्नुवन्ति ।

लेग्शिप[सम्पादयतु]

लेग्शिप-नगरं भारतस्य सिक्किम-राज्यस्य पश्चिमसिक्किम-मण्डले स्थितम् अस्ति । नगरमिदं लोकप्रियम् अस्ति । लेग्शिप-नगरं सिक्किम-राज्यस्य प्रवेशद्वारं कथ्यते । अस्य स्थलस्य समीपे रङ्गित-जलबन्धः स्थितः अस्ति । अयं जलबन्धः सिक्किम-राज्यस्य प्रथमः जलबन्धः अस्ति । अत्र जलविद्युदुत्पादनं क्रियते । अस्य जलबन्धस्य स्थिरीकृतं जलं "रङ्गित वॉटर् वर्ल्ड्" नामके उद्याने अपि उपयुज्यते । लेग्शिप-नगरे बहूनि पर्यटनस्थलानि सन्ति । किरातेश्वरमहादेव-मन्दिरम् अस्य स्थलस्य प्रमुखं धार्मिकं स्थलम् अस्ति । अस्य मन्दिरस्य उल्लेखः महाभारते अपि बहुत्र दृश्यते । अस्मिन् स्थले दुर्गादेव्याः, भगवतः रामस्य च अपि बहूनि धार्मिकस्थलानि सन्ति । अतः एव लेग्शिप-नगरं हिन्दुधर्मस्य महत्त्वपूर्णतीर्थस्थलम् अस्ति । अस्य नगरस्य प्राकृतिकं सौन्दर्यम् अपि अद्भूतं भवति । लेग्शिप-नगरस्य जलवायुः आर्द्रः, शीतलः च भवति । जनाः यदा कदा लेग्शिप-नगरं गन्तुं शक्नुवन्ति । लेग्शिप-नगरं ३१ क्रमाङ्कस्य, ५१० क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमौ राष्ट्रियराजमार्गौ लेग्शिप-नगरं सिक्किम-राज्यस्य विभिन्ननगरैः सह सञ्योजयतः । सिक्किम-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः लेग्शिप-नगरं गन्तुं शक्यते । लेग्शिप-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः लेग्शिप-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । पश्चिमबङ्ग-राज्यस्य सिलिगुडी-नगरे एकं रेलस्थानकम् अस्ति । सिलिगुडी-रेलस्थानकं लेग्शिप-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । लेग्शिप-नगरात् इदं रेलस्थानकं १०७ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकं सिक्किम-राज्यस्य प्रमुखैः क्षेत्रैः सह श्रेष्ठतया सम्बद्धम् अस्ति । अस्मात् रेलस्थानकात् भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । लेग्शिप-नगरे विमानस्थानकं नास्ति । पश्चिमबङ्ग-राज्यस्य बागडोगरा-विमानस्थानकम् अस्य नगरस्य निकटतमं विमानस्थानकम् अस्ति । इदम् राष्ट्रियविमानस्थानकम् अस्ति । बागडोगरा-विमानस्थानकात् मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय, गुवाहाटी-नगराय, चेन्नै-नगराय, देहली-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण लेग्शिप-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया लेग्शिप-नगरं प्राप्तुं शक्नुवन्ति ।

जोङ्गू[सम्पादयतु]

“जोङ्गू” इत्येतत् स्थलं भारतस्य सिक्किमराज्यस्य उत्तरसिक्किम-मण्डले स्थितम् अस्ति । इदं स्थलं सिक्किम-राज्यस्य लेपचा-मूलनिवासीनां भूमिः अस्ति । गङ्गटोक-नगरात् इदं स्थलं ७० किलोमीटरमिते दूरे स्थितम् अस्ति । स्थलमिदं प्राकृतिकसौन्दर्येण परिपूर्णम् अस्ति । किन्तु यावत् अस्य सौन्दर्यम् अस्ति, तावत् इदं स्थलं प्रसिद्धं नास्ति । अस्मिन् स्थले विभिन्नवनस्पतयः, वन्यजीवाः दृश्यन्ते । लेपचा-जनाः जोङ्गू-स्थलस्य निवासिनः सन्ति । तैः एकान्तं रोचते । इदं स्थलं समुद्रतलात् ३,००० तः २०,००० पादोन्नते स्थितम् अस्ति । अस्य स्थलस्य समीपे बहवः जलप्रपाताः सन्ति । तेषु जलप्रपातेषु “लिङ्ग्झा-जलप्रपातः” अत्यतः सुन्दरः दृश्यते । अस्य नगरस्य जलवायुः सामान्यः भवति । तेन अस्य नगरस्य वातावरणं शान्तं, सुखदं, मनोहरं च भवति । अतः भारतस्य विभिन्ननगरेभ्यः जनाः तत्र गच्छन्ति । जोङ्गू-नगरं ३१० क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः जोङ्गू-नगरं सिक्किम-राज्यस्य विभिन्ननगरैः सह सञ्योजयति । सिक्किम-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः जोङ्गू-नगरं गन्तुं शक्यते । जोङ्गू-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः जोङ्गू-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । पश्चिमबङ्ग-राज्यस्य सिलिगुडी-नगरस्य समीपे “न्यू जलपाईगुडी”-नामकं रेलस्थानकम् अस्ति । जोङ्गू-नगरात् इदं रेलस्थानकं १४७ किलोमीटरमिते दूरे स्थितम् अस्ति । जलपाईगुडी-रेलस्थानकं जोङ्गू-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकं सिक्किम-राज्यस्य प्रमुखैः क्षेत्रैः सह श्रेष्ठतया सम्बद्धम् अस्ति । अस्मात् रेलस्थानकात् भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । जोङ्गू-नगरे विमानस्थानकं नास्ति । पश्चिमबङ्ग-राज्यस्य बागडोगरा-विमानस्थानकम् अस्य नगरस्य निकटतमं विमानस्थानकम् अस्ति । इदम् राष्ट्रियविमानस्थानकम् अस्ति । बागडोगरा-विमानस्थानकात् मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय, गुवाहाटी-नगराय, चेन्नै-नगराय, देहली-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण जोङ्गू-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया जोङ्गू-नगरं प्राप्तुं शक्नुवन्ति ।

नामची[सम्पादयतु]

नामची-नगरं भारतस्य सिक्किम-राज्यस्य दक्षिणसिक्किम-मण्डले स्थितम् अस्ति । इदं नगरं दक्षिणसिक्किम-मण्डलस्य मुख्यालयः अस्ति । नगरमिदं गङ्गटोक-नगरात् ९२ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं स्थलं सिक्किम-राज्यस्य बहुचर्चितं पर्यटनस्थलम् अस्ति । अस्मात् नगरात् दार्जिलिङ्ग-नगरं, कलिमपोङ्ग-पर्वताः च दृश्यन्ते । स्थलमिदं समुद्रतलात् १६७५ मीटरमितम् उन्नतम् अस्ति । अस्मिन् नगरे “सन्त-पद्मसम्भवगुरोः” विशालप्रतिमा निर्मापिता । इयं प्रतिमा विश्वस्य उन्नततमा प्रतिमा अस्ति । नामची-नगरे बहवः बौद्धमठाः, उच्चशिखराणि च सन्ति । अतः एव इदं नगरं प्रसिद्धम् अस्ति । स्थलमिदं सिलीगुडी-नगरात् ९० किलोमीटरमिते दूरे स्थितम् अस्ति । अस्य नगरस्य इतिहासः अपि समृद्धः वर्तते । अस्मिन् नगरे हिन्दु-जनाः, बौद्धजनाः च अधिकाः निवसन्ति । नगरेऽस्मिन् नेपाली-भाषा, हिन्दी-भाषा, आङ्ग्ल-भाषा च व्यवह्रीयते । अस्मिन् नगरे बहूनि पर्यटनस्थलानि सन्ति । नामची-मठः, रालङ्ग-मठः, समद्रुपत्से-पर्वतानां निष्क्रियः ज्वालामुखी, तेन्दोङ्ग-पर्वताः, रॉक्-उद्यानं, डोलिङ्ग गोम्पा, न्गादक-मठः, तेमी-चाय-उद्यानं, चतुर्धामानि इत्यादीनि अस्य नगरस्य पर्यटनस्थलानि सन्ति । प्रतिवर्षं फरवरी-मासे सिक्किम-विषयिणी प्रदर्शनी आयोज्यते । अस्यां प्रदर्श्शन्यां विभिन्नप्रकारकाणि पुष्पाणि दृश्यन्ते । नामची-नगरे वाइचुङ्ग्-क्रीडाङ्गणः अस्ति । अस्मिन् क्रीडाङ्गणे पादकन्दुकक्रीडायाः (Football) स्पर्धायाः आयोजनं क्रियते । इमां स्पर्धां दृष्टुं बहवः जनाः तत्र गच्छन्ति । “वाइचुङ्ग भूटिया” इत्याख्यस्य पादकन्दुकक्रीडकस्य नाम्ना अस्य क्रीडाङ्गणस्य नामकरणं कृतम् । अस्य नगरस्य जलवायुः सामान्यः भवति । मार्च-मासतः जून-मासपर्यन्तं अस्य नगरस्य वातावरणं सुखदं, शान्तं च भवति । अतः जनाः तस्मिन् समये नामची-नगरं भ्रमणार्थं गच्छन्ति । नामची-नगरं ३१ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः नामची-नगरं सिक्किम-राज्यस्य विभिन्ननगरैः सह सञ्योजयति । सिक्किम-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः नामची-नगरं गन्तुं शक्यते । नामची-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः नामची-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । पश्चिमबङ्ग-राज्यस्य सिलिगुडी-नगरस्य समीपे “न्यू जलपाईगुडी”-नामकं रेलस्थानकम् अस्ति । नामची-नगरात् इदं रेलस्थानकं ९४ किलोमीटरमिते दूरे स्थितम् अस्ति । जलपाईगुडी-रेलस्थानकं नामची-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकं सिक्किम-राज्यस्य प्रमुखैः क्षेत्रैः सह श्रेष्ठतया सम्बद्धम् अस्ति । अस्मात् रेलस्थानकात् भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । नामची-नगरे विमानस्थानकम् अपि नास्ति । पश्चिमबङ्ग-राज्यस्य बागडोगरा-विमानस्थानकम् अस्य नगरस्य निकटतमं विमानस्थानकम् अस्ति । इदम् राष्ट्रियविमानस्थानकम् अस्ति । बागडोगरा-विमानस्थानकात् मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय, गुवाहाटी-नगराय, चेन्नै-नगराय, देहली-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण नामची-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया नामची-नगरं प्राप्तुं शक्नुवन्ति ।

  1. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३३७