सदस्यः:सनतकुमारः उपाध्यायः/प्रयोगपृष्ठम्/1

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

जलवायुः[सम्पादयतु]

सिक्किम-राज्यं भारतस्य पूर्वोत्तर-दिशि स्थितम् अस्ति । राज्यमिदं पर्वतीयम् अपि अस्ति । अतः अस्य राज्यस्य नगराणि अपि पर्वतीयक्षेत्रे स्थितानि सन्ति । तेन अस्य नगरस्य जलवायुः उष्णकटिबन्धीयः, समशीतोष्णः च अस्ति । सिक्किम-राज्यस्य तापमानम् उच्च-नीचाधारेण भिन्नं भिन्नं भवति । अस्मिन् प्रदेशे प्रायः १२५ सेण्टीमीटरमात्रात्मिका वर्षा भवति । मई-मासे, अक्टूबर-मासे च अधिकमात्रायां वर्षा भवति [१]

नद्यः[सम्पादयतु]

सिक्किमराज्ये बह्व्यः नद्यः प्रवहन्ति । तीस्ता-नदी, रङ्गीत-नदी च इत्यादयः नद्यः अस्य राज्यस्य प्रमुखे नद्यौ स्तः । एतन्नद्योः प्रवाहः उत्तरदिशः दक्षिणदिशं प्रति भवति । रोङ्गली-स्थले अनयोः नद्योः सङ्गमः भवति । तालुङ्ग-नदी, लाञ्चुग-नदी, रोगनी-नदी इत्यादयः अस्य राज्यस्य अन्याः नद्यः सन्ति । अस्य प्रदेशस्य तडागे छाङ्गू-तडागः प्रमुखः वर्तते । अयं तडागः समुद्रतलात् १०,००० पादोन्नते स्थितम् अस्ति [२]

महानगराणि[सम्पादयतु]

सिक्किम-राज्ये त्रीणि महानगराणि सन्ति । गङ्गटोक-नगरं, युकसोम-नगरं, जोरेथाङ्ग-नगरं, गेजिङ्ग-नगरं च । गङ्गटोक-नगरम् अस्य राज्यस्य राजधानी अपि अस्ति [३]

गङ्गटोक[सम्पादयतु]

गङ्गटोक-नगरं भारतस्य सिक्किम-राज्यस्य पूर्वसिक्किम-मण्डलस्य मुख्यालयः अस्ति । नगरमिदं सिक्किम-राज्यस्य राजधानी अपि अस्ति । इदं नगरं सिक्किम-राज्यस्य बृहत्तमं नगरं विद्यते । समुद्रतलात् इदं नगरं १४३७ मीटरमिते औन्नत्ये स्थितम् अस्ति । विश्वस्य विभिन्ननगरेभ्यः जनाः भ्रमणार्थं तत्र गच्छन्ति । सिक्किम-राज्यस्य प्रमुकपर्यटनस्थलेषु अन्यतमम् अस्ति इदं नगरं । ई. स. १८४० तमे वर्षे गङ्गटोक-नगरे "एनचेय" नामकः बौद्धमठः निर्मापितः । तेन कारणेन इदं नगरं प्रमुखबौद्धतीर्थत्वेन प्रसिद्धं जातम् । ई. स. १९७५ तमे वर्षे इदं नगरं सिक्किम-राज्यस्य राजधानीत्वेन उद्घोषितम् । नगरमिदं बौद्धसंस्कृतेः मुख्यकेन्द्रम् अस्ति । अस्मिन् नगरे बौद्धधर्मस्य शिक्षणकेन्द्राणि, तिब्बतशास्त्रकेन्द्राणि च सन्ति । अस्य नगरस्य पूर्वदिशि "रोरो चू-जलप्रपातः", पश्चिमदिशि च "रानी खोला-जलप्रपातः" अस्ति । गङ्गटोक-नगरस्य संस्कृतिः उत्कृष्टा अस्ति । अस्मिन् नगरे दीपावलिः, विजयादशमी, होलीपर्व इत्यादयः हिन्दूत्सवाः अपि आचर्यन्ते । जनवरी-मासे फरवरी-मासे वा गङ्गटोक-नगरस्य नववर्षोत्सवः आचर्यते । अयम् उत्सवः "लोसर" इति कथ्यते । अस्य नगरस्य जलवायुः उपोष्णकटिबन्धीयः अस्ति । शीतर्तौ अस्मिन् नगरे अत्यधिकं शैत्यं भवति । आवर्षम् अस्य नगरस्य वातावरणं सुखदं भवति । अतः जनाः भारतस्य, विदेशस्य च विभिन्ननगरेभ्यः गङ्गटोक-नगरं गच्छन्ति । गङ्गटोक-नगरं ३१ क्रमाङ्कस्य, ७१० क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमौ राष्ट्रियराजमार्गौ गङ्गटोक-नगरं सिक्किम-राज्यस्य विभिन्ननगरैः सह सञ्योजयति । सिक्किम-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः गङ्गटोक-नगरं गन्तुं शक्यते । गङ्गटोक-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः गङ्गटोक-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । पश्चिमबङ्ग-राज्यस्य सिलिगुडी-नगरस्य समीपे “जलपाईगुडी”-नामकं रेलस्थानकम् अस्ति । गङ्गटोक-नगरात् इदं रेलस्थानकं १५४ किलोमीटरमिते दूरे स्थितम् अस्ति । जलपाईगुडी-रेलस्थानकं गङ्गटोक-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकं सिक्किम-राज्यस्य प्रमुखैः क्षेत्रैः सह श्रेष्ठतया सम्बद्धम् अस्ति । अस्मात् रेलस्थानकात् भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । गङ्गटोक-नगरे विमानस्थानकम् अपि नास्ति । पश्चिमबङ्ग-राज्यस्य बागडोगरा-विमानस्थानकम् अस्य नगरस्य निकटतमं विमानस्थानकम् अस्ति । इदं राष्ट्रियविमानस्थानकम् अस्ति । गङ्गटोक-नगरात् इदं विमानस्थानकं १२६ किलोमीटरमिते दूरे स्थितम् अस्ति । बागडोगरा-विमानस्थानकात् मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय, गुवाहाटी-नगराय, चेन्नै-नगराय, देहली-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण गङ्गटोक-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया गङ्गटोक-नगरं प्राप्तुं शक्नुवन्ति ।

युकसोम[सम्पादयतु]

युकसोम-नगरं भारतस्य सिक्किमराज्यस्य पश्चिमसिक्किम-मण्डले स्थितम् अस्ति । इदं नगरम् ऐतिहासिकं धार्मिकं च वर्तते । नगरमिदं पर्यटनदृष्ट्या लोकप्रियम् अस्ति । युकसोम-नगरं सिक्किम-राज्यस्य भूतपूर्वराजधानी आसीत् । ई. स. १६४२ तमे वर्षे "फुन्सोग नामग्याल" इत्याख्येन चोग्याल-राज्ञा इदं नगरं स्थापितम् आसीत् । अस्य नगरस्य समीपे बहूनि पर्यटनस्थलानि सन्ति । केचेओपलरी-तडागः, तिब्बतीबौद्धमठः, डुबडी-मठः, करटोक-मठः, ताशिदिङ्ग-मठः इत्यादीनि अस्य नगरस्य प्रमुखाणि वीक्षणीयस्थलानि सन्ति । समुद्रतलात् इदं नगरं १७८० मीटरमिते औन्नत्ये स्थितम् अस्ति । नगरमिदं कञ्चनजङ्घा-पर्वतस्य प्रवेशद्वारम् अपि कथ्यते । वनेषु विभिन्नप्रकारकाः वनस्पतयः, वन्यजीवाः अपि दृश्यन्ते । अस्य नगरस्य जलवायुः सामान्यः भवति । मार्च-मासतः जून-मासपर्यन्तं, सितम्बर-मासतः नवम्बर-मासपर्यन्तं च अस्य नगरस्य वातावरणं सुखदं, शान्तं, मनोहरं च भवति । दिसम्बर-मासतः फरवरी-मासपर्यन्तं शीतर्तौ अत्यधिकं शैत्यं भवति । अतः जनाः तत्र भ्रमणार्थं गच्छन्ति । युकसोम-नगरं ३१ क्रमाङ्कस्य, ७१० क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमौ राष्ट्रियराजमार्गौ युकसोम-नगरं सिक्किम-राज्यस्य विभिन्ननगरैः सह सञ्योजयतः । सिक्किम-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः युकसोम-नगरं गन्तुं शक्यते । युकसोम-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः युकसोम-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । पश्चिमबङ्ग-राज्यस्य सिलिगुडी-नगरस्य समीपे “जलपाईगुडी”-नामकं रेलस्थानकम् अस्ति । युकसोम-नगरात् इदं रेलस्थानकं १८४ किलोमीटरमिते दूरे स्थितम् अस्ति । जलपाईगुडी-रेलस्थानकं युकसोम-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकं सिक्किम-राज्यस्य प्रमुखैः क्षेत्रैः सह श्रेष्ठतया सम्बद्धम् अस्ति । अस्मात् रेलस्थानकात् भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । युकसोम-नगरे विमानस्थानकम् अपि नास्ति । पश्चिमबङ्ग-राज्यस्य बागडोगरा-विमानस्थानकम् अस्य नगरस्य निकटतमं विमानस्थानकम् अस्ति । बागडोगरा-विमानस्थानकं राष्ट्रियविमानस्थानकम् अस्ति । युकसोम-नगरात् बागडोगरा-विमानस्थानकं १५५ किलोमीटरमिते दूरे स्थितम् अस्ति । बागडोगरा-विमानस्थानकात् मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय, गुवाहाटी-नगराय, चेन्नै-नगराय, देहली-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण युकसोम-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया युकसोम-नगरं प्राप्तुं शक्नुवन्ति ।

जोरेथाङ्ग[सम्पादयतु]

जोरेथाङ्ग-नगरं भारतस्य सिक्किम-राज्यस्य दक्षिणसिक्किम-मण्डले स्थितम् अस्ति । नगरमिदं तीस्ता-नद्याः "रङ्गीत" नामिकायाः सहायकनद्याः तटे स्थितम् अस्ति । जोरेथाङ्ग-नगरं समुद्रतलात् ३०० मीटरमिते औन्नत्ये स्थितम् अस्ति । अस्य नगरस्य समीपे अन्यानि अपि पर्यटनस्थलानि सन्ति । जोरेथाङ्ग-नगरे प्रतिवर्षं माघीमेला-उत्सवः आयोज्यते । अयम् उत्सवः प्रतिवर्षं जनवरी-मासे आयोज्यते । भारतस्य विभिन्ननगरेभ्यः जनाः उत्सवे सम्मिलन्ति । ई. स. १९५५ तमात् वर्षात् जोरेथाङ्ग-नगरे अयम् उत्सवः आचर्यते । अस्य नगरस्य जलवायुः सामान्यः भवति । जनाः सम्पूर्णे वर्षे कस्मिँश्चिदपि समये जोरेथाङ्ग-नगरं गन्तु शक्नुवन्ति । जोरेथाङ्ग-नगरं ३१ क्रमाङ्कस्य, ५१० क्रमाङ्कस्य, ७१० क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमे राष्ट्रियराजमार्गाः जोरेथाङ्ग-नगरं सिक्किम-राज्यस्य विभिन्ननगरैः सह सञ्योजयन्ति । सिक्किम-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः जोरेथाङ्ग-नगरं गन्तुं शक्यते । जोरेथाङ्ग-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः जोरेथाङ्ग-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । पश्चिमबङ्ग-राज्यस्य सिलिगुडी-नगरस्य रेलस्थानकम् अस्ति । जोरेथाङ्ग-नगरात् इदं रेलस्थानकं ८२ किलोमीटरमिते दूरे स्थितम् अस्ति । सिलिगुडी-रेलस्थानकं जोरेथाङ्ग-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकं सिक्किम-राज्यस्य प्रमुखैः क्षेत्रैः सह श्रेष्ठतया सम्बद्धम् अस्ति । अस्मात् रेलस्थानकात् भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । जोरेथाङ्ग-नगरे विमानस्थानकम् अपि नास्ति । पश्चिमबङ्ग-राज्यस्य बागडोगरा-विमानस्थानकम् अस्य नगरस्य निकटतमं विमानस्थानकम् अस्ति । बागडोगरा-विमानस्थानकं राष्ट्रियविमानस्थानकम् अस्ति । जोरेथाङ्ग-नगरात् बागडोगरा-विमानस्थानकं ९५ किलोमीटरमिते दूरे स्थितम् अस्ति । बागडोगरा-विमानस्थानकात् मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय, गुवाहाटी-नगराय, चेन्नै-नगराय, देहली-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण जोरेथाङ्ग-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया जोरेथाङ्ग-नगरं प्राप्तुं शक्नुवन्ति ।

शिक्षणम्[सम्पादयतु]

ई. स. २०११ वर्षस्य जनगणनानुसारं सिक्किम-राज्यस्य साक्षरतामानं ८१.८६ प्रतिशतम् अस्ति । तेषु पुरुषाणां साक्षरतामानं ८७.२९ प्रतिशतं, स्त्रीणां च ७६.४३ प्रतिशतं च अस्ति । अस्मिन् राज्ये बहूनि शैक्षणिकसंस्थानानि सन्ति । “द सिक्किम मणिपाल युनिवर्सिटी ऑफ् हेल्थ् एण्ड् टेक्नोलॉजी साइन्सेज्”, “सिक्किम रिसर्च् इन्स्टीट्यूट् ऑफ् टाइबेटोलॉजी”, “गङ्गटोक हस्तशिल्प एवं हथकरघा निदेशालयः” इत्यादीनि सिक्किम-राज्यस्य प्रमुखाणि शैक्षणिकानि संस्थानानि सन्ति [४]

राजनीतिः[सम्पादयतु]

सिक्किम-राज्ये एकसदनात्मकं विधानमण्डलम् अस्ति । अस्मिन् राज्ये विधानसभायाः ३२ स्थानानि सन्ति । राज्ये लोकसभायाः एकं, राज्यसभायाः च एकं स्थानम् अस्ति । ”सिक्किम डेमोक्रेटिक् फ्रण्ट्”, “सिक्किम सङ्ग्राम परिषद्”, “भारतीय राष्ट्रीय कॉङ्ग्रेस्”, इत्यादयः सिक्किम-राज्यस्य प्रमुखाः राजनैतिकसमूहाः सन्ति [५]

परिवहनम्[सम्पादयतु]

सिक्किम-राज्यस्य परिवहनं समृद्धम् अस्ति । इदं राज्यं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च भारतस्य, विदेशस्य च प्रमुखनगरैः सह सम्बद्धम् सन्ति । अतः जनाः सरलतया सिक्किम-राज्यं प्राप्नुवन्ति ।

भूमार्गाः[सम्पादयतु]

सिक्किम-राज्यस्य सर्वकारेण भूमार्गस्य व्यवस्था दृश्यते । सर्वकारेण सम्पूर्णे राज्ये भ्रमणार्थं बसयानानि प्रचालितानि सन्ति । अतः तैः बसयानैः सिक्किम-राज्यस्य विभिन्ननगराणां भ्रमणं कर्तुं शक्यते । सिक्किम-राज्यं ३१A क्रमाङ्कस्य, ३१० क्रमाङ्कस्य, ५१० क्रमाङ्कस्य, ७१० क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । एते राष्ट्रियराजमार्गाः सिक्किम-राज्यं भारतस्य प्रमुखनगरैः सह सञ्योजयन्ति । अस्मिन् राज्ये आहत्य २,८७३ किलोमीटरमिताः दीर्घाः मार्गाः सन्ति । तेषु राष्ट्रियराजमार्गाः ६२ किलोमीटरमिताः । अस्मिन् राज्ये पर्यटनाय भाटकयानानि अपि सन्ति । तैः यानैः जनाः सिक्किम-राज्यस्य भ्रमणं कर्तुं शक्नुवन्ति । अतः सरलतया भूमार्गेण सिक्किम-राज्यं प्राप्यते ।

धूमशकटमार्गाः[सम्पादयतु]

सिक्किम-राज्ये आवश्यकतानुसारं रेलमार्गाः न सन्ति । किन्तु पश्चिमबङ्ग-राज्यस्य रेलस्थानकानि भूमार्गेण सिक्किम-राज्येन सह संलग्नानि सन्ति । पश्चिमबङ्ग-राज्यस्य सिलीगुडी-रेलस्थानकं, जलपाईगुडी-रेलस्थानकं च सिक्किम-राज्येन सह श्रेष्ठतया सम्बद्धम् अस्ति । एताभ्यां रेलस्थानकाभ्यां गङ्गटोक-नगराय, युकसोम-नगराय, जोरेथाङ्ग-नगराय, गेजिङ्ग-नगराय इत्यादिभ्यः सिक्किम-राज्यस्यस्य विभिन्ननगरेभ्यः भाटकयानानि बसयानानि च प्राप्यन्ते । अनेन प्रकारेण सिक्किम-राज्यं धूमशकटमार्गेण भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । जनाः धूमशकटमार्गेण सिक्किम-राज्यं सरलतया गन्तुं शक्नुवन्ति ।

वायुमार्गाः[सम्पादयतु]

सिक्किम-राज्यं वायुमार्गेण सह अपि सम्बद्धम् अस्ति । साम्प्रतम् अस्मिन् राज्ये विमानस्थानकं नास्ति । किन्तु पाकयोङ्ग-नगरे विमानस्थानकं निर्मीयमाणं अस्ति । पश्चिमबङ्ग-राज्यस्य बागडोगरा-विमानस्थानकं सिक्किम-राज्यस्य समीपस्थं विमानस्थानकम् अस्ति । इदं राष्ट्रियविमानस्थानकम् अस्ति । बागडोगरा-विमानस्थानकात् भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । इदं विमानस्थानकं देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय इत्यादिभिः भारतस्य प्रमुखविमानस्थानकैः सह सम्बद्धम् अस्ति । अनेन प्रकारेण सिक्किम-राज्यं वायुमार्गेण भारतस्य विभिन्ननगरैः सह श्रेष्ठतया सम्बद्धम् अस्ति । जनाः सरलतया सिक्किम-राज्यस्य प्रमुखनगराणि गन्तुं शक्नुवन्ति ।

  1. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३३५
  2. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३३५
  3. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३३१
  4. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३३६
  5. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३३३