सदस्यः:सुष्मिताभट्टाचार्य95/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अहिंसाचरणम्-

गोप ग्रामे कश्चन वटवृक्ष: आसीत्। तस्मिन् वृक्षे एकः विषधरः सर्प: वसति स्म। वृक्षस्य समीपे मार्गेण आगतान् सर्वान् अपि सः दशति स्म। तस्मात् कारणात् ग्रामजनाः तेन मार्गेण गमनागमनं भीताः भवन्ति स्म। एकदा कश्चन: मुनिः तेन एव मार्गेण गच्छन् आसीत्। तं  दृष्ट्वा सर्प: '' एष: दंशनीय'' इति विचार्य वेगेन तत्र आगतवान् परन्तु महात्मनः तपः प्रभावात् सर्प: तं दष्टुं न शक्नोति स्म। मुनिः अपि तं सर्पम् अहिंसायाः महत्त्वं बोधितवान् , सर्पः मुने: वचनेन प्रभावितः अभवत्। तदाराभ्य: सः दशनं त्यक्तवान्। यद्यपि सर्पः विषधरः तथापि इदानीं सः विषहीनः इव व्यवह्रति स्म। अतः जनाः तस्मिन् मार्गे निर्भयं गमनागमनं कुर्वन्ति स्म। तं दृष्ट्वा बालाः तस्य उपरी शिलाखण्डं क्षिपन्ति पीडन्ति स्म। परन्तु सर्पः शान्त्या तेषां पीड़ां सहते स्म। एवं कानिचन दिनानि अतितानि सः मुनिः यदा तत्र आगतवान् तदा सर्पस्य शरीरं क्षतविक्षितम् आसीत्। सः मुनिम् उक्तवान् - "स्वामिनः! भवता उपदेशे अहं हिंसाचारणं त्यक्तवान्। परन्तु मम स्थिति अधुना शोचनीया: जाता।"  तदा मुनिः उक्तवान् "भो मित्र! अन्यान् मा दशतु फुत्कारं मा त्यजतु"।

सर्पः तथा कृतवान्। फलतः जनाः तस्य समीपं नागताः। सः हिंसा त्यक्तवाऽपि शांत्या वसति स्म। मुने: उपदेशात् सर्पः नूतनं जीवनं  यापनस्य मार्गं प्राप्तवान्। मुने: उक्तवान् - "शक्तिमान् भव: परन्तु अपराणामनिष्टम् मा कुरु।"