सामग्री पर जाएँ

सदस्यः:हसमुखः कोंकणी/प्रयोगपृष्ठम्/1

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

क्लैब्यं मास्मगमः पार्थ () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अर्जुनं कापुरुषतां त्यक्तुमुपायं वदति । पूर्वस्मिन् श्लोके युद्धात् उपरामः सन् कापुरुषत्वं प्रदर्शिवतम् अर्जुनं तस्य विचारस्य निर्णयस्य वा तुच्छतायाः बोधं कारयित्वा अत्र भगवान् कापुरुषतायाः निवृत्त्यै किं करणीयम् इति कथयति । भगवान् कथयति यत्, हे पृथानन्दन अर्जुन ! एवं नपुंसकत्वं मा प्रदर्शय । यतः तन्न योग्यम् । हे परन्तप ! हृदयस्य एतां तुच्छदुर्बलतां त्यक्त्वा युद्धाय सज्जो भव इति ।

भावार्थः

[सम्पादयतु]

'पार्थ' – मातुः पृथायाः (कुन्त्याः) सन्देशस्य स्मरणं कारयन् अर्जुनस्य अन्तःकरणे क्षत्रिययोग्यं वीरतायाः भावं जागरितुं भगवान् अर्जुनस्य कृते 'पार्थ' इति सम्बोधनम् अकरोत् । कुन्त्याः उद्देशः आसीत् यत्,

एतद् धनञ्जयो वाच्यो, नित्योद्युक्तो वृकोदरः ।

यदर्थं क्षत्रिया सूते, तस्य कालोऽयमागतः ।। []

अर्थात्, हे कृष्ण ! भवान् अर्जुनं, युद्धाय सर्वदा तत्परं भीमं च कथयतु यत्, यस्य क्षत्रियधर्मस्य कृते क्षत्रियमाता पुत्रं जनते, तस्य कार्यस्य समयः सम्प्राप्तोऽस्ति इति । भगवतः तात्पर्यम् अस्ति यत्, स्वस्मिन् कापुरुषतायाः भावम् उत्पाद्य स्वमातुः आज्ञायाः उल्लङ्घनं मा कुरु इति ।

'क्लैब्यं मा स्म गमः' – अर्जुनः कापुरुषतायाः कारणेन युद्धेऽधर्मः, युद्धनिवृत्तौ धर्मः चेति मनुते । अतः अर्जुनं पूर्वसूचनां दातुं भगवान् कथयति यत्, युद्धं न करणीयम् इति धर्मसङ्गतं नास्ति । एतत् नपुंसकत्वम् अस्ति । अतः त्वमेतत् नपुंसकत्वं त्यज इति ।

'नैतत्त्वय्युपपद्यते' – तवैतत् नपुंसकत्वम् अकराणम् अस्ति; यतः त्वं कुन्तीसदृशायाः क्षत्रियाण्याः शूरवीरः पुत्रः असि । अस्य तात्पर्यम् अस्ति यत्, जन्मना, स्वभावेन च नपुंसकत्वं तेऽयोग्यम् अस्ति इति । 'परन्तप' – त्वं स्वयं परन्तप असि । अर्थात् शत्रूतापकः त्वम् एतस्मात् युद्धात् वमुखो भूत्वा शत्रुन् मोदयिष्यसि किम् ?

'क्षुद्रहृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ' - 'क्षुद्रम्' इत्यस्य पदस्य द्विधा अर्थः भवति । प्रथमं तु हृदयदौर्बल्यं त्वं तुच्छीकरिष्यति । अर्थात् तत् हृदयदौर्बल्यं मुक्तिः, स्वर्गं, कीर्तिः इत्यादिषु ते पतनं कारयिष्यति । यदि त्वं हृदयदौर्बल्यस्य त्यागं न करिष्यसि, तर्हि त्वं तुच्छीभविष्यसि । द्वितीयार्थः अस्ति यत्, हृदयदौर्बल्यं तुच्छवस्तु अस्ति । त्वत् सदृशेभ्यः शूरवीरेभ्यः एतस्य तुच्छवस्तोः त्यागः न कठिनं कार्यम् इति । त्वं यदि स्वं धर्मात्मानं मत्वा "युद्धरूपिपापं कर्तुं नेच्छामि" इति चिन्तयसि, तर्हि तत् ते हृदयदौर्बल्यम् अस्ति । तस्य हृदयदौर्बल्यस्य त्यागं कृत्वा स्वकर्तव्यपालनार्थं युद्धाय सज्जो भव ।

अत्र अर्जुनस्य सम्मुखं युद्धरूपिकर्तव्यम् अस्ति । अतः जाग्रत, उत्तिष्ठ, युद्धरूपिकर्तव्यस्य पालनं कुरु इति भगवान् कथयति । भगवतः मनसि अर्जुनस्य कर्तव्यविषये किञ्चिदपि सन्देहः नास्ति । सः जानाति यत्, सर्वासु परिस्थितिषु अर्जुनस्य कृते युद्धम् एव कर्तव्यपालनमार्गः अस्ति इति । अतः पूर्णबलेन कर्तव्यपालनाय आज्ञां ददाति ईश्वरः ।

भाष्यार्थः

[सम्पादयतु]

एवम् अर्जुनस्य रथे उपवेशनोत्तरं "एषः अस्थाने उद्भूतः शोकः अस्ति" इति आक्षेपं कुर्वन् भगवान् श्रीकृष्णः कथयति यत्, अज्ञानिभिः सेवितं, परलोकविरोधिनम्, अकीर्तिकरं, हृदयदौर्बल्येनोत्पन्नम् अत्यन्तं क्षुद्रम्, असमये उद्भूतं शोकं त्यक्त्वा युद्धाय उत्तिष्ठ इति ।

  1. महाभारतम्, उद्योगपर्व, अध्यायः – १३७, श्लोकः – ९-१०