सदस्यः:हितेन्द्रः व्यासः/प्रयोगपृष्ठम्/2

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

व्यक्तित्वम्[सम्पादयतु]

वेङ्कटरामनस्य स्वभावः अत्यन्तः सरलः आसीत् । सः प्रकृतिप्रेमी आसीत् । सः प्रायः द्विचक्रिकायानेन गृहात् कार्यालयं प्रति गच्छति स्म । मित्रेषु सः “वैङ्की” इति नाम्ना प्रसिद्धः आसीत् । तस्य पितरौ अपि वैज्ञानिकौ आस्ताम् । यदा नोबेल-पुरस्कारं दातुं समित्याः सचिवेन रामनाय दुरभाषः कृतः, तदा रामनः विश्वासं न कृतवान् । यतः प्रायः रामनस्य मित्राणि नोबल-पुरस्कारस्य मिथ्यायुक्तेन समाचारेण तं रूक्षयन्ति स्म । अतः रामनेन तस्मिन् समये विश्वासः न कृतः ।

वृत्तिः[सम्पादयतु]

रामनः कोलकाता-नगरे सहायकलेखापालत्वेन कार्यं करोति स्म । तथापि सः तया वृत्त्या असन्तुष्टः आसीत् । यतः सः विज्ञानानुसन्धाने कार्यं कर्तुम् इच्छति स्म । एकदा तेन कार्यालयं गमने सति मार्गे “इण्डियन् एसोसिएशन् ऑफ् कल्टिवेशन् ऑफ् सायन्स्” इत्यस्याः संस्थायाः फलकं दृष्टम् । तस्मिन् समये तत्र परिषदः गोष्ठी जायमाना आसीत् । सः तत्र गतवान् आसीत् । तत्र बहवः विद्वांसः उपस्थिताः आसन् । तस्याः संस्थायः संस्थापकः “डॉ. महेन्द्रलाल सरकार” आसीत् । “महेन्द्रलाल” इत्याख्येन वैज्ञानिकान्वेषणाय अस्याः संस्थायाः स्थापना कृता आसीत् । तस्मिन् भवने केवलं वैज्ञानिकानां गोष्ठी एव क्रियते स्म । तस्मिन् भवने स्थितस्य प्रयोगशालायाः प्रयोगः न कोऽपि करोति स्म । रामनः प्रयोगशालायां प्रयोगं कर्तुम् इच्छति स्म । अतः अधिकारिणा प्रयोगाय प्रयोगशालायाः दातित्त्वं रामनाय प्रदत्तम् । अतः एव तस्मिन् परिषदि तेन वैज्ञानिकप्रयोगान् आरभ्य अन्वेषणानि कृतानि । तेन सः नोबेल-पुरस्कारं प्रापत् । रामनः प्रतिदिनं परिषदः प्रयोगशालां गत्वा प्रयोगान् करोति स्म । अनन्तरं १० वादने कार्यालयं गच्छति स्म । पुनः कार्यालयात् प्रयागते सति सः प्रयोगशालां गच्छति स्म । रात्रौ दशवादनपर्यन्तं प्रयोगे व्यस्तः भवति स्म । रविवासरे अपि सः आदिनं प्रयोगशालायाम् एव भवति स्म । सः सङ्गीतस्य वाद्ययन्त्रेभ्यः निष्पन्नानां मधुरस्वराणां विषये संशोधनं कुर्वन् आसीत् । “वीणायाः, मृदङ्गात् इत्यादिभ्यः वाद्ययन्त्रेभ्यः मधुरस्वराः कथं निष्पद्यन्ते” इति तस्य संशोधनस्य विषयः आसीत् । रामनेन परिषदः “आशुतोष डे” नामकस्य सदस्यस्य साहाय्यं प्राप्तम् । समयान्तरे रामनेन कार्यकर्तॄणां समूहः निर्मितः । ते सदस्याः संशोधने रामनस्य साहाय्यं करोति स्म । रामनस्य वैज्ञानिककार्ये मग्नतां दृष्ट्वा कलकत्ता-विश्वविद्यालयस्य उपकुलपतिः “आशुतोष मुखर्जि” प्रसन्नः जातः । “आशुतोष मुखर्जि” “बङ्गाल के बाघ” इति अपि कथ्यते स्म । आशुतोषेन ब्रिटिश-सर्वकारः निवेदितः यत् – “रामनाय वर्षद्वस्य अवकाशः दातव्यः, येन सः ध्यानपूर्वकं वैज्ञानिककार्यं कर्तुं शक्नुयात् । किन्तु ब्रिटिशसर्वकारेण तस्य प्रस्तावः अस्वीकृतः । समयान्तरे तस्मिन् परिषदि भौतिकशास्त्रस्य “चेयर” स्थापितम् । आशुतोषः इच्छति स्म यत् – “तत्स्थानं रामनाय दद्यात्” इति । किन्तु रामनेन विदेशे कार्यं न कृतम् आसीत् । अतः “चेयर” इत्यस्य नियमानुसारं रामनः योग्यः नासीत् । अतः आशुतोषः रामनं विदेशं गन्तुं प्रेरितवान् । किन्तु रामनः तस्मिन् समये विदेशं गन्तुं नेच्छति स्म । रामनेन उक्तं यत् - “यदि अस्मै पदाय सेवा अपेक्षिता चेत्, सः नियमः निष्कासयतु” । अन्ततो गत्वा सः नियमः निष्कासितः । रामनः वृत्तिं त्यक्तवान् । ई. स. १९१७ तमवर्षे तत्पदस्य दायित्वं स्वीकृतम् । किन्तु अस्मिन् कार्ये धनार्जनं अल्पम् एव आसीत् । तथापि रामनः विज्ञानाय सर्वं त्यक्तुं समर्थः आसीत् । अतः “आशुतोष मुखर्जि” इत्याख्येन रामनस्य बलिदानस्य प्रशंसा कृता । तावत् रामनः स्वस्य सम्पूर्णः समयः विज्ञानस्य संशोधनाय ददाति स्म । समयान्तरे तस्य स्थानान्तरणं म्यान्मार-देशस्य रङ्गून-नगरे अभवत् । साम्प्रतं रङ्गून-नगरं याङ्गून-नगरत्वेन प्रसिद्धम् अस्ति । किन्तु तत्र गत्वा सः प्रसन्नः नासीत् । यतः तत्र प्रयोगाय, अनुसन्धानाय सौकर्यं नासीत् । तस्मिन् एव काले तस्य पितुः मृत्युः अभवत् । अतः शोकाकुलः रामनः षण्मासात्मकम् अवकाशं स्वीकृत्य चेन्नै-नगरं गतवान् आसीत् । अवकाशसमाप्त्यनन्तरं नागपुर-नगरे रामनस्य स्थानान्तरणम् अभवत् । ई. स. १९११ तमे वर्षे रामनः महालेखापालत्वेन नियुक्तः जातः । अनन्तरं पुनः कोलकाता-नगरे तस्य स्थानान्तरणं कृतम् । रामनः अत्यन्तः प्रसन्नः अभवत् । यतः तेन परिषदः प्रयोगशालायां प्रयोगाय अवसरः प्राप्तः । सप्तवर्षाणि यावत् सः परिषदः प्रयोगशालायां अनुसन्धानकार्याणि कृतवान् । “तारकनाथ पालितः”, “डॉ. रासबिहारी घोष”, “आशुतोष मुखर्जि” इत्यादिभिः विज्ञान-महाविद्यालयः स्थापितः । तस्मिन् महाविद्यालये रामनः प्राध्यापकत्वेन कार्यम् आरब्धम् । ई. स. १९१७ तमे वर्षे रामनेन कलकत्ता-विश्वविद्यालये भौतिकविज्ञानस्य प्राध्यापकत्वेन वृत्तिः प्राप्ता । ई. स. १९१७ तमे वर्षे लण्डन्-नगरे ब्रिटिश्-राष्ट्रमण्डलस्य विश्वविद्यालयानां सम्मेलनम् आसीत् । तस्मिन् सम्मेलने रामनः कलकत्ता-विश्वविद्यालयस्य प्रतिनिधिः आसीत् । रामनः लण्डन्-नगरं गतवान् । इयं तस्य प्रथमा विदेशयात्रा आसीत् ।

राष्ट्रियविज्ञानदिवसः[सम्पादयतु]

लण्डन-गमने सति जलयाने तेन नीलवर्णीयः समुद्रः दृष्टः । समुद्रं दृष्ट्वा रामनस्य मनसि नीलवर्णाय प्रश्नः उद्भूतः यत् – “अयं नीलवर्णः समुद्रस्य वा आकाशस्य अस्ति” इति । अनन्तरं तेन सप्तवर्षाणां प्रयासेन अस्य रहस्यं ज्ञातम् । तेन इदम् अन्वेषणं “रामन प्रभाव” इति नाम्ना प्रसिद्धम् । ई. स. १९२८ तमवर्षस्य फरवरी-मासस्य २८ तमे (२८ फरवरी १९२८) दिनाङ्के रामनप्रभावस्य अन्वेषणं जातम् आसीत् । अतः अस्य संशोधनस्य स्मृतौ भारते प्रतिवर्षं “राष्ट्रियविज्ञानदिवसः” आयोज्यते [१]। अस्मिन् दिवसे वैज्ञानिकाः भाषणैः विज्ञानस्य उन्नत्यै विकासाय च जनान् अवबोधयन्ति । विज्ञानसम्बद्धाः प्रदर्शन्याः, कार्यक्रमाः च अपि क्रियन्ते । तेषु कार्यक्रमेषु विज्ञानसम्बद्धाः पुरस्काराः, प्रशस्तयः च अपि दीयन्ते । रामनस्य इदम् अनुसन्धानं “रामन इफेक्ट्” इति नाम्ना अपि ज्ञायते स्म । अनेन संशोधनेन भारतेन सम्पूर्णे विश्वस्मिन् विज्ञानक्षेत्रे प्रख्यातिः प्राप्ता । रामनेन संशोधितः “रामनप्रभावः” विश्वस्य आधुनिकप्रयोगशालासु प्रयोगस्योपकारणत्वेन उपयुज्यते ।

रामनशोधसंस्था[सम्पादयतु]

ई. स. १९३३ तमे वर्षे बेङ्गळूरु-नगरे स्थापितायाः “इण्डियन् इन्स्टीट्यूट् ऑफ् सायन्सेज्” इत्यास्याः संस्थायाः सञ्चालनस्य दायित्त्वं रामनाय प्रदत्तम् आसीत् । तत्र तेन ई. स. १९४८ तमवर्षपर्यन्तं कार्यं कृतम् । अनन्तरम् ई. स. १९४८ तमे वर्षे रामनेन बेङ्गळूरु-नगरे “रामन रिसर्च् इन्स्टीट्यूट्” इत्यस्याः संस्थायाः स्थापना कृता [२]। अस्यां संस्थायां उत्कृष्टप्रयोगशाला आसीत् । “वैज्ञानिकानुसन्धानसंस्थानिर्माणम्” इति तस्य स्पत्नः आसीत् । तेन अस्याः संस्थायाः सञ्चालनाय धनसञ्चयः कृतः । संस्थायाः विकासाय धनदानं स्वीकृतम् । प्राप्तधनेन उद्योगाः आरब्धाः । तैः उद्योगैः संस्था चालिता । इमां संस्थां परितः बहवः वृक्षाः रोपिताः आसन् । संस्थायाः वातावरणम् उद्यानमिव अस्ति । तत्र रामनः रूचिकरेषु विषयेषु शोधकार्यं करोति स्म । तेन ३०० हीरकमणयः क्रीताः । हीरकमणिः सघनतमः भवति । तेन हीरकमणेः आन्तरिकसंरचनायाः, भौतिकगुणानां अध्ययनं कृतम् । उद्यानेषु विचरितानां विहगानां, पतङ्गानां, पुष्पाणां चापि रामनेन अध्ययनं कृतम् आसीत् । यतः विहगाः, पुष्पाणि, पतङ्गाः च वर्णमयाः भवन्ति । अतः “तेषु वर्णः कथं आयाति” इति विषये सः चिन्तितवान् । अनन्तरं दृश्यस्य, वर्णस्य च सिद्धान्तः प्रतिपादितः । अस्मिन् विषये तेन “द फिजोयोलॉजी विजन्” इत्यस्मिन् पुस्तके अपि लिखितम् अस्ति । ई. स. १९४७ तमे वर्षे भारतस्य स्वातन्त्र्यानन्तरम् रामनः निराशः जातः । यतः तेन अनुभूतं यत् – “देशे विज्ञानस्य विकासाय विशिष्टप्रयासाः जायमानाः न सन्ति । सर्वकारः उच्चशिक्षणाय वैज्ञानिकान् विदेशं प्रेषयति स्म । किन्तु विदेशस्य अपेक्षया भारतदेशे वैज्ञानिकाध्ययनाय सर्वसौकर्याणि सन्ति” इति । रामनेन स्वयं लण्डन्-नगरस्य “रॉयल् सोसाइटीज्” अस्याः संस्थायाः सदस्यता त्यक्ता आसीत् । “जनाः राजनीतेः आधारेण विज्ञानस्य शोषणं न कुर्युः” इति सः चिन्तयति स्म । यतः विज्ञान-राजनीत्योः मेलनम् एव नास्ति । सर्वकारेण तस्य समक्षे भारतस्य उपराष्ट्रपतिपदस्य प्रस्तावः अपि प्रस्थापितः आसीत् । किन्तु रामनेन अविचार्य एव तत्प्रस्तावः अस्वीकृतः ।

सङ्गीतवाद्ययन्त्राणि, अनुसन्धानञ्च[सम्पादयतु]

डॉ. रामनस्य सङ्गीतक्षेत्रे अपि अभिरूचिः आसीत् । तेन सङ्गीतस्य सघनम् अध्ययनं कृतम् आसीत् । तेन सङ्गीतवाद्ययन्त्राणां ध्वनिविषयकम् अपि अनुसन्धानं कृतम् । ध्वनिविषयकस्य अनुसन्धानस्य कश्चन लेखः जर्मनी-देशस्य विश्वकोशे प्रकाशितः । सः सङ्गीतस्य वाद्ययन्त्रेभ्यः निष्पन्नानां मधुरस्वराणां विषये संशोधनं कुर्वन् आसीत् । “वीणायाः, मृदङ्गात् इत्यादिभ्यः वाद्ययन्त्रेभ्यः मधुरस्वराः कथं निष्पद्यन्ते” इति तस्य संशोधनस्य विषयः आसीत् । विदेशीयाः वैज्ञानिकाः कथयन्ति स्म यत् – “भारतीयवाद्ययन्त्राणाम् अपेक्षया अस्माकं वाद्ययन्त्राणि उत्कृष्टतमानि सन्ति” इति । किन्तु रामनेन तेषां भ्रान्तिः त्रोटिता ।

प्रशस्तयः, पुरस्काराः च[सम्पादयतु]

ई. स. १९५४ तमे वर्षे भारतसर्वकारेण विज्ञानक्षेत्रे स्वस्य योगदानाय रामनः भारतरत्नप्रशस्तिना सम्मानितः । भारतरत्नप्राप्तेषु सर्वप्रथमः वैज्ञानिकः आसीत् । “भारतरत्नम्” भारतस्य सर्वोच्चपुरस्कारः अस्ति । ई. स. १९३० तमे वर्षे सः भौतिकशास्त्रे नोबल-पुरस्कारं प्राप्तवान् । अनन्तरं तेन ई. स. १९५७ तमवर्षे लेनिन-पुरस्कारः प्राप्तः । अयं पुरस्कारः अन्ताराष्ट्रियपुरस्कारः वर्तते [३]

मृत्युः[सम्पादयतु]

ई. स. १९७० तमवर्षस्य अक्टूबर-मासस्य अन्ते रामनस्य स्वास्थ्यं दुर्बलं जातम् । रामनः उपचारार्थं चिकित्सालयं नीतः । चिकित्सकैः उपचारं कृत्वा रामनस्य स्वास्थ्यं समीकृतम् । रामनः चिकित्सालयात् स्वस्य प्रयोगशालाम् आगतवान् । सः उक्तवान् यत् – “अहं चिकित्सालये न अपि तु प्रयोगशालायाः उद्याने एव देहत्यागं करिष्यामि” इति । तस्मिन् शरीरे कोऽपि रोगः नासीत् । अन्ततो गत्वा ई. स. १९७० तमवर्षस्य नवम्बर-मासस्य २१ तमे (२१ नवम्बर १९७०) दिनाङ्के “चन्द्रशेखर वेङ्कट रामन” इत्याख्यस्य मृत्युः अभवत् [४]

  1. हमारे भारत रत्न विजेता, डॉ. एम्. जे . बन्धिया, प्रो. हितेष डी. वैष्णव. पृ. सं. २६-२७
  2. हमारे भारत रत्न विजेता, डॉ. एम्. जे . बन्धिया, प्रो. हितेष डी. वैष्णव. पृ. सं. २९
  3. हमारे भारत रत्न विजेता, डॉ. एम्. जे . बन्धिया, प्रो. हितेष डी. वैष्णव. पृ. सं. ३०
  4. हमारे भारत रत्न विजेता, डॉ. एम्. जे . बन्धिया, प्रो. हितेष डी. वैष्णव. पृ. सं. ३६