सदस्यः:हिम्मतलाल अम्बालाल दवे/प्रयोगपृष्ठम्/2

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

रवङ्गला[सम्पादयतु]

रवङ्गला-नगरं भारतस्य सिक्किम-राज्यस्य दक्षिणसिक्किम-मण्डले स्थितम् अस्ति । इदं नगरं पेलिङ्ग-गङ्गटोक-नगरयोः मध्ये स्थितम् अस्ति । समुद्रतलात् इदं स्थलं ७००० पादोन्नते स्थितम् अस्ति । विश्वस्य बहुभ्यः नगरेभ्यः जनाः तत्र भ्रमणार्थं गच्छन्ति । अस्मिन् नगरे जनाः व्यापारं कुर्वन्ति । अस्य नगरस्य समीपे चायस्य कृषिः क्रियते । नगरस्यास्य प्राकृतिकं सौन्दर्यम् अपि अद्भूतम् अस्ति । भारतस्य विभिन्ननगरेभ्यः जनाः तत्र शान्तवातावरणे आनन्दं प्राप्तुं गच्छन्ति । अस्य नगरस्य समीपे बहूनि वीक्षणीयस्थलानि सन्ति । बोरोङ्ग-उष्णजलप्रपातः, रालोङ्ग-उष्णजलप्रपातः, बुद्ध-उद्यानं, टेमी-चाय-उद्यानं, कीवजिङ्ग-ग्रामः इत्यादीनि समीपस्थानि पर्यटनस्थलानि सन्ति । अस्मात् नगरात् कञ्चनजङ्घा-पर्वतस्य, पन्दिम-पर्वतस्य, सिनियल्चू-पर्वतस्य च मनोहराणि दृश्यानि दृश्यन्ते । समीपस्थेषु वनेषु विहगानां विभिन्नप्रजातयः अपि दृश्यन्ते । प्रतिवर्षं रवङ्गला-नगरस्य स्थानीयजनाः सांस्कृतिकोत्सवम् आचरन्ति । अनन्तरं अगस्त-सितम्बरमासयोः "पङ्ग लबसोल" नामकः उत्सवः अपि प्रतिवषम् आचर्यते । अयम् उत्सवः त्रिदिवसात्मकः भवति । अस्य उत्सवस्य समारोपे नगरजनाः चम-नृत्यं कुर्वन्त् । रवङ्गला-नगरस्य जलवायुः सामान्यं भवन्ति । शीतर्तौ अस्मिन् नगरे शैत्यस्य प्रभावः अधिकः भवति । अन्यासु ऋतुषु अस्य नगरस्य वातावरणं सुखदं, मनोहरं च भवति । अतः तस्मिन् समये भारतस्य विभिन्ननगरेभ्यः पर्यटकाः रवङ्गला-नगरं गच्छन्ति । रवङ्गला-नगरं ३१ क्रमाङ्कस्य, ५१० क्रमाङ्कस्य, ७१० क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमे राष्ट्रियराजमार्गाः रवङ्गला-नगरं सिक्किम-राज्यस्य विभिन्ननगरैः सह सञ्योजयन्ति । सिक्किम-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः रवङ्गला-नगरं गन्तुं शक्यते । रवङ्गला-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः रवङ्गला-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । पश्चिमबङ्ग-राज्यस्य सिलिगुडी-नगरस्य समीपे “जलपाईगुडी”-नामकं रेलस्थानकम् अस्ति । रवङ्गला-नगरात् इदं रेलस्थानकं १५४ किलोमीटरमिते दूरे स्थितम् अस्ति । जलपाईगुडी-रेलस्थानकं रवङ्गला-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकं सिक्किम-राज्यस्य प्रमुखैः क्षेत्रैः सह श्रेष्ठतया सम्बद्धम् अस्ति । अस्मात् रेलस्थानकात् भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । रवङ्गला-नगरे विमानस्थानकम् अपि नास्ति । पश्चिमबङ्ग-राज्यस्य बागडोगरा-विमानस्थानकम् अस्य नगरस्य निकटतमं विमानस्थानकम् अस्ति । इदं राष्ट्रियविमानस्थानकम् अस्ति । रवङ्गला-नगरात् इदं विमानस्थानकं १२६ किलोमीटरमिते दूरे स्थितम् अस्ति । बागडोगरा-विमानस्थानकात् मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय, गुवाहाटी-नगराय, चेन्नै-नगराय, देहली-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण रवङ्गला-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया रवङ्गला-नगरं प्राप्तुं शक्नुवन्ति ।

अरितार[सम्पादयतु]

अरितार-नगरं भारतस्य सिक्किम-राज्यस्य पूर्वसिक्किम-मण्डले स्थितम् अस्ति । नगरेऽस्मिन् तडागाः, वनानि, पर्वताः, तण्डुलानां क्षेत्राणि च सन्ति । अतः पर्यटकाः तत्र स्वर्गस्य अनुभवं कुर्वन्ति । नगरस्यास्य प्राकृतिकसौन्दर्यं जनान् आकर्षयति । अस्य नगरस्य प्रातःकालस्य दृश्यं मनोहरं भवति । इदं स्थलं हिमालय-पर्वतस्य समीपे स्थितम् अस्ति । ई. स. १९०४ तमे वर्षे भारत-तिब्बतयोः व्यापारस्य सन्धिः जाता आसीत् । तस्यां सन्धौ अरितार-नगरं मुख्यत्वेन आसीत् । यदा सिक्किम-राज्ये नूतनमार्गाणां निर्माणम् आरब्धं, तदा तिब्बत-जनानां मनसि शङ्का उद्भूता । तेन कारणेन द्वयोः युद्धम् अभवत् । तिब्बती-जनैः लिङ्गटू-स्थले अधिकारं स्थापितम् आसीत् । अरितार-नगरस्य समीपे बहूनि दर्शनीयानि स्थलानि सन्ति । "लम्पोकरी-तडागः", "अरितार गुम्पा", "मङ्गखिम", "लव दारा" च प्रमुखाणि पर्यटनस्थलानि सन्ति । नगरेऽस्मिन् प्रतिवर्षम् उत्सवाः अपि आयोज्यन्ते । भारतस्य विभिन्ननगरेभ्यः जनाः तत्र गच्छन्ति, उत्सवेषु भागं वहन्ति च । अरितार-नगरस्य जलवाय्ः सर्वदा सामान्यः भवति । अतः आवर्षं जनाः कस्मिंश्चिद् अपि समये अरितार-नगरस्य पर्यटनस्थलानि गच्छन्ति । अरितार-नगरं ३१ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः अरितार-नगरं सिक्किम-राज्यस्य विभिन्ननगरैः सह सञ्योजयति । सिक्किम-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः अरितार-नगरं गन्तुं शक्यते । अरितार-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः भाटकयानैः अरितार-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । पश्चिमबङ्ग-राज्यस्य सिलिगुडी-नगरस्य रेलस्थानकम् अस्ति । अरितार-नगरात् सिलिगुडी-रेलस्थानकं ११७ किलोमीटरमिते दूरे स्थितम् अस्ति । सिलिगुडी-रेलस्थानकं अरितार-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । सिलिगुडी-रेलस्थानकं सिक्किम-राज्यस्य प्रमुखैः क्षेत्रैः सह श्रेष्ठतया सम्बद्धम् अस्ति । अस्मात् रेलस्थानकात् भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । अरितार-नगरे विमानस्थानकम् अपि नास्ति । पश्चिमबङ्ग-राज्यस्य बागडोगरा-विमानस्थानकम् अस्य नगरस्य निकटतमं विमानस्थानकम् अस्ति । बागडोगरा-विमानस्थानकं राष्ट्रियविमानस्थानकम् अस्ति । अरितार-नगरात् बागडोगरा-विमानस्थानकं १२९ किलोमीटरमिते दूरे स्थितम् अस्ति । बागडोगरा-विमानस्थानकात् मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय, गुवाहाटी-नगराय, चेन्नै-नगराय, देहली-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण अरितार-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया अरितार-नगरं प्राप्तुं शक्नुवन्ति ।

रूमटेक[सम्पादयतु]

रूमटेक-नगरं भारतस्य सिक्किम-राज्यस्य पूर्वसिक्किम-मण्डले स्थितम् अस्ति । रूमटेक-नगरं गङ्गटोक-नगरात् १९ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मिन् नगरे एकः मठः अस्ति । तेन कारणेन इदं नगरं विश्वस्मिन् प्रसिद्धम् अस्ति । अयं मठः बौद्धधर्मस्य प्रमुकं धार्मिकं स्थलम् अस्ति । अस्मिन् नगरे तण्डुलानां कृषिः क्रियते । अस्य नगरस्य समीपस्थेषु ग्रामेषु तण्डुलानां क्षेत्राणि दृश्यन्ते । जुलाई-मासतः सितम्बर-मासपर्यन्तं तण्डुलस्य क्षेत्राणि हरितानि दृश्यन्ते । सस्यकर्तनानन्तरं क्षेत्राणि स्वर्णमयानि दृश्यन्ते । अक्टूबर-मासतः नवम्बर-मासपर्यन्तं सस्यकर्तनं क्रियते । हिमाच्छादितानां पर्वतानां दृश्यानि अपि मनोहराणि भवन्ति । अतः जनाः अपि आकृष्टाः भवन्ति । रूमटेक-नगरे "जवाहरलाल नेहरू बॉटनिकल् उद्यानम्" अस्ति । इदम् उद्यानम् रूमटेक-मठस्य समीपे स्थितम् अस्ति । अस्मिन् उद्याने पुष्पाणां, पादपानां च विभिन्नप्रजातयः प्राप्यन्ते । सिक्किम-राज्यस्य वनविभागेन अस्य उद्यानस्य संरक्षणं क्रियते । ग्रीष्मर्त् अस्य नगरस्य तापमानं २८ तः १० डिग्रीसेल्सियसमात्रात्मकं भवति । अतः तस्मिन् समये अस्य नगरस्य वातावरणं सुखदं भवति । मार्च-मासतः जून-मासपर्यन्तं ग्रीष्मर्तुः भवति । जुलाई-मासतः सितम्बर-मासपर्यन्तं वर्षर्तुः भवति । शीतर्तौ अस्य नगरस्य तापमानं १६ तः -५ डिग्रीसेल्सियसमात्रात्मकं भवति । अक्टूबर-मासतः फरवरी-मासपर्यन्तं अस्मिन् नगरे शीतर्तुः भवति । भारतस्य विभिन्ननगरेभ्यः जनाः शीतर्तौ भ्रमणार्थं रूमटेक-नगरं गच्छन्ति । रूमटेक-नगरं ३१ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः रूमटेक-नगरं सिक्किम-राज्यस्य विभिन्ननगरैः सह सञ्योजयति । सिक्किम-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः रूमटेक-नगरं गन्तुं शक्यते । रूमटेक-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः रूमटेक-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । पश्चिमबङ्ग-राज्यस्य सिलिगुडी-नगरस्य रेलस्थानकम् अस्ति । रूमटेक-नगरात् इदं रेलस्थानकं १११ किलोमीटरमिते दूरे स्थितम् अस्ति । सिलिगुडी-रेलस्थानकं रूमटेक-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकं सिक्किम-राज्यस्य प्रमुखैः क्षेत्रैः सह श्रेष्ठतया सम्बद्धम् अस्ति । अस्मात् रेलस्थानकात् भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । रूमटेक-नगरे विमानस्थानकम् अपि नास्ति । पश्चिमबङ्ग-राज्यस्य बागडोगरा-विमानस्थानकम् अस्य नगरस्य निकटतमं विमानस्थानकम् अस्ति । इदं राष्ट्रियविमानस्थानकम् अस्ति । रूमटेक-नगरात् इदं विमानस्थानकं १२३ किलोमीटरमिते दूरे स्थितम् अस्ति । बागडोगरा-विमानस्थानकात् मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय, गुवाहाटी-नगराय, चेन्नै-नगराय, देहली-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण रूमटेक-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया रूमटेक-नगरं प्राप्तुं शक्नुवन्ति ।

उष्णजलकुण्डाः[सम्पादयतु]

सिक्किम-राज्ये जोरेथाङ्ग-नगरस्य समीपे उष्णजलकुण्डाः स्थिताः सन्ति । स्थलमिदं सिक्किम-राज्यस्य प्रमूखेषु आकर्षणकेन्द्रेषु अन्यतमम् अस्ति । एतेषु जलकुण्डेषु "सल्फर" नामकस्य खानिजस्य आधिक्यं भवति । अतः यदा जनाः एतेषु कुण्डेशु स्नानं कुर्वन्ति, तदा एतेषां कुण्डानां जलं उपचारत्वेन कार्यं करोति । अस्य स्थलस्य जलस्य तापमानं प्रायः ५० डिग्रीसेल्सियस-मात्रात्मकं भवति । अतः एतेषां कुण्डानां जलं चिकित्सागुणैः परिपूर्णं भवति । अतः भारतस्य विभिन्ननगरेभ्यः जनाः तत्र गच्छन्ति । इदं स्थलं प्राप्तुं जोरेथाङ्ग-नगरं गन्तव्यं भवति । जोरेथाङ्ग-नगरं ३१ क्रमाङ्कस्य, ५१० क्रमाङ्कस्य, ७१० क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमे राष्ट्रियराजमार्गाः जोरेथाङ्ग-नगरं सिक्किम-राज्यस्य विभिन्ननगरैः सह सञ्योजयन्ति । सिक्किम-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः जोरेथाङ्ग-नगरं गन्तुं शक्यते । जोरेथाङ्ग-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः भाटकयानैः उष्णजलकुण्डानां स्थलं प्राप्तुं शक्यन्ते ।

मङ्गन[सम्पादयतु]

मङ्गन-नगरं भारतस्य सिक्किम-राज्स्यस्य उत्तरसिक्किम-मण्डलस्य मुख्यालयः अस्ति । इदं नगरं गङ्गटोक-नगरात् ५२ किलोमीटरमिते दूरे स्थितम् अस्ति । समुद्रतलात् इदं नगरं ३२३६ पादोन्नते स्थितम् अस्ति । नगरमिदं तिब्बत-शैलप्रस्थस्य प्रवेशद्वारम् अपि अस्ति । अस्मिन् नगरे प्रतिवर्षं १२ तः १४ दिसम्बर-मासपर्यन्तं सङ्गीतोत्सवः आचर्यते । अयम् उत्सवः त्रिदिवसीयः भवति । अस्मै उत्सवाय इदं नगरं प्रसिद्धम् अस्ति । नगरेऽस्मिन् नैकाः भाषाः व्यवह्रीयन्ते । नेपाली-भाषा, भूटिया-भाषा इत्यादयः अस्य नगरस्य आधिकारिण्यः भाषाः सन्ति । लेप्चा-भाषा, लिम्बू-भाषा, नेवारी-भाषा, राई-भाषा, गुरुङ्ग-भाषा, मङ्गर-भाषा, शेरपा-भाषा, तमाङ्ग-भाषा, सुनवर-भाषा इत्यादयः भाषाः अपि अस्मिन् नगरे व्यवह्रीयन्ते । अस्य नगरस्य जलवायुः समशीतोष्णः भवति । ग्रीष्मर्तौ अस्य नगरस्य वातावरणं सर्वोत्तमं भवति । अतः तस्मिन् समये मङ्गन-नगरस्य भ्रमणं कर्त्तव्यम् । जनाः अपि तस्मिन् समये तत्र गच्छन्ति । मङ्गन-नगरं ३१ क्रमाङ्कस्य, ३१० क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमौ राष्ट्रियराजमार्गौ मङ्गन-नगरं सिक्किम-राज्यस्य विभिन्ननगरैः सह सञ्योजयतः । सिक्किम-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः मङ्गन-नगरं गन्तुं शक्यते । मङ्गन-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः मङ्गन-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । पश्चिमबङ्ग-राज्यस्य सिलिगुडी-नगरस्य समीपे “जलपाईगुडी”-नामकं रेलस्थानकम् अस्ति । मङ्गन-नगरात् इदं रेलस्थानकं १७६ किलोमीटरमिते दूरे स्थितम् अस्ति । जलपाईगुडी-रेलस्थानकं मङ्गन-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकं सिक्किम-राज्यस्य प्रमुखैः क्षेत्रैः सह श्रेष्ठतया सम्बद्धम् अस्ति । अस्मात् रेलस्थानकात् भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । मङ्गन-नगरे विमानस्थानकम् अपि नास्ति । पश्चिमबङ्ग-राज्यस्य बागडोगरा-विमानस्थानकम् अस्य नगरस्य निकटतमं विमानस्थानकम् अस्ति । बागडोगरा-विमानस्थानकं राष्ट्रियविमानस्थानकम् अस्ति । मङ्गन-नगरात् इदं विमानस्थानकं १४७ किलोमीटरमिते दूरे स्थितम् अस्ति । बागडोगरा-विमानस्थानकात् मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय, गुवाहाटी-नगराय, चेन्नै-नगराय, देहली-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण मङ्गन-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया मङ्गन-नगरं प्राप्तुं शक्नुवन्ति ।