सदस्यः:1910280anushas/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

गणनामहामात्रा:[सम्पादयतु]

प्रनाब् मुखर्जि


प्रणब मुखर्जि -


प्रणबकुमार् मुखर्जि जननम् - १९३५ डिसेम्बर् ११) भारतस्य राष्ट्रपतिरूपेण चितः अस्ति । तेन ७२ प्रतिशतं मतानि प्राप्तानि तन्नाम ५.१८ लक्षपरिमितानि मतानि । मुखर्जिः भारतीय राष्ट्रियकाङ्ग्रेस्पक्षस्य ज्येष्ठः नेता आसीत् । राष्ट्रपतिनिर्वाचने भागग्रहणाय २०१२ तमस्य वर्षस्य जुलै २२ तमे दिनाङ्के सः स्वस्य स्थानाय त्यागपत्रम् अयच्छत् । सः जुलैमासस्य २५ तमे दिनाङ्के राष्ट्रपतिपदं समलङ्करोत् ।मुखर्जिः ब्रिटिश्भारतस्य वङ्गराज्ये मिरटिप्रदेशे जन्म प्राप्तवान् । तस्य पिता कामद किङ्कर मुखर्जि भारतीयराष्ट्रियकाङ्ग्रेस्पक्षस्य सदस्यः आसीत् । भारतीयस्वातन्त्र्यसङ्ग्रामे गृहीतभागेन तेन दशाधिकवर्षाणि यावत् ब्रिटिशकारागृहे जीवनं यापितम् ।


प्रणबस्य माता राजलक्ष्मी मुखर्जि । तस्य अग्रजा अन्नपूर्णा मुखर्जि । प्रणबः सुरि (बिर्भम्) नगरस्थे सूरिविद्यासागरमहाविद्यालये अध्ययनम् अकरोत् । अयं महाविद्यालयः कल्कत्तविश्वविद्यालयव्याप्तौ विद्यते । सः इतिहासं, राजनैतिकविज्ञानं च अधीत्य कलापदवीं प्राप्तवान् । कलकत्ताविश्वविद्यालयतः न्यायशास्त्रे अपि पदवीं प्राप्तवान् । २०११ तमे वर्षे वोल्वर्हाम्प्टन्-विश्वविद्यालः गौरवडाक्टोरेट्पदविप्रदानपूर्वकं तस्य सम्माननम् अकरोत् । २०१२ तमस्य वर्षस्य मार्चमासे अस्सम्विश्वविद्यालयः गौरव-डिलिट्पदव्या तस्य सम्माननम् अकरोत् ।मुखर्जि तस्यौद्यगम् कल्कत्ता नगरस्य पत्राचारविभागे(पोस्टल् ऽ टेलिग्राफ़् ) उप-गणक प्रतिनिधि (डेपुटीअकोन्टन्ट् जेनेरल्) कार्यालये उच्च-विभाग-कार्यदर्शी (अप्पेर् डीविशन् क्लेर्क्) रूपेण आरब्धवान् ।

१९६३ तमे वर्षे विद्यानगर महविद्यालये राजकीयवैज्ञानम् अध्यापयितुम् आरब्धवान् । अपि च सः “ देशट् दक्”(मातृभूमेः आह्वानम्”) इत्यस्याम् पत्रिकायाम् पत्रिकाकारः अपि आसीत् राजकीयक्षेत्रे प्रवेशात् पूर्वम् ।जूलै मासे २५ दिनाङ्के यदा मुखर्जी राष्ट्रपति पदवी स्वीकरणार्थम् सत्यप्रतिज्ञाम् कुर्वन्नासीत् तदा अन्नाहसारे गणस्य सदस्या: तस्योपरि उत्कोचविषयक प्रमाणानि सन्ति इति तम् वयम् प्रकाशयामः इत्यपि घोषितवन्त: । अस्माकम् भारतदेशे उत्कोचस्वीकरणारोपयुक्त प्रधानमन्त्रि: पूर्वमेवास्ति । अधुना राष्ट्रपति: अपि। किन्तू हसारे गणस्य सदस्या: अर्विन्द्केज्रिवाल्वर्य: इतोपि प्रमाणानि न प्रकाशितवान् ।


मनमोहन सिंह -


१९३२ तमे वर्षे २६ सप्टेम्बरदिनाङ्के गुरुमुखसिंह -अमृतकौरदम्पत्योः श्री मनमोहनसिंहः जातः | अर्थशास्त्रस्य ट्रायपास-अभ्यासक्रमं पठितुं सेण्ट्-जान्-महाविद्यालयं प्राविशत् । १९५५ तः१९५७ वर्षपर्यन्तं कृतस्य विशेषयोग्यतासम्पादनस्य निमित्तम् सः राइट्स् पुरस्कारं प्राप्तवान् । तथैव रेनबरीछात्रवृत्तेः ये कतिपयाः एव प्रतिग्राहकाः(स्वीकर्तारः) आसन् तेषु सः अन्यतमः अभवत् । आक्सफर्डविश्वविद्यालयस्य नफील्ड् महाविद्यालयस्य सः सदस्यः आसीत् । तेन तत्कृते प्रस्तुतस्य शोधप्रबन्धस्य शीर्षकम् एवम् आसीत् |

मन्मोहन् सिङ्

१९५१-६० कालावधौ भारतस्य निर्यातनिष्पादनम् -निर्यातप्रत्याशाः-नीति-विवक्षाः च। भारतस्य वित्तमन्त्री -१९९१ मध्ये तत्कालीनः प्रधानमन्त्री श्री.पी.वी.नरसिंहरावः श्री मनमोहनसिंहमहोदयं वित्तमन्त्री इति अचिनोत् । तस्मिन्समये भारतस्य धनसम्बन्धि अपूर्यत्वम् अस्माकं स्थूलगृहोत्पादनस्य ८.५ प्रतिशतम् आसीत् तथैव देयादेयसमीकरणे अपि महत् अपूर्णत्वम् आसीत् । प्रचलत्यां लेखागणनायाम् अपूर्णत्वमपि स्थूलगृहोत्पादनस्य ३.५ प्रतिशतस्य समीपम् आसीत् | सः निधिः केवलं कतिचित् सप्ताहानाम् आयातानां शुल्कपूर्तये मात्रं पर्याप्तम् आसीत् । अपि च भारतस्य अर्थव्यव्स्थां प्रशासनाधीनां कर्तुं यः प्रयत्नः आसीत् तस्यापि समाप्तिः आवश्यकी अभवत् ।

उल्लेखानि  :

https://www.pmindia.gov.in/en/former_pm/dr-manmohan-singh-2/

http://pranabmukherjee.nic.in/profile.html