सदस्यः:1930382 Meera Nair

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्रीमती वेङ्कटलक्षम्मा[सम्पादयतु]

सञ्चिका:Srimati Venkatalakshamma.jpg
The famous dancer
Mysore Palace Morning

कर्णाटकराज्यजनेषु को न जानाति श्रीमती वेङ्कटलक्षम्मा महोदयाया: नाम?


श्रीमती वेङ्कटलक्षम्मा (२९ मई १९०६ -१ जुलई २००२) विश्रुता भरतनाट्यनर्तकी आसीत्। सा मैसूरु  शैली  भरतनाट्यं अधीतवती। तस्यां शैल्यां एव वैदुष्यम् अपि प्राप्य कलाशिरोमणी अपि अभवत्। सा मैसूरु संस्थांस्य संस्कृते: अन्तिमा प्रतिनिधी आसीत् । १९९२ तमे वर्षे वेङ्कटलक्षम्मा पद्मभूषणेन अलङ्कृता जाता।

जन्म बाल्यं च[सम्पादयतु]

श्रीमती वेङ्कटलक्षम्मा २९ मई १९०६ लम्बानि कुटुम्बे जन्म लेभे ।तस्या: अष्टमवयसि एव तस्या: मातामह:- मातामही च तां भरतनाट्यशास्त्रस्य अध्ययनाय मैसूरु राजस्य आस्थानं नीत्वन्तौ । नाट्य सरस्वती इति सुप्रसिध्दा जट्टि तायम्माया: चरणयो: सा शिष्यत्वं प्राप्नुयात् इति कारणात् । सा तस्या: द्वादश वयसि एव रङ्गप्रवेशं कृतवती । सा आस्थान्विद्वांस-श्री देवोत्तम जोइस्, श्रीमती शान्ता शास्त्री, श्री गिरि भट्ट:- एतेभ्य: संस्कृत ज्ञानमपि प्राप्तवती।

कर्णाटक-शास्रीय-सङ्गीतम् अपि सा श्री बी देवेन्द्रप्पा तथा श्री सी रामराय: एताभ्यां महोदयाभ्यां प्राप्तवती। त्रिंशत् वर्ष पर्यन्तं सा स्वगुरुभ्यां सह नृत्यस्य प्रदर्शनं दत्तवती। प्रतिदिनं प्रात: काले वेङ्कटलक्षम्मा स्वस्य गुरो: तायम्माया: गृहं गतवती । तत्र सा तीव्र व्यायामं अकरोत्-अक्षिपटाभ्यां नाणकानि,सूचीका: च उत्थातुं सूक्ष्म अभिनायार्थं नेत्रस्नायो: नियंत्रणर्थं ।

यौवनम् भरतनाट्य वृत्ति: च[सम्पादयतु]

भरतनाट्यजगति सा शीघ्रमेव प्रख्यातिं प्राप्तवती। मैसूरु शैली भरतनाट्यं उत्तुङ्ग शिखरं आनेतुं सा एव प्रमुख कारणम् ।चत्वारिंशत् वर्ष पर्यन्तं दीर्घकालं सा मैसूरु महाराज:- श्री कृष्णराजेन्द्र वडियर् चतुर्थ: महोदय: तथा महाराज: श्री जयचामराजेन्द्र वडियर् महोदय: तयो: आस्थाने राजनर्तकी पदवीम् ऊढवती। राजप्रासादे चत्वारिंशत् वर्ष पर्यन्तं सेवानन्तरं प्रख्याता अभिनयशारदा श्रीमती वेङ्कटलक्षम्मा

स्वस्या: विद्यालयं "भारतीय नृत्य निकेतन" इति नृत्यशालाम् आरब्धवती। यदा १९६५ तमे वर्षे मैसूरु विद्यालये नर्तनस्य विभाग: आरब्ध: तदा श्रीमती वेङ्कटलक्षम्मा तस्य विभागस्य प्रथमा रीडर् अभवत्।

नव वर्षा: सेवां समर्प्य, सा नृत्यविभागात् निवृत्तिं प्राप्तवती। तस्या: निवृत्त्यनन्तरं तस्या:पौत्री श्री शकुन्तलम्मा तस्याम् एव पदव्यां सेवां कृतवती।

श्रीमती वेङ्कटलक्षम्मा स्वदेशात् विदेशात् च अनेकान् नर्तकान् , नर्तकी: च मैसूरु शैल्यां शिक्षणं दत्तवती। अनेकेषु नर्तनविद्यालयेषु श्रीमती वेङ्कटलक्षम्मा प्रधानाचार्या तथा नृत्यअध्यापिका पदव्यो:

सेवां समर्पितवती। सा नूपुरा भरतनाट्यम् विद्यालये अपि सेवां समर्पितवती।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:1930382_Meera_Nair&oldid=471343" इत्यस्माद् प्रतिप्राप्तम्