सदस्यः:1940160ikiran/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अन्तर्जालम् (Internet)[सम्पादयतु]

अन्तर्जालम्

अन्तरजालस्य स्वरूपम्

दूरसंचारक्षेत्रे सङ्गणकानां प्रयोगेन महद् परिवर्तनं संलक्ष्यते। साम्प्रतं सर्वाऽपि दूरवाणी-विनिमय-व्यवस्था सङ्गणकानां माध्यमेनैव विधीयते। इन्टरनेट्, ई-मेल्, ई-कामर्स-प्रभृतयः सङ्गणकस्य प्रयोगेण नूतनां क्रान्तिं विदधति। सङ्गणक-संबद्धा इन्टरनेट्-प्रणाली महासागरवद् वर्तते। सर्वस्मिन् जगति यत् किञ्चिद ज्ञानं विज्ञानं, शोध-संबद्धकार्यजातं च वर्तते, तत् सर्वम् एकत्रैव प्राप्तुं शक्यते। संसारे लघु-बृहद्-सङ्गणकाणाम् कश्चन विशालजालबन्धः वर्तते एषः, येन दूरभाष-माध्यमेन एकः अपरेण सह सम्पर्कं करोति । जगति सम्पूर्ण-जालबन्धाः अन्तरजालैः संयुक्ताः वर्तन्ते। जगतः कोट्यधिकाजनाः अन्तरजालस्य लाभान्विताः भवन्ति । अन्तरजाले मुख्यतः ई-मेल् , वर्ल्ड्-वैड्-वेब् , ई कामर्स् इत्यादयः सौविध्यमुपलभ्यन्ते। अन्तरजालम् (Internet) इत्यस्य लोकप्रियतायाः कारणं तस्या सुगमता-सरलता च । येषु जालबन्धेषु जगति कस्याऽपि कम्प्यूटर/साइट इत्यनेन संयोगः यथा सरलः स्यात् तद्वदेव चलदूरवाणीनां सम्पर्कः सरलः भवति ।

अन्तरजालस्य महत्त्वम्[सम्पादयतु]

बहवः जनाः अन्तरजाल-वर्ल्ड्-वैड्-वेब् (world wide web-www) इत्यनयोः एकैव मन्यन्ते, किन्तु तन्न समीचीनम्।

अन्तरजालमाध्यमेन सम्पूर्ण-संसारस्य सूचनाः क्षणाभ्यन्तरे प्राप्तुं शक्यते। यथा-

१.कश्चित् कम्पनी एवं तस्य उत्पादनानां विषये ज्ञानम्।।

२.अन्तरजालसंस्करणे विभिन्न-समाचारपत्राणां समाचारम्।

३.रोगाणां चिकित्सा,

४.चल-चित्रणि,

५.प्रचलन्त्याः क्रीडायाः विवरणम्।

६.समृद्धपुस्तकालयेभ्यः पुस्तकचयनम्।

७.संवादः, सन्देशादीनां प्रेषणम् इत्यादीनि । सूचनाः सङ्गणक-दूरभाषामाध्यमेन अन्तरजाल-सेवाप्रदातासंस्थायाः महासङ्ग्रहेण (Server) सह संयोजितम्। एतादृशं लोके बहवः सङ्ग्रहाः सन्ति ये परस्परं ग्रहाणां माध्यमेन संयुक्ताः सन्तः उपभोक्तृभ्यः अन्तरजालीयसेवां प्रदास्यति ।