सदस्यः:1940473Sachin R/प्रयोगपृष्ठम्
मम परिचय:
मम नाम सचिनः आर। अहं बालक : |अहं छात्र: अस्मि । अहं बेङ्गलूरु नगरे वसामि । मम गृहे
चत्वार: जना: सन्ति । मम मातह् नाम सिरिवन्थंम अस्ति । मम जनक: नाम रङ्गस्वम्य् अस्ति । मम
बथ्रु नाम वेद: अस्ति । मम भगिन्या: नाम स्वर: अस्ति । मम पठशाालायाः नाम क्राईस्ट् विश्वविद्यालये विज पदवअस्ति।
अहं पठामि।अहं प्रातः षड्वादने प्रभोधामि। अहं प्रात: योगं करोमि। अहं सन्क्रित्तम् पठामि। अहं
पुस्तक मध्ये संस्कृतं पाठयामि । अस्माकं देशः भारतम् अस्ति
मम जिवनम् छात्रकालः मनुष्यजीवनस्य सुवर्णमयः कालः । अस्माकं पुरातनग्रन्थेषु अस्य ईदृशं महत्त्वं यत् अनेन
मनुष्यस्य द्वितीयं जन्म मन्यते, स च द्विजः उच्यते । वस्तुतः छात्रजीवनं मनुष्यस्य द्वितीयं जन्म
एव विद्यते । यदा मनुष्यः जायते, तदा सः पशुतुल्यः एव भवति, केवलं खादितुं पातुं स्वपितुं च जानाति ।
परन्तु छात्रजीवने एव सः ज्ञानं लभते, परेषां दुःखम् अवबोद्ध, धर्मस्य तत्त्वं ज्ञातुं, परमशक्तिविषये
अनुभवितुं, महापुरुषाणां विचारान् पठितं, सम्यग् आचरितुं च अवसरं लभते । प्राचीनकाले छात्रजीवनं
ब्रह्मचर्यम् उच्यते स्म । ब्रह्मचारी तपोमयं जीवनं कठोर व्रतं च आचर्य सरलभावेन केवलं ज्ञानोपार्जने
संलग्नोऽभवत् । अनेन तपसा ज्ञानेन च भाविजीवने सः कष्टानि सोढुं समर्थोऽभवत् ज्ञानस्य, विद्यायाः
तपसः, दानादिधर्मस्य च विशिष्टं महत्त्वमस्ति मनुष्यजीवने, अन्यथा मनुष्यः पशुतुल्यो भवति । उक्तं
हि– येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः । ते मृत्युलोके भुवि भारभूता मनुष्यरूपेण
मृगाश्चरन्ति । अतएव छात्रैरस्य सुवर्णावसरस्य सदुपयोगः कर्तव्यो न च नाशयितव्यः कालः ।
यद्यस्मिन् काले छात्राः संयमेन, तपसा, परिश्रमेण नियमपूर्वक कार्यं कुर्वन्ति, सत्यमाचरन्ति,
गुरूणामादरं कुर्वन्ति, आलस्यं च त्यजन्ति तदा सकले जीवने ते कदापि विफला न भविष्यन्ति। नायं
कालः सुखमुपभोक्तुम् । केवलं सुखमिच्छता परिश्रमेण विना विद्या न लभ्यते सर्वविधो विकासश्च न
भवति । अत एवोच्यते- सुखार्थी चेत्यजेद्विद्या विद्यार्थी चेत्त्यजेत् सुखम् । सुखार्थिनः कुतो विद्या कुतो
विद्यार्थिनः सुखम् ॥ भाविजीवने सुखार्थमेव छात्रजीवने परिश्रमः क्रियते । छात्रैः नियमितं भोजनं
भक्षणीयम्, नियतं च व्यायामेन शरीर पोषणीयम्, आलस्यं त्यक्त्वा ऽ ध्ययनं कर्तव्यम् । तेन