सदस्यः:1940881GDDhanush/प्रयोगपृष्ठम्
श्री नाथमुनि:
[सम्पादयतु]परिचय:
[सम्पादयतु]ज्येष्टेऽनुराधासम्भूतं वीरनारायणे पुरे ।
गजवक्त्रांशमाचार्यमाद्यं नाथमुनिं भजे ।।
अहं आद्यं आचार्यं नाथमुनिं भजे (यः) वीरनारायणे पुरे ज्येष्टमासे अनुराधा नक्षत्रे सम्भूतः
गजवदनस्य (विष्णोः सेनादिपतेः विष्वक्सेनस्य गणेष्वेकः) अंशे ।।
कथा
[सम्पादयतु]आळवार् विरचित दिव्यप्रबन्धम् आचार्येण नाथमुनिना पुनः उध्दारः कृतमासीत् ।
श्री वैष्णव संप्रदायस्य प्रारम्बः नारायणात् समारब्ध्वा लक्ष्मी मध्यमे च नाथमुनिः एव प्रथमः आचार्यः इति मन्यते ।
यदि ग्रन्थानां सम्रक्षणं नहि क्रियते तर्हि तेषां क्षयः सुनिश्चितमेव । एवमेव आळवार् विरचित दिव्यप्रबन्धम् अपि कालानुक्रमेण क्षयः अभवत् ।
दक्षिण भारतस्य तमिऴ्नाडु प्रदेशे वीरनारायणपुरे भगवान् हरिः वेदनारायणः इति आराध्यमानः अस्ति । एतत् क्षेत्रं तमिळु भाषायां "काट्टुमन्नार कोविल् " इति उच्यते |
पुरा तस्मिन्नेव वीरनारायणपुरे ईश्वरभट्टः इति विष्णुभक्तः निवसति स्म । एषां पुत्रत्वेन नाथमुनिः जन्म लेभिरे ।
बाल्ये अल्पायुषौ एव नाथमुनिः सर्वेषु वेदेषु पारङ्गतः अभवत् । तदनन्तरं प्राप्त समुचित वयसि विवाहितः अभवत् । तदनन्तरं क्षेत्रयात्रार्थं उत्तरभारतं प्रति यात्रा कृतम् । उत्तरभारते श्रीकृष्णस्य संदर्शनानन्तरं तत्रैव निवासः कृतम् । तत्र सः नित्यं श्रीकृष्णस्य सेवायां निरतः आसीत् । एवमेव बहुदिनानि व्यतीतानि । एकस्मिन् निशायां भगवान् वेदनारायणः तस्य स्वप्ने समागत्वा तं पुनः वीरनारायणपुरं समागच्छ इति तस्मै आदिशति । नारायणस्य आज्ञामनुसरन् झटिति एव सः वीरनारायणपुरं प्रति प्रस्थानमकरोत् । मार्गे सः कुम्भकोणम् अससाद । तत्र भगवतः सारङ्गपाणेः दर्शनम् कृतम् ।
। आलयस्य प्राङ्गणे सः केनापि भक्तैः स्तूयमानम् "आरावमुदे" इति नम्माऴ्वार् विरचितं स्तोत्रं श्रुतम् । एनम् श्रुत्वा बहु आनन्दितः नाथमुनिः तान् भक्तान् अस्य विषये प्रृच्छति स्म । तेभ्यः ज्ञातं यदेतत् नम्माऴ्वारस्य रचना अस्ति एतत् सहस्रस्य शतश्लोकाः एव न तु संपूर्णं रचना इति । इदं श्रुत्वा नाथमुनेः मनसि संपूर्णं ग्रन्थम् अधीतुम् इच्छा समुत्पन्ना । ते भक्ताः ऊचुः तं नाथमुनिं नम्माऴ्वारस्य जन्मक्षेत्रं गच्छ तत्र किमपि प्राप्तुं शक्यते इति ।
तेऽपि आनन्देन कुरुगापुरिं (नम्माऴ्वारस्य जन्मक्षेत्रं) प्रति गतवन्तः । परं तत्र इतस्ततः परिभ्रमन्नपि किमपि नहि प्राप्तं । मार्गे कोऽपि वृद्धः विप्रः पराङ्कुशदासः मिलति स्म। नाथमुनेः व्यथां कथां च श्रुत्वा सः विप्रः पराङ्कुशदासः नाथमुनिं नम्माऴ्वार् विरचितं अन्य एकादश श्लोकान् प्रयच्छति स्म । पराङ्कुशदासः तं नम्माऴ्वाराय "कन्निन् सिरुदम्बु" इति स्तोत्रं द्वादशसहस्र वारं भक्त्या जपं कुरु स्वयं नम्माऴ्वार् भवते दर्शनं प्रदास्यति इति उपदिशति ।
पूर्वं कुरुगापुरौ नम्माळ्वार् बाल्ये षोडश वर्षपर्यन्तं तिन्त्रिणी वृक्षस्य अधः तपः आचरति स्म । तस्यैव तिन्त्रिणी वृक्षस्य अधः स्थित्वा नाथमुनिरपि तपः आचरति स्म । यदा द्वादसहस्रवारं पारायणः सम्पूर्णमभवत् तदा स्वयं नम्माळ्वार् प्रसन्नो भूत्वा दर्शनम् प्रयच्छति स्म । न केवलम् सह्रपद्याः परं तस्मै नाथमुनये सम्पूर्णम् चतुरसहस्र दिव्यप्रबन्धम् अयच्छत् । अस्य दिव्यप्रबन्धस्य प्रचारः कृतः नाथमुनिना । ते अनन्तरं श्रीरङ्गे श्रीरङ्गनाथस्य मन्दिरे प्रधानार्चक रूपे कार्यनिर्वहनम् कृतवन्तः। तेषाम् निर्वहनकाले नित्यसेवायां दिव्यप्रबन्धस्य पारायणः आयोजितः । एवम् नाथमुनिवर्येण श्रीवैष्णव् सम्प्रदायस्य उद्धारः कृतः । नाथमुनिवर्येण "न्यायतत्वम्" "योगरहस्य" इति ग्रन्थद्वस्य रचना कृतम् । ते स्वजीवनम् श्रीमन्नारायणस्य सेवार्थं समर्पितवन्तः । तेे गङ्गैकोण्ड चोळपुर्यां निधनम् गतवन्तः । आयुषि गतायुषि वैकुण्ठम् प्राप्तवन्तः ।
विषयः
[सम्पादयतु]एषः नाथमुनेः पुत्रः ईश्वरमुनिः , यस्य पुत्रः सव्यं महाविद्वान् यामुाचार्यः । नाथमुनिः "शडामर्शन कुल तिलकः" , "सोत्तैकुल अरसर् " , "रङ्गनाथाचार्यः" इत्यादि नाम्नापि स्मृतः ।
वयमपि नाथमुनि: इव विष्णुभक्तिं कृत्वा वैकुण्ठं तद्विष्णोः परमं पदं प्राप्नुमः ।