सामग्री पर जाएँ

सदस्यः:2010370SNEHA.R

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भीमना अमवस्ये, महत्व च आचरणे


भीमावास्या इति प्रथितं पर्व दक्षिणभारतस्य कर्णाटक-आन्ध्र-तमिळुनाडुराज्येषु आचर्यते । अमावास्या इति नाम्ना एव अवगम्यते यत् पर्वेदं आषाढमासस्य अमावास्यायामेव जनाः आचरन्ति इति।

भीमावास्या इति नाम दृष्ट्वा महाभारतविभूषितस्य अर्जुनाग्रजस्य भीमस्य अमावास्या इति केचन भावयन्ति । किन्तु अत्र भीमः इत्युक्ते शिवस्य नाम । भीमः इति शिवस्य अपरं नाम वर्तते । तस्मात् शिवसम्बद्धमेव इदं दिनमिति निश्चप्रचम् ।

अस्मिन् पर्वणि कृतया प्रार्थनया दिविस्थिताः पूर्वजाः सुप्रीताः सन्तः अनुगृह्णन्ति इति लोकाः आमनन्ति ।

भीमावास्याsख्यं पर्व महिलानां कृते पवित्रतमं विद्यते । अस्य पर्वणः ज्योतिर्भीमेश्वरव्रतमिति अपरं नाम वर्तते ।

भार्या स्वपतेः आयुरारोग्यैश्वर्याभिवृद्ध्यर्थं परमशिवं ईडते । तदनन्तरं स्वपतिमभ्यर्च्य पर्व आचरन्ति कर्णाटकराज्ये ।

यथा महिलाः पतेः आयुरारोग्यवृद्ध्यै व्रतदीक्षिताः भवन्ति, तथैव, कन्याः अपि उत्तमपतिप्राप्त्यै व्रताचरणं कुर्वन्ति ।


गतप्राणस्य पतेः प्राणरक्षणार्थं महिलैका पार्वतीपरमेश्वरौ अभ्यर्थयते । तस्याः अनितरसाधारणभक्त्या प्रीतः हरः पुनः तं मृतं जीवयति। दीर्घायुश्च ताभ्यां प्रददाति । पतिरक्षणार्थं आषढमासस्य अमावास्यायां तिथौ सा महिला व्रतं कृतवती इति‌ कृत्वा पतेः बह्वायुः कामयद्भिः स्त्रीभिः भीमावास्याव्रताचरणं क्रियते ।

आषाढमासस्य अमावास्यायामेव शिवः पार्वतीमुपयेमे इत्यभिप्रयन्ति विद्वांसः । तदर्थमेव इदं दिनं विशिष्टमिति विभाव्य वागर्थाविव संयुक्तौ पार्वतीपरमेश्वराविव सुखजीवनं यापयितुं महिलाः अस्मिन् दिने एव व्रताचरणं कुर्वन्ति ।

अस्मिन् दिने श्वशुरगृहे सत्कृत्य नूतनवधूवराभ्यां छत्रं प्रददाति । तदर्थमेव इदं दिनं विशिष्य कर्णाटकराज्ये 'कोडे (छत्रम्) अमावास्या इति नाम्नापि प्रथितमस्ति । दक्षिणकन्नडमण्डले आटि अमावास्या इति अन्यत् नामास्ति ।

स्कान्दपुराणे व्रतकथा

नैमिषारण्ये शौनकादिमहामुनयः सूतपुराणिकं पृच्छन्ति यत्, महिलानां सौभाग्यवृद्ध्यै किं व्रतं वरमिति । तदा सूतपुराणिकः भीमेश्वरव्रतमधिकृत्य उक्त्वा व्रतकथां श्रावयन्ति ।

पुरा सौराष्ट्रदेशे वीरः वज्रबाहुः इत्याख्यः राजा आसीत् । तस्य सुन्दरः सद्गुणशाली जयशीलः इति पुत्रः अवर्तत । सः यदा युवा आसीत्, तदा एव मृतः । दुःखितः राजा, मृतस्य पुत्रस्य विवाहः क्रियते चेत्, तस्य भार्यया पूर्वजानां सद्गतिः स्यादिति विचिन्त्य, यः मम मृतपुत्राय विवाहार्थं कन्यां ददाति तस्मै अपरिमितधनानि यच्छमि इति उद्घोषितवान् ।

राज्ञः उद्घोषणं श्रुत्वा विद्याविनयसम्पन्नः दरिद्रः ब्राह्मणः स्वकन्यादानार्थं धनाशावशात् समागतवान् । राज्ञः मृतपुत्रेण सह विवाहोपि समभवत् । सः कन्यापिता ब्राह्मणः बहुधनं लेभे ।

विवाहानन्तरं मृतपुत्रस्य देहं स्मशानं प्रति नीतवान् सः राजा । चितायाः सर्वाभरणभूषिता हरिद्राकुङ्कुमशोभिता मृतपुत्रस्य पत्नी परमात्मानं ध्यात्वा अग्निस्पर्शं कर्तुम् उद्युक्ता अभवत् । तत्क्षणे एव आश्चर्यवशात् वृष्टिः आपतिता अभवत् । चितायाः अग्निः अपि चक्षुरविषयो अभवत् । सूर्योपि अस्तं गतः । सः प्रदेशः तमसा आवृतः सञ्जातः । वृष्ट्या जलप्रवाहोपि समदृश्यत । भीत्या राजा सपरिवारः गृहम् अगच्छत् । किन्तु सा नूतनवधू अहुतदेहस्य समीपे एव स्थित्वा शिवम् उद्दिश्य एवं प्रार्थनाञ्चकार -

' भगवन्, पुरा भवतः प्रसादात् मार्कण्डेयः चिरञ्जीवी बभूव । च्यवनमुनिः भवतः करुणया दीर्घायुरवाप । अग्निमन्मथः भवतः अनुग्रहात् जीवनं पुनः अप्राप्नोत् । श्वेतवाहनोपि पूर्णायुषा संयुक्तो बभूव । भवतः दयया एव मन्मथस्य, मार्कण्डेयस्य, अग्नेश्च भार्याः सौभाग्यवत्यः भूत्वा पुत्रान् प्राप्तवत्यः । अत्र मया कृतः अपराधः कः? अहम् अनाथा अस्मि । माम् अपि रक्ष' इति प्रार्थनां कृतवती ।


तदा प्रार्थनया प्रीतः आशुतोषः शिवः दृष्टिपथमागत्य 'वत्से, किमवश्यकम्? वरं वृणीश्व' इति समादिष्टवान् । तदा सा महिला ' देव, ममापि सौमङ्गल्यं यच्छतु कृपया' इति पृष्टवती । तदा शिवः, भद्रे, तदर्थं व्रतमेकम् उपदिशामि । तत् व्रतं आषाढमासस्य कृष्णपक्षस्य अमावास्यायाम् आचर्यते । तस्मिन् दिने प्रातः स्नानं कृत्वा, पूजास्थलशुद्धिं निर्वर्त्य, तण्डुलराशेः उपरि दीपस्तम्भं निधाय, तस्मिन् माम् आवाह्य पूजां कुर्यात्' इति उपदिश्य, पूजाक्रममपि विस्तरेण उपदिष्टवान् । सा श्रद्धाभक्तिसमन्विता यत् यत् उपदिष्टं तत् सर्वं कृतवती । अनुक्षणमेव तत्र स्वर्णरत्नमयं भवनं समदृश्यत । राजपुत्रस्य मृतदेहः सजीवः भूत्वा जागृतः सञ्जातः । शिवकारुण्यात् सा दाम्पत्यसुखम् अनुभूतवती ।

स्कान्दपुराणे वर्णिता इयं कथा व्रतस्यास्य महिमां गरिमां च कथयति । https://www.nativeplanet.com/travel-guide/bheemana-amavasya-in-karnataka-002278.htmlhttps://en.wikipedia.org/wiki/Bheemana_Amavasya

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:2010370SNEHA.R&oldid=463002" इत्यस्माद् प्रतिप्राप्तम्