सदस्यः:2010483tejaswinir/प्रयोगपृष्ठम्
संस्कृतम् जगतः एकतमा अतिप्राचीना समृद्धा शास्त्रीया च भाषासु वर्तते। संस्कृतं भारतस्य जगत: वा भाषासु एकतमा प्राचीनतमा। भारती, सुरभारती, अमरभारती, अमरवाणी, सुरवाणी, गीर्वाणवाणी, गीर्वाणी, देववाणी, देवभाषा, संस्कृतावाक्, दैवीवाक्, इत्यादिभिः नामभिः एतद्भाषा प्रसिद्धा।भारतीयभाषासु बाहुल्येन संस्कृतशब्दाः उपयुक्ताः। संस्कृतात् एव अधिकाः भारतीयभाषाः उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीयाः अनेकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति।व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति।पाणिनीयाष्टाध्यायी इति नाम्नि महर्षिपाणिनेः विरचना जगतः सर्वासां भाषाणां व्याकरणग्रन्थेषु अन्यतमा वैयाकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्थानम् इवास्ति।संस्कृतवाङ्मयं विश्ववाङ्मये अद्वितीयं स्थानम् अलङ्करोति। संस्कृतस्य प्राचीनतमग्रन्थाः वेदाः सन्ति। वेद-शास्त्र-पुराण-इतिहास-काव्य-नाटक-दर्शनादिभिः अनन्तवाङ्मयरूपेण विलसन्ती अस्ति एषा देववाक्। न केवलं धर्म-अर्थ-काम-मोक्षात्मकाः चतुर्विधपुरुषार्थहेतुभूताः विषयाः अस्याः साहित्यस्य शोभां वर्धयन्ति अपितु धार्मिक-नैतिक-आध्यात्मिक-लौकिक-वैज्ञानिक-पारलौकिकविषयैः अपि सुसम्पन्ना इयं देववाणी।
इयं भाषा न केवलं भारतस्य अपि तु विश्वस्य प्राचीनतमा भाषा इति मन्यते। इयं भाषा तावती समृद्धा अस्ति यत् प्राय: सर्वासु भारतीयभाषासु न्यूनाधिकरूपेण अस्या: शब्दा: प्रयुज्यन्ते. अत: भाषाविदां मतेन इयं सर्वासां भाषाणां जननी मन्यते। पुरा संस्कृतं लोकभाषा आसीत्। जना: संस्कृतेन वदन्ति स्म ।
विश्वस्य आदिम: ग्रन्थ: ऋग्वेद: संस्कृतभाषायामेवास्ति। अन्ये च वेदा: यथा यजुर्वेद:, सामवेद:, अथर्ववेदश्च संस्कृतभाषायामेव सन्ति। आयुर्वेद-धनुर्वेद-गन्धर्ववेदार्थवेदाख्या: चत्वार: उपवेदा: अपि संस्कृतेन एव विरचिता:॥
सर्वा: उपनिषद: संस्कृते उपनिबद्धाः । अन्ये ग्रन्था: – शिक्षा कल्प: निरुक्तं ज्यौतिषं छन्द: व्याकरणं दर्शनम् इतिहास: पुराणं काव्यं शास्त्रं चेत्यादयः ॥
महर्षि-पाणिनिना विरचित: अष्टाध्यायी इति संस्कृतव्याकरणग्रन्थ: अधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्थानं वर्तते ॥
- वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् |
- पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् ॥
लिपि:
लिपिः वर्णादीनां बोधकं चिह्नम्।
संस्कृतलेखनं पूर्वं सरस्वतीलिप्या आसीत् | कालान्तरे एतस्य लेखनं ब्राह्मीलिप्या अभवत्। तदनन्तरम् एतस्य लेखनं देवनागर्याम् आरब्धम् ।
अन्यरूपान्तराणि अधोनिर्दिष्टानि सन्ति –
असमीयालिपिः बाङ्गलालिपिः ओड़ियालिपिः शारदालिपिः तेलुगुलिपिः तामिऴलिपिः यव-द्वीपलिपि: कम्बोजलिपिः कन्नडलिपिः नेपाललिपिः मलयाळलिपिः गुजरातीलिपिः इत्यादय: ॥
मूलतो यस्मिन् प्रदेशे या लिपिर्जनैर्मातृभाषां लेखितुमुपयुज्यते तस्मिन्प्रदेशे तया एव लिप्या संस्कृतमपि लिख्यते। पूर्वं सर्वत्र एवमेव आसीत्, अत एव प्राचीना: हस्तलिखितग्रन्था; अनेकासु लिपिसु लिखिता: सन्ति । अर्वाचीने काले तु संस्कृतग्रन्थानां मुद्रणं सामान्यतो नागरीलिप्या दृश्यते। नवीनकाले संस्कृतभाषालेखनार्थं देवनागरीलिपि एव प्रायः उपयुज्यते।