सदस्यः:2030180 ISHA

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भारत

अस्माकं देशः भारतदेशः। एषः देशः विश्वस्य विशालः गणतन्त्रदेशः वर्तते। भारतदेशस्य उत्तरदिशि हिमालयः नाम उत्तुङ्गतमः पर्वतः अस्ति। दक्षिणदिशि श्रीलङ्कादेशः वर्तते। पश्चिमदिशि अफगाणिस्तानदेशः तथा पूर्वदिशि बर्मा, नेपालः चीनः च वर्तन्ते। गङ्गा, यमुना, ब्रह्मपुत्रा, कृष्णा, कावेरी, गोदावरी नर्मदा च भारतदेशस्य नद्यः। भारतदेशः धार्मिकः तथा देवभूमिः नाम्ना प्रसिद्धः। केदारनाथः, बद्रीनाथः, काशी, मथुरा, सुवर्णमन्दिरः, वैष्णोदेवी इत्यादयः धार्मिकस्थलाः प्रसिध्दाः। वेदाः, रामायणम्, महाभारतम्, पुराणानि इत्यादी अस्माकं प्राचीनग्रन्थाः सन्ति। अस्माकं देशे विविधाः भाषाः, विविधाः वेशाः विविधाः धर्माः च। तथापि अस्माकम् एका एव राष्ट्रीयता। वयं सर्वे भारतीयाः। भारतदेशस्य उत्कर्षः अस्माकं धर्मः। वन्दे भारतम्। वन्दे मातरम्। भारतम्, आधिकारिकरूपेण भारतगणराज्यम्, दक्षिण-जम्बूद्वीपे स्थितं गणराज्यम् वर्तते । जनसंख्यादृष्ट्या एषः विश्वे द्वितीये स्थाने विद्यते। विश्वे प्रसिद्धो जनतन्त्रयुत‌: देश: एष:। एषः देशः प्राचीन-सिन्धु-सभ्यतायाः मातृभूमिः। एषः भूभागः स्वस्य सांस्कृतिकसम्पदया प्रसिद्धः अस्ति । हिन्दुधर्मः, बौद्धधर्मः, जैनधर्मः, सिख्खधर्मः इत्येतेषां विश्वस्य चतुर्णां प्रमुखानां तत्त्वदर्शनानाम् उद्गमस्थानम् एतत् । क्रिस्ताब्दस्य प्रथमशतके अत्र प्रविष्टाः झरातुष्ट्रधर्मः, क्रैस्तधर्मः, इस्लामधर्मः च अत्र द्रष्टुं शक्याः । एतेन भारतस्य मतसामरस्यं ज्ञातं भवति । क्रमेण ईस्टीण्डियाकम्पनीद्वारा ब्रिटिश्शासनम् आगतम् । शासनस्य केन्द्रस्थानं लण्डन् आसीत् । अष्टादशशतकात् नवदशशतकस्य मध्यभागपर्यन्तं ते शासितवन्तः इमं देशम् । बहूनाम् आन्दोलनानां कारणतः भारतं १९४७ तमे वर्षे स्वतन्त्रः देशः अभवत् । भारतस्य अर्थव्यवस्था विश्वे नवमं स्थानं प्राप्ता । अधुना एषः देशः अभिवृद्धिपथे प्रचलदस्ति । एषः अण्वस्त्रयुतः देशः अस्ति । प्रादेशिकस्तरे शक्तिमान् देशः । विश्वे एव सेनाबले तृतीयं स्थानमस्ति अस्य । सेनायाः कृते व्ययविषये अस्य दशमं स्थानमस्ति । भारतं गणतन्त्रात्मकं देशमस्ति । भारतीयसंसदे सदनद्वयमस्ति । अत्र २८ राज्यानि, सप्तकेन्द्रशासितप्रदेशाः च सन्ति । एतत् आर्थिकपुरोगामिपञ्चराष्ट्रेषु अयमपि अनयतमः देशः । अयं देशः बहुभाषीयः,विविधधर्मी च अस्ति । अत्र विविधाः वन्यजीविनः वसन्ति । स्वातन्त्र्यम्, गणराज्यत्वम्

भारतभूमिः पूर्वं भरतखण्डः भारतवर्षम् इति नाम्ना प्रसिद्धा असीत् । अस्य नाम्नः उद्गमं प्रति विविधा: पारम्पर्यकथा: प्रचलिता: वर्तन्ते | ऋषभपुत्रेण राजर्षिभरतेन दुष्यन्तपुत्रेण भरतेन च परिपालितस्याः अस्या भूमेः भारतम् इति नाम रूढिगतम् इत्येका कथा। अथावा पुरुवंशो पूर्वं भरतः इति महान् चक्रवर्तीराजा आसीत् तेन प्रशासितायाः भूमेः इदम् नाम आगतम् इत्यन्या। अथवा विष्णुपुराणे उक्तं यथा....इत्यपि च|| उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम्। वर्षं तद्भारतं नाम भारती यत्र सन्ततिः ॥ भारतस्‍य इतिहासः आधुनिकमानवस्य (होमो-सेपियन्स्) पुरातत्त्वावशेषकालतः प्रायः ३४००० वर्षेभ्यः आरब्धः । भारतस्य इतिहासे सम्पूर्णभरतखण्डस्य तन्नाम इदानीन्तनभारतस्य पाकिस्तानस्य, बाङ्ग्लादेशस्य, श्रीलङ्कादेशस्य, नेपालदेशस्य, भूतानदेशस्य च इतिहासः अन्तर्भूतः । ५०००वर्षेभ्यः पूर्वतनी सिन्धुखातस्य नागरिकता जगति एव अत्यन्तं पुरातनसंस्कृतिः । तदानीन्तनः इतिहासः विवादात्मकः अस्ति । इण्डो-आर्यन्-जनानाम् आगमनसिद्धान्तानुसारम् आर्यन्-जनाः क्रि. पू. २०००-१५००अवधौ मध्यएषियाभागतः आगत्य इदानीन्तनपश्चिमोत्तरभारते अवसन्। स्थानीयेभ्यः द्राविडजनैः सह जातः तेषां सम्पर्कः भारतस्य शास्त्रीयसंस्कृतेः उदयस्य कारणं जातम् इति ऊह्यते। भारतसर्वकारः, आधिकारिकरूपेण सङ्घीयशासनम् इत्युच्यते, अपि च केन्द्रीयशासनमिति ज्ञायते। इदं शासनं भारतस्य संविधानद्वारा संस्थापितमासीत् । अस्तीदं २९ राज्यानां सप्त सङ्घराज्यक्षेत्राणां च शासकाधिकरणम्, समाहत्य यानि भारतगणतन्त्रमिति उच्यन्ते। अस्य संस्थितिः नवदिल्ली (भारतस्य राजधानी) इत्यत्र अस्ति। सर्वकारस्यास्य तु तिस्रः शाखाः: कार्यकारिणी, विधायिका न्यायपालिका च। कार्यकारिणीशाखायाः प्रमुखस्तु राष्ट्रपतिः। स तु राज्यस्य प्रमुखः वर्तते। राष्ट्रपतिः स्वकीय-शक्तीन् प्रत्यक्षतया अथवा अधीनाधिकारिणां माध्यमेन प्रयोजयति।[१] संसदः विधायिकाशाखायां तु निम्नं सदनं लोकसभानाम अपि च उच्चं सदनं राज्यसभानाम तथा च राष्ट्रपतिः वर्तन्ते। न्यायपालिकायां च सर्वोच्चन्यायालयः शीर्षस्थः, अपि च 21 उच्चन्यायालयाः, जिल्लास्तरे च नागराः, आपराधिकाः, पारिवारिकाश्च न्यायलयाः बहवः विद्यन्ते। भारतं नाम संसारे बृहत्तमं लोकतन्त्रं वर्तते। नागरिकानां शासनार्थे मूलभूतानि नागराणि आपराधिकानि वा विधानानि संसदि एव विधिनिर्माणद्वारा स्थाप्यन्ते। कानिचित् एतादृशानि विधानानि सन्ति- सिविल् प्रोसीजर् कोड् इत्येतत्, भारतीयदण्डसंहिता, आपराधिकप्रक्रियासंहिता च। सङ्घीयेऽथ च राज्यीयेषु सर्वकारेषु कार्यकारिणी, विधायिका न्यायपालिका च शाखा वर्तते। ७३तमेन ७४तमेन च संविधानसंशोधनेन स्थानीयशासनार्थं पञ्चायतराज्यप्रणाली संस्थाबद्धीकृता। भारतम्

भारतम् https://commons.wikimedia.org/w/index.php?title=Special:ListFiles/2030180_ISHA&ilshowall=1

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:2030180_ISHA&oldid=462987" इत्यस्माद् प्रतिप्राप्तम्