सदस्यः:2030409rmuditha
नियम॑ समुदायस्य पालनम् 'अनुशासनम्' कथ्यते। परिवारस्य, विद्यालयस्थ नगरस्य समाजस्य देशस्य वा ये ये नियमाः भवन्ति, तेषां पालनमेव अनुशासनमस्ति। नियमानुसारम् आचरणमपि आवश्यकं। सर्वेषु स्थानेषु अनुशासनस्य नियमाः सन्ति। गृहे पितरौ मुख्यो भवतः। तयोः आदेशानां पालन बालकानां परम॑ कर्तव्यमस्ति। एतदेव अनुशासन कथ्यते। यस्मिन् गृहे अनुशासन नास्ति तत्र कदापि शान्तिर्नास्ति। विद्यालये तु अनुशासनमनिर्वायम् एव। यथासमयम् आगमनम् गुरुणाम् आज्ञापालनम्। सावधानेन पठनम् अतीवाश्यकम्। अनुशासनाभावे छात्रा: सफलतां न प्राप्रुवन्ति। महाविद्यालये अपि अनुशासन परमावश्यकम्। अनुशासनहीनाः छात्रा: बहुमूल्य समय विनाशयन्ति। अनुशासनहीनानि विद्यामन्दिराणि कलह-सदनानि जायन्ते। एवमेव सार्वजनिक संस्थासु, शासने सेनायाञ्ञ अनुशासनेनैव कार्य प्रचलति। यत्र अनुशासननियमाः सुनिश्चिताः भवन्ति, तेषां पालनेन एव समाज: सुस्थितिम् याति। शासनस्य कृते अनुशासन परमावश्यकमस्ति। यः देशः अधिकम् अनुशासन परिपालयति सः एव देशः उन्नतिपथं गच्छति। अनुशासन हि कस्यापि देशस्य महत्वपूर्ण बल॑ वर्तते। अनुशासने पालिते सर्वत्र सुव्यवस्था भवति, अन्य अभावे सर्वदा अव्यवस्था प्रसरति, तथा अनेकाविधा हानिरपि संभवति। अनुशासन समाजस्य कल्याणाय, उन्नत्ये च आवश्यक भवति, किन्तु सम्प्रति अस्माकं देशे अस्य पालन न भवति। प्रायः छात्रेषु, नागरिकेषु अनुशासनहीनत्वं दृश्यते। छात्रा: मर्यादामुल्लंध्य नियमान् न पालयन्ति, आन्दोलनानि च कुर्वन्ति। तस्मात् ते स्वहानि कुर्वन्ति, देशस्य सम्पति च विनाशयन्ति। ये जीवने अनुशासन पालयन्ति ते एव सफलता प्राप्रुवन्ति। अतएव अनुशासनमत्यावश्यकं, सर्वेश्र परिपालनीयम्।
अस्माक॑ जीवने अनुशासनस्य महत्त्वपूर्ण स्थानम् अस्ति | न केवल मानवजीवने अपितु समाजे, राष्ट्रेदेशे वा अनुशासनस्थ महती आवश्यकता वर्तते | यतोहि समाजे यदि जना: अनुशासन न पालयन्ति , तहिं अव्यवस्था भवति । अस्मिन् संसारे वस्तुत: अनुशासनमेव ईहृशं वस्तु येन अस्माक॑ सर्वाणि कार्याणि परिपूर्णानि भवन्ति , सम्यक्तया सहजेनैव च अनुशासनाभावे वयं किमपि कर्तु न शक्नुमः । विषये5स्मिन् सेनायाः उदाहरणं महत्त्वपूर्णम् अस्ति । कस्यापि देशस्य सैनिकानां शक्ति: तेषां अनुशासने भवति। या सेना यादशी अनुशासिता सा खलु शक्तिसम्पन्ना भवति। एवमेव यस्मिन् संगठने अनुशासन कठोर भवति,तदेव सफल भवति सदेव समाजे । अन्यञ्ज यदि जन: विद्यार्थिजीवने अनुशासित: स्यात् , तर्हि अवश्यमेव स: सफल: भवेत्।
एवमेव कस्मिन् अपि राष्ट्र अनुशासनस्य परमावश्यकता भवति। अनुशासनविहीन: राष्ट्र: विनष्टः भवति | यदि बालक : बाल्यकाले अनुशासित: न स्यात् , त्हिं सः युवावस्थायां उच्छुड्खल: भवति। सः कुमार्गगामी भवति | एवमेव स्त्रियः अपि अनुशासिता: सुगृहिणी भवितुं शक्या:। अनुशासनाभावे सा चरित्रभ्रष्टा भवति,उच्छुड्खला च जायते। वस्तुत: भारतवर्ष प्राचीनकालादू एव अनुशासनस्य महत्ता वर्णिता अस्माक॑ शास्त्रेषु पदे-पदे। गुरुकुले शिष्य: गुरोः अनुशासन मन्यते सम, तस्य विद्यार्थिजीवने सर्वत्र अनुशासनस्य साग्राज्यमेव दृश्यते। यदि वय॑ महापुरुषाणां जीवन॑ अवलोकयाम: तर्हि निश्चयमेव तेषां जीवने महत: अनुशासनस्य दर्शन कुर्म:।
सूक्ष्मदष्ट्या अवलोकनेन प्रकृतिरपि अनुशासने बद्धा प्रतीयते। यतोहि सूर्य: प्रतिदिन पूर्वस्यां दिशि निर्धारिते समये उदेति। षड्क्रतवो5पि नियमपूर्वकमेव आयान्ति यान्ति च। आकाशे सर्वाणि नक्षात्रि अनुशासने निबद्धानिखलु परिभ्रमणं कुर्वन्ति। वायुरपिआनुशासित: प्रतिदिनं चलति। अनुशासिता: मेघा: नियमेन वर्षन्ति।यदिएतेसर्वेसम्यक् रूपेण अनुशासने न भवेयु: तर्हिं सर्वा अव्यवस्था स्यात्। एतां प्रकृति दृष्ट्रा खलु मानवैरपि सर्व: अनुशासनस्य पालनं करणीयम्। यः जनः स्वेच्छाचारी भवति , तस्य समाजे नैव आदरो भवति। तस्य अनेकश: महती हानिरपि जायते। वस्तुत: अस्माकं सर्वेषु क्षेत्रेषु केचित् नियमाः निर्मिता:पूर्वः जनेः,तेषां नियमानामेव सम्यक्तया पालनमेव अनुशासन भवति। एतेः नियमैः खलु समाजव्यवस्था सुचारुरूपेण प्रचलति। अनुशासनम् अनेन प्रकारेण न केवलं मनुष्यस्य अपितु मानवतायाः कृते च कल्याणकारी अस्ति। अत: अस्माभिः सर्वे: सदेव स्वकल्याणं दृष्ट्न समाजकल्याणबुद्धया च सर्वदा अनुशासनम् स्वीकर्तव्यम्। अनेन अस्माकं सर्वेषां उन्नतिः भविष्यति।